Adhikāra 66

पिप्पलीलवणोपेतौ बस्ताण्डौ क्षीरसर्पिपा ।
साधितौ भक्षयेद्यस्तु स गच्छेत्प्रमदाशतम् ॥ १ ॥
बस्ताण्डसिद्धे पयसि साधितानसकृत्तिलान् ।
यः खादेत्स नरो गच्छेत्स्त्रीणां शतमपूर्ववत् ॥ २ ॥
चूर्णं विदार्याः सुकृतं स्वरसेनैव भावितम् ।
सर्पिःक्षीरयुतं लीढ्वा शतं गच्छेद्वराङ्गनाः ॥ ३ ॥
एवमामलकं चूर्णं स्वरसेनैव भावितम् ।
297-b
शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् ।
एतेनाशीतिवर्षोऽपि युवेव परिहृष्यते ॥ ४ ॥
विदारीकन्दकल्कं तु घृतेन पयसा नरः ।
उदुम्बरसमं खादन्वृद्धोऽपि तरुणायते ॥ ५ ॥
स्वयंगुप्तागोक्षुरयोर्बीजचूर्णं सशर्करम् ।
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ॥ ६ ॥
उच्चटाचूर्णमप्येवं क्षीरेणोत्तममुच्यते ।
शतावर्युच्चटाचूर्णं पेयमेवं सुखार्थिना ॥ ७ ॥
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम् ।
पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत् ॥ ८ ॥
गोक्षुरकः क्षुरकः शतमूली
वानरि नागबलातिबला च ।
चूर्णमिदं पयसा निशि पेयं
यस्य गृहे प्रमदाशतमस्ति ॥ ९ ॥
घृतभृष्टो दुग्धमापपायसो वृष्य उत्तमः ।
दध्नः सारं शरच्चन्द्रसन्निभं दोषवर्जितम् ॥ १० ॥
298-a
शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान् ।
युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे ॥ ११ ॥
मार्जिते प्रक्षिपेच्छीते घृताढ्यं षष्टिकौदनम् ।
तद्दद्यादुपरिष्टाच्च रसानां मात्रया पिबेत् ।
वर्णस्वरबलोपेतः पुमांस्तेन वृषायते ॥ १२ ॥
आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभर्जिताः ।
तप्ते सर्पिषि यः खादेत्स गच्छेत्स्त्रीषु न क्षयम् ॥ १३ ॥
शतावरीरजःप्रस्थं प्रस्थं गोक्षुरकस्य च ।
वाराह्या विंशतिपलं गुडूच्याः पञ्चविंशतिः ।
भल्लातकानां द्वात्रिंशच्चित्रकस्य दशैव तु ॥ १४ ॥
तिलानां शोधितानां च प्रस्थं दद्यात्सुचूर्णितम् ।
त्र्यूषणस्य पलान्यष्टौ शर्करायाश्च सप्ततिः ॥ १५ ॥
माक्षिकं शर्करार्धेन माक्षिकार्धेन वै घृतम् ।
शतावरीसमं देयं विदारीकन्दजं रजः ॥ १६ ॥
एतदेकीकृतं चूर्णं स्निग्धे भाण्डे निधापयेत् ।
पलार्धमुपयुञ्जीत यथेष्टं चापि भोजनम् ॥ १७ ॥
मासैकमुपयोगेन जरां हन्ति रुजामपि ।
बलीपलितखालित्यमेहपाण्ड्वाद्यपीनसान् ॥ १८ ॥
