Adhikāra 69

304-b
स्निग्धस्विन्नं कफेसम्यक्संयोगे वा कफोल्बणे ।
श्वोवम्यमुत्क्लिष्टकफं मत्स्यमांसतिलादिभिः ॥ १ ॥
यथाविकारं विहितां मधुसैन्धवसंयुताम् ।
कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम् ॥ २ ॥
“ब्रह्मदत्ताश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः ।
ऋषयः सोषधिग्रामा भूतसङ्घास्तु पान्तु ते ॥ ३ ॥
रसायनमिवर्षीणां देवानाममृतं यथा ।
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते” ॥ ४ ॥
पूर्वाह्णे पायपेत्पीतो जानुतुल्यासने स्थितः ।
तन्मना जातहृल्लासप्रसेकश्छर्दयेत्ततः ॥ ५ ॥
अङ्गुलीभ्यामनायस्तनालेन मृदुनाथवा ।
वषेन्द्रयवसिन्धूत्थवचाकल्कयुतं पिबेत् ॥ ६ ॥
यष्टीकषायं सक्षौद्रं तेन साधु वमत्यलम् ।
तण्डुलसलिलनिष्पिष्टं यः पीत्वा वमति पूर्वाह्णे ॥ ७ ॥
305-a
फलिनीवल्कलमुष्णं हरति गरं पित्तकफजं च ।
क्षौद्रलीढं ताम्ररजो वमनं गरदोषनुत् ॥ ८ ॥
आटरूषं वचा निम्बं पटोलं फलिनीत्वचम् ।
क्वाथयित्वा पिबेत्तोयं वान्तिकृन्मदनान्वितम् ॥ ९ ॥
क्वाथ्यद्रव्यस्य कुडवं स्थापयित्वा जलाढके ।
चतुर्भागावशिष्टं तु वमनेष्ववचारयेत् ॥ १० ॥
निम्बकषायोपेतं फलिनीगदमदनमधुकसिन्धूत्थं ।
मधुयुतमेतद्वमनं कफतः पूर्णाशये सदा शस्तम् ॥ ११ ॥
फलजीमूतकेक्ष्वाकुकुटजाः कृतवेधनः ।
धामार्गवश्च संयोज्याः सर्वथा वमनेष्वमी ॥ १२ ॥
क्रमात्कफः पित्तमथानिलश्च
यस्येति सम्यग्वमितः स इष्टः ।
हृत्पार्श्वमूर्धेन्द्रियमार्गशुद्धौ
तनोर्लघुत्वेऽपि च लक्ष्यमाणे ॥ १३ ॥
दुच्छर्दिते स्फोटककोठकण्डू-
कृत्स्वाविशुद्धिर्गुरुगात्रता च ।
तृण्मोहमूर्च्छानिलकोपनिद्रा-
बलातिहानिर्वमितेऽतिविद्यात् ॥ १४ ॥
ततः सायं प्रभाते वा क्षुद्वान्पेयादिकं भजेत् ॥ १५ ॥
पेयां विलेपीमकृतं कृतं च
यूषं रसं द्विस्त्रिरथैकशश्च ।
क्रमेण सेवेत विशुद्धकायः
प्रधानमध्यावरशुद्धिशुद्धः ॥ १६ ॥
305-b
जघन्यमध्यप्रवरे तु वेगा-
श्चत्वार इष्टा वमने षडष्टौ ।
दशैव ते द्वित्रिगुणा विरेके
प्रस्थस्तथा द्वित्रिचतुर्गुणश्च ॥ १७ ॥
पित्तान्तमिष्टं वमनं विरेका-
दर्धं कफान्तं च विरेकमाहुः ।
द्वित्रान्सविट्कावपनीय वेगान्
मेयं विरेके वमने तु पीतम् ॥ १८ ॥
वमने च विरेके च तथा शोणितमोक्षणे ।
सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः ॥ १९ ॥
अयोगे लङ्घनं कार्यं पुनर्वापि विशोधनम् ।
अतिवान्तं घृताभ्यक्तमवगाह्य हिमे जले ॥ २० ॥
उपाचरेत्सिताक्षौद्रमिश्रैर्लेहैश्चिकित्सकः ।
वमनेऽतिप्रवृत्ते तु हृद्यं कार्यं विरेचनम् ॥ २१ ॥
न वामयेत्तैमिरिकं न गुल्मिनं
न चापि पाण्डूदररोगपीडितम् ।
स्थूलक्षतक्षीणकृशातिवृद्धा-
नर्शोर्दिताक्षेपकपीडितांश्च ॥ २२ ॥
306-a
रुक्षे प्रमेहे तरुणे च गर्भे
गच्छत्यथोर्ध्वं रुधिरे च तीव्रे ।
दष्टे च कोष्ठे क्रिमिभिर्मनुष्यं
न वामयेद्वर्चसि चातिबद्धे ॥ २३ ॥
एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः ।
अत्युल्बणकफा ये च ते च स्युर्मधुकाम्बुना ॥ २४ ॥