298-a
शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान् ।
युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे ॥ ११ ॥
मार्जिते प्रक्षिपेच्छीते घृताढ्यं षष्टिकौदनम् ।
तद्दद्यादुपरिष्टाच्च रसानां मात्रया पिबेत् ।
वर्णस्वरबलोपेतः पुमांस्तेन वृषायते ॥ १२ ॥
आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभर्जिताः ।
तप्ते सर्पिषि यः खादेत्स गच्छेत्स्त्रीषु न क्षयम् ॥ १३ ॥
शतावरीरजःप्रस्थं प्रस्थं गोक्षुरकस्य च ।
वाराह्या विंशतिपलं गुडूच्याः पञ्चविंशतिः ।
भल्लातकानां द्वात्रिंशच्चित्रकस्य दशैव तु ॥ १४ ॥
तिलानां शोधितानां च प्रस्थं दद्यात्सुचूर्णितम् ।
त्र्यूषणस्य पलान्यष्टौ शर्करायाश्च सप्ततिः ॥ १५ ॥
माक्षिकं शर्करार्धेन माक्षिकार्धेन वै घृतम् ।
शतावरीसमं देयं विदारीकन्दजं रजः ॥ १६ ॥
एतदेकीकृतं चूर्णं स्निग्धे भाण्डे निधापयेत् ।
पलार्धमुपयुञ्जीत यथेष्टं चापि भोजनम् ॥ १७ ॥
मासैकमुपयोगेन जरां हन्ति रुजामपि ।
बलीपलितखालित्यमेहपाण्ड्वाद्यपीनसान् ॥ १८ ॥
हन्त्यष्टादश कुष्ठानि तथाष्टावुदराणि च ।
भगन्दरं मूत्रकृच्छ्रं गृध्रसीं सहलीमकम् ॥ १९ ॥
क्षयं चैव महाश्वासान्पञ्चकासान्सुदारुणान् ।
अशीतिं वातजान्रोगाञ्चत्वारिंशच्च पैत्तिकान् ॥ २० ॥
विंशतिं श्लैष्मिकांश्चैव संसृष्टान्सान्निपातिकान् ।
सर्वानर्शोगदान्हन्ति वृक्षमिन्द्राशनिर्यथा ॥ २१ ॥
स काञ्चनाभो मृगराजविक्रम-
स्तुरङ्गमं चाप्यनुयाति वेगतः ।