53-a
पादशेषे जलद्रोणे शृते सर्पिर्विपाचयेत् ।
प्रस्थोन्मितं सिन्धुयुतं तत्पलं क्रिमिनाशनम् ॥ ११ ॥
विडङ्गघृतमेतच्च लेह्यं शर्करया सह ।
सर्वान्क्रिमीन्प्रणुदति वज्रं मुक्तमिवासुरान् ॥ १२ ॥
रसेन्द्रेण समायुक्तो रसो धत्तूरपत्रजः ।
ताम्बूलपत्रजो वापि लेपो यूकविनाशनः ॥ १४ ॥
विडङ्गगन्धकशिला
सिद्धं सुरभीजलेन कटुतैलम् ।
आजन्म नयति नाशं
लिक्षासहितास्तु यूकास्तु ॥ १५ ॥

Adhikāra 8

साध्यं तु पाण्ड्वामयिनं समीक्ष्य
स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम् ।