320-a
ब्राह्मे मुहूर्ते उत्तिष्ठेत्सुस्थो रक्षार्थमायुषः ।
शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः ॥ १ ॥
प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम् ।
भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन् ॥ २ ॥
नाद्यादजीर्णवमथुश्वासकासज्वरार्दितः ।
तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत् ।
सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत् ॥ ३ ॥
सप्तरात्रेऽष्टरात्रे वा स्रावणार्थं रसाञ्जनम् ।
ततो नावनगण्डूषधूमताम्बूलभाग्भवेत् ॥ ४ ॥
ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम् ।
विषमूर्च्छामदार्तानामपथ्यं चापि शोषिणाम् ॥ ५ ॥