297-b
शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् ।
एतेनाशीतिवर्षोऽपि युवेव परिहृष्यते ॥ ४ ॥
विदारीकन्दकल्कं तु घृतेन पयसा नरः ।
उदुम्बरसमं खादन्वृद्धोऽपि तरुणायते ॥ ५ ॥
स्वयंगुप्तागोक्षुरयोर्बीजचूर्णं सशर्करम् ।
धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ॥ ६ ॥
उच्चटाचूर्णमप्येवं क्षीरेणोत्तममुच्यते ।
शतावर्युच्चटाचूर्णं पेयमेवं सुखार्थिना ॥ ७ ॥
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम् ।
पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत् ॥ ८ ॥
गोक्षुरकः क्षुरकः शतमूली
वानरि नागबलातिबला च ।
चूर्णमिदं पयसा निशि पेयं
यस्य गृहे प्रमदाशतमस्ति ॥ ९ ॥
घृतभृष्टो दुग्धमापपायसो वृष्य उत्तमः ।
दध्नः सारं शरच्चन्द्रसन्निभं दोषवर्जितम् ॥ १० ॥