हन्त्यष्टादश कुष्ठानि तथाष्टावुदराणि च ।
भगन्दरं मूत्रकृच्छ्रं गृध्रसीं सहलीमकम् ॥ १९ ॥
क्षयं चैव महाश्वासान्पञ्चकासान्सुदारुणान् ।
अशीतिं वातजान्रोगाञ्चत्वारिंशच्च पैत्तिकान् ॥ २० ॥
विंशतिं श्लैष्मिकांश्चैव संसृष्टान्सान्निपातिकान् ।
सर्वानर्शोगदान्हन्ति वृक्षमिन्द्राशनिर्यथा ॥ २१ ॥
स काञ्चनाभो मृगराजविक्रम-
स्तुरङ्गमं चाप्यनुयाति वेगतः ।
298-b
स्त्रीणां शतं गच्छति सोऽतिरेकं
प्रकृष्टदृष्टिश्च यथा विहङ्गः ॥ २२ ॥
पुत्रान्सञ्जनयेद्वीरान्नरसिंहनिभांस्तथा ।
नारसिंहमिदं चूर्णं सर्वरोगहरं नृणाम् ॥ २३ ॥
वाराहीकन्दसङ्गस्तु चर्मकारालुको मतः ।
पश्चिमे घृष्टिशब्दाख्यो वराहलोमवानिव ॥ २४ ॥
गोधूमाच्च पलशतं निःक्वाथ्य सलिलाढके ।
पादावशेषे पूते च द्रव्याणीमानि दापयेत् ॥ २५ ॥
गोधूमं युञ्जातफलं माषद्राक्षापरूषकम् ।
काकोली क्षीरकाकोली जीवन्ती सशतावरी ॥ २६ ॥
अश्वगन्धा सखर्जूरा मधुकं त्र्यूषणं सिता ।
भल्लातकमात्मगुप्ता समभागानि कारयेत् ॥ २७ ॥
घृतप्रस्थं पचेदेकं क्षीरं दत्त्वा चतुर्गुणम् ।
मृद्वग्निना च सिद्धे च द्रव्याण्येतानि निःक्षिपेत् ॥ २८ ॥
299-a
त्वगेलापिप्पलीधान्यकर्पूरं नागकेशरम् ।
यथालाभं विनिक्षिप्य सिताक्षौद्रपलाष्टकम् ॥ २९ ॥
शत्त्वेक्षुदण्डेनालोड्य विधिवद्विनियोजयेत् ।
दाल्योदनेन भुञ्जीत पिबेन्मांसरसेन वा ॥ ३० ॥
केवलस्य पिबेदस्य पलमात्रां प्रमाणतः ।
न तस्य लिङ्गशैथिल्यं न च शुक्रक्षयो भवेत् ॥ ३१ ॥
बल्यं परं वातहरं शुक्रसञ्जननं परम् ।
मूत्रकृच्छ्रप्रशमनं वृद्धानां चापि शस्यते ॥ ३२ ॥
पलद्वयं तदश्नीयाद्दशरात्रमतन्द्रितः ।
स्त्रीणां शतं च भजते पीत्वा चानुपिबेत्पयः ॥ ३३ ॥
अश्विभ्यां निर्मितं चैतद्गोधूमाद्यं रसायनम् ।
जलद्रोणे तु गोधूमक्वाथे तच्छेषमाढकम् ॥ ३४ ॥
युञ्जातकस्य स्थाने तु तद्गुणं तालमस्तकम् ।
कल्कद्रव्यसमं मानं त्वगादेः साहचर्यतः ॥ ३५ ॥
299-b
घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत् ।
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुच्यते ॥ ३६ ॥
कूष्माण्डकात्पलशतंसुस्विन्नंनिष्कुलीकृतम् ।
प्रस्थं घृतस्य तैलस्य तस्मिंस्तप्ते प्रदापयेत् ॥ ३७ ॥
त्वक्पत्रधन्याकव्योषजीरकैलाद्वयानलम् ।
ग्रन्थिकं चव्यमानङ्गपिप्पलीविश्वभेषजम् ॥ ३८ ॥
शृङ्गाटकं कशेरुं च प्रलम्बं तालमस्तकम् ।
