Adhikāra 75

316-a
स्निन्धोष्णैः स्नेहिको वाते स्वादुशीतैःप्रसादनः ।
पित्ते कट्वम्ललवणै रूक्षैः संशोधनः कफे ॥ १ ॥
कषायस्वादुतिक्तैश्च कवलो रोपणो व्रणे ।
सुखं सञ्चार्यते या तु सा मात्रा कवले हिता ॥ २ ॥
असञ्चार्या तु या मात्रा गण्डूषे सा प्रकीर्तिता ।
तावच्च धारणीयोऽयं यावद्दोषप्रवर्तनम् ॥ ३ ॥
पुनश्चान्योऽपि दातव्यस्तथा क्षौद्रघृतादिभिः ।
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम् ॥ ४ ॥
इन्द्रियाणां प्रसादश्च कवले शुद्धिलक्षणम् ।
दाहतृष्णाव्रणान् हन्ति मधुगण्डूषधारणम् ॥ ५ ॥
धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम् ।
तदीषल्लवणं शीतं मुखशोषहरं परम् ॥ ६ ॥
आशु क्षाराम्लगण्डूषो भिनत्ति श्लेष्मणश्चयम् ।
सुस्थे हितं वातहरं तैलगण्डूषधारणम् ॥ ७ ॥