299-b
घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत् ।
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुच्यते ॥ ३६ ॥
कूष्माण्डकात्पलशतंसुस्विन्नंनिष्कुलीकृतम् ।
प्रस्थं घृतस्य तैलस्य तस्मिंस्तप्ते प्रदापयेत् ॥ ३७ ॥
त्वक्पत्रधन्याकव्योषजीरकैलाद्वयानलम् ।
ग्रन्थिकं चव्यमानङ्गपिप्पलीविश्वभेषजम् ॥ ३८ ॥
शृङ्गाटकं कशेरुं च प्रलम्बं तालमस्तकम् ।
चूर्णीकृतं पलांशं च गुडस्य च तुलां पचेत् ॥ ३९ ॥
शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत् ।
कफपित्तानिलहरं मन्दाग्नीनां च शस्यते ॥ ४० ॥
कृशानां बृंहणं श्रेष्ठं वाजीकरणमुत्तमम् ।
प्रमदासु प्रसक्तानां ये च स्युः क्षीणरेतसः ॥ ४१ ॥
क्षयेण च गृहीतानां परमेतद्भिषग्जितम् ।
कासं श्वासं ज्वरं हिक्कां हन्ति छर्दिमरोचकम् ॥ ४२ ॥
गुडकूष्माण्डकं ख्यातमश्विभ्यां समुदाहृतम् ।
खण्डकूष्माण्डवत्पात्रं स्विन्नकूष्माण्डकद्द्रवः ॥ ४३ ॥
यत्किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु ।
हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते ॥ ४४ ॥
भल्लातकबृहतीफल-
दाडिमफलकल्कसाधितं कुरुते ।
लिङ्गं मर्दनविधिना
कटुतैलं वाजिलिङ्गाभम् ॥ ४५ ॥
कनकरसमसृणवर्तित-
हयगन्धामूलविश्वपर्युषितम् ।
माहिषमिह नवनीतं
गतबीजे कनकफलमध्ये ॥ ४६ ॥
गोमयगाढोद्वर्तितं
पूर्वं पश्चादनेन संलिप्तम् ।
भवति हयलिङ्गसदृशं
लिङ्गं कठिनाङ्गनादयितम् ॥ ४७ ॥