Adhikāra 77

318-b
अथ स्निग्धतनुः स्निग्धरसान्नप्रतिभोजितः ।
प्रत्यादित्यमुखं स्विन्नो जानूच्चासनसंस्थितः ॥ १ ॥
मृदुपट्टात्तकोशान्तो जानुस्थापितकूर्परः ।
अङ्गुष्ठगर्भमुष्टिभ्यां मन्ये गाढं निपीडयेत् ॥ २ ॥
दन्तसम्पीडनोत्कासगण्डाध्मानानि चाचरेत् ।
पृष्ठतो यन्त्रयेच्चैनं वस्त्रमावेष्टयेन्नरः ॥ ३ ॥
कन्धरायां परिक्षिप्य नस्यान्तर्वामतर्जनीम् ।
एवमुत्थाप्य विधिना शिरां विध्येच्छिरोगताम् ॥ ४ ॥
विध्येद्धस्तशिरां बाहावनाकुञ्चितकूर्परे ।
बद्ध्वा सुखोपविष्टस्य मुष्टिमङ्गुष्ठगर्भिणम् ॥ ५ ॥
ऊर्ध्वं वेध्यप्रदेशाच्च पट्टिकां चतुरङ्गुले ।
पादे तु सुस्थितेऽधस्ताज्जानुसन्धेर्निपीडिते ॥ ६ ॥
गाढं कराभ्यामागुल्फं चरणे तस्य चोपरि ।
द्वितीये कुञ्चिते किञ्चिदारूढे हस्तवत्ततः ॥ ७ ॥
बद्ध्वा विध्येच्छिरामित्थमनुक्तेष्वपि कल्पयेत् ।
तेषु तेषु प्रदेशेषु तत्तद्यन्त्रमुपायवित् ॥ ८ ॥
ततो व्रीहिमुखं व्यध्यप्रदेशे न्यस्य पीडयेत् ।
अङ्गुष्ठतर्जनीभ्यां तु तलप्रच्छादितं भिषक् ॥ ९ ॥
वामहस्तेन विन्यस्य कुठारीमितरेण तु ।
ताडयेन्मध्यमाङ्गुल्याङ्गुष्ठविष्टब्धमुक्तया ॥ १० ॥
मांसले निक्षिपेद्देशे व्रीह्यास्यं ब्रीहिमात्रकम् ।
यवार्धमस्थ्नामुपरि शिरां विध्यन्कुठारिकाम् ॥ ११ ॥
319-a
असम्यगस्रे स्रवति बैल्वव्योषनिशानतैः ।
सागारधूमलवणतैलैर्दिह्याच्छिरामुखम् ।
सम्यक् प्रवृत्ते कोष्णेन तैलेन लवणेन च ॥ १२ ॥
अशुद्धो बलिनोऽप्यस्रं न प्रस्थात्स्रावयेत्परम् ।
अतिस्रुतौ हि मृत्युः स्याद्दारुणा वानिलामयाः ॥ १३ ॥
तत्राभ्यङ्गरसक्षीररक्तपानानि भेषजम् ।
स्रुते रक्ते शनैर्यन्त्रमपनीय हिमाम्बुना ॥ १४ ॥
प्रक्षाल्य तैलप्रोताक्तं बन्धनीयं शिरामुखम् ।
अशुद्धं स्रावयेद्भूयः सायमह्न्यपरेऽपि वा ॥ १५ ॥
रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत्क्रियाम् ।
लोध्रप्रियङ्गुपत्तुङ्गमाषयष्ट्याह्वगैरिकैः ॥ १६ ॥
मृत्कपालाञ्जनक्षौममसीक्षीरित्वगङ्कुरैः ।
विचूर्णयेद्व्रणमुखं पद्मकादिहिमं पिबेत् ॥ १७ ॥
तामेव वा शिरां विध्येद्व्यधात्तस्मादनन्तरम् ।
शिरामुखं वा त्वरितं दहेत्तप्तशलाकया ॥ १८ ॥
सशेषमप्यसृग्धार्यं न चातिस्रुतिमाचरेत् ।
हरेच्छुङ्गादिना शेषं प्रसादमथवा नयेत् ॥ १९ ॥
319-b
मर्महीने यथासन्नप्रदेशे व्यधयेच्छिराम् ।
नतूनषोडशातीतसप्तत्यब्दस्रुतासृजाम् ॥ २० ॥
अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम् ।
गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम् ॥ २१ ॥
अतिसारोदरच्छर्दिपाण्डुसर्वाङ्गशोषिणाम् ।
स्नेहपीतं प्रयुक्तेषु तथा पञ्चसु कर्मसु ॥ २२ ॥
नायन्त्रितां शिरां विध्येन्न तिर्यङ्नाप्यनुत्थिताम् ।
नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद्गदात् ॥ २३ ॥
नात्युष्णशीतं लघुदीपनीयं
रक्तेऽपनीते हितमन्नपानम् ।
तदा शरीरं ह्यनवस्थितासृक्
वह्निर्विशेषेण च रक्षणीयः ॥ २४ ॥
नरो हिताहारविहारसेवी
मासं भवेदाबललाभतो वा ।
प्रसन्नवर्णेन्द्रियमिन्द्रियार्था-
निच्छन्तमव्याहतशाक्तिवेगम् ।
सुखान्वितं पुष्टिबलोपपन्नं
विशुद्धरक्तं पुरुषं वदन्ति ॥ २५ ॥