चूर्णीकृतं पलांशं च गुडस्य च तुलां पचेत् ॥ ३९ ॥
शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत् ।
कफपित्तानिलहरं मन्दाग्नीनां च शस्यते ॥ ४० ॥
कृशानां बृंहणं श्रेष्ठं वाजीकरणमुत्तमम् ।
प्रमदासु प्रसक्तानां ये च स्युः क्षीणरेतसः ॥ ४१ ॥
क्षयेण च गृहीतानां परमेतद्भिषग्जितम् ।
कासं श्वासं ज्वरं हिक्कां हन्ति छर्दिमरोचकम् ॥ ४२ ॥
गुडकूष्माण्डकं ख्यातमश्विभ्यां समुदाहृतम् ।
खण्डकूष्माण्डवत्पात्रं स्विन्नकूष्माण्डकद्द्रवः ॥ ४३ ॥
यत्किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु ।
हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते ॥ ४४ ॥
भल्लातकबृहतीफल-
दाडिमफलकल्कसाधितं कुरुते ।
लिङ्गं मर्दनविधिना
कटुतैलं वाजिलिङ्गाभम् ॥ ४५ ॥
कनकरसमसृणवर्तित-
हयगन्धामूलविश्वपर्युषितम् ।
माहिषमिह नवनीतं
गतबीजे कनकफलमध्ये ॥ ४६ ॥
गोमयगाढोद्वर्तितं
पूर्वं पश्चादनेन संलिप्तम् ।
भवति हयलिङ्गसदृशं
लिङ्गं कठिनाङ्गनादयितम् ॥ ४७ ॥
300-a
अश्वगन्धावरीकुष्ठमांसीसिंहीफलान्वितम् ।
चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत् ।
स्तनलिङ्गकर्णपालिवर्धनं म्रक्षणादिदम् ॥ ४८ ॥
भल्लातकबृहतीफल-
नलिनीदलसिन्धुजलशूकैः ।
माहिपनवनीतेन च
करम्बितैः सप्तदिनमुषितैः ॥ ४९ ॥
मूलेन हयगन्धाया माहिषमलमर्दितपूर्वमथ ।
लिप्तं भवति लघुकृतरासभलिङ्गं ध्रुवं पुंसाम् ॥ ५० ॥
नीलोत्पलसितपङ्कजकेशरमधुशर्करावलिप्तेन ।
सुरते सुचिरं रमते दृढलिङ्गो भवति नाभिविवरेण ॥ ५१ ॥
300-b
सिद्धं कुसुम्भतैलं भूमिलताचूर्णमिश्रितं कुरुते ।
चरणाभ्यङ्गेन रतेर्बीजस्तम्भाद्दृढं लिङ्गम् ॥ ५२ ॥
सप्ताहं छागभव-
सलिलस्थं करभवारुणीमूलम् ।
गाढोद्वर्तनविधिना
लिङ्गस्तम्भं तथा दृढं कुरुते ॥ ५३ ॥
गोरेकोन्नतशृङ्ग-
त्वग्भवचूर्णेन धूपितं वस्त्रम् ।
परिधाय भजति ललनां
नैकाण्डे? भवति हर्षार्तः ॥ ५४ ॥
समतिलगोक्षुरचूर्णं
छागीक्षीरेण साधितं समधु ।
भुक्तं क्षपयति षाण्ढ्यं
यज्जनितं सुप्रयोगेण ॥ ५५ ॥
योगजवराङ्गबद्धं
मथितेन खालित्यं हरति ।
उन्मुखगोशृङ्गोद्भव-
मृल्लेपो? योगजध्वजभङ्गहरः ॥ ५६ ॥
कुष्ठैलवालुकैला
मुस्तकधन्याकमधुकजः कवलः ।
अपहरति पूतिगन्धं
रसोनमदिरादिजं गन्धम् ॥ ५७ ॥
क्षौद्रेण बीजपूर-
त्वग्लीढाधोवातगन्धनुत् ॥ ५८ ॥