51-a
१६आलिप्य जठरं प्राज्ञो हिङ्गुत्र्यूषणसैन्धवैः ।
दिवास्वप्नं प्रकुर्वीत सर्वाजीर्णप्रणाशनम् ॥ ७६ ॥
धान्यनागरसिद्धं तु तोयं दद्याद्विचक्षणः ।
आमाजीर्णप्रशमनं दीपनं बस्तिशोधनम् ॥ ७७ ॥
पथ्यापिप्पलिसंयुक्तं चूर्णं सौवर्चलं पिबेत् ।
मस्तुनोष्णोदकेनाथ बुद्ध्वा दोषगतिं भिषक् ॥ ७८ ॥
चतुर्विधमजीर्णं च मन्दानलमथारुचिम् ।
आध्मानं वातगुल्मं च शूलं चाशु नियच्छति ॥ ७९ ॥
भवेदजीर्णं प्रति यस्य शङ्का
स्निग्धस्य जन्तोर्बलिनोऽन्नकाले ।
पूर्वं सशुण्ठीमभयामशङ्कः
संप्राश्य भुञ्जीत हितं हिताशी ॥ ८० ॥
किञ्चिदामेन मन्दाग्निरभयागुडनागरम् ।
जग्ध्वा तक्रेण भुञ्जीत युक्तेनान्नं षडूषणैः ॥ ८१ ॥
१७विषूचिकायां वमितं विरिक्तं
सुलङ्घितं वा मनुजं विदित्वा ।
पेयादिभिर्दीपनपाचनैश्च
सम्यक्क्षुधार्तं समुपक्रमेत ॥ ८२ ॥