Adhikāra 9

नोद्रिक्तमादौ संग्राह्यं बलिनोऽप्यश्नतश्च यत् ।
हृत्पाण्डुग्रहणीदोषप्लीहगुल्मज्वरादिकृत् ॥ १ ॥
ऊर्ध्वं प्रवृत्तदोषस्य पूर्वं लोहितपित्तिनः ।
अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम् ॥ २ ॥
ऊर्ध्वगे तर्पणं पूर्वं कर्तव्यं च विरेचनम् ।
प्रागधोगमने पेया वमनं च यथाबलम् ॥ ३ ॥
तर्पणं सघृतक्षौद्रलाजचूर्णैः प्रदापयेत् ।
ऊर्ध्वगं रक्तपित्तं तत्पीतं काले व्यपोहति ॥ ४ ॥
जलं खर्जूरमृद्वीकामधूकैः सपरूषकैः ।
शृतशीतं प्रयोक्तव्यं तर्पणार्थं सशर्करम् ॥ ५ ॥
57-b
त्रिवृता त्रिफला श्यामा पिप्पली शर्करा मधु ।
मोदकः सन्निपातोर्ध्वं रक्तपित्तज्वरापहः ॥ ६ ॥
शालिपर्ण्यादिना सिद्धा पेया पूर्वमधोगमे ।
वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः ॥ ७ ॥
शालिषष्टिकनीवारकोरदूषप्रशातिकाः ।
श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् ॥ ८ ॥
मसूरमुद्गचणकाः समुद्गाश्चाढकीफलाः ।
प्रशस्ताः सूपयूषार्थं कल्पिता रक्तपित्तिनाम् ॥ ९ ॥
शाकं पटोलवेत्राग्रतण्डुलीयादिकं हितम् ।
मांसं लावकपोतादिशशैणहरिणादिजम् ॥ १० ॥
विना शुण्ठीं षडङ्गेन सिद्धं तोयं च दापयेत् ।
क्षीणमांसबलं बालं वृद्धं शोषानुबन्धिनम् ॥ ११ ॥
अवम्यमविरेच्यं च स्तम्भनैः समुपाचरेत् ।
वृषपत्राणि निष्पीड्य रसं समधुशर्करम् ॥ १२ ॥
पिबेत्तेन शमं याति रक्तपित्तं सुदारुणम् ।
आटरूषकनिर्यूहे प्रियङ्गुमृत्तिकाञ्जने ॥
विनीय लोध्रं सक्षौद्रं रक्तपित्तहरं पिबेत् ॥ १३ ॥
वासाकषायोत्पलमृत्प्रियङ्गु-
लोध्राञ्जनाम्भोरुहकेशराणि ।
पीत्वा सिताक्षौद्रयुतानि हन्युः
पित्तासृजो वेगमुदीर्णमाशु ॥ १४ ॥
तालीसचूर्णयुक्तः
पेयः क्षौद्रेण वासकस्वरसः ।
कफवातपित्ततमक-
श्वासस्वरभेदरक्तपित्तहरः ॥ १५ ॥
आटरूषकमृद्वीकापथ्याक्वाथः सशर्करः ।
क्षौद्राढ्यः कसनश्वासरक्तपित्तनिबर्हणः ॥ १६ ॥
वासायां विद्यमानायामाशायां जीवितस्य च ।
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥ १७ ॥
समाक्षिकः फल्गुफलोद्भवो वा
पीतो रसः शोणितमाशु हन्ति ।
मदयन्त्यङ्घ्रिजः क्वाथस्तद्वत्समधुशर्करः ॥ १८ ॥
अतसीकुसुमसमङ्गा
पाठारोहत्वगम्भसा पीता ।
प्रशमयति रक्तपित्तं
यदि भुङ्क्ते मुद्गयूषेण ॥ १९ ॥
58-a
कषाययोगैर्विविधैर्दीप्ताग्नौ निर्जिते कफे ।
रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः ॥ २० ॥
छागं पयोऽथवा गव्यं शृतं पञ्चगुणे जले ।
अभ्यसेत्ससिताक्षौद्रं पञ्चमूलीशृतं पयः ॥ २१ ॥
द्राक्षया पर्णिनीभिर्वा कलया मधुकेन वा ।
श्वदंष्ट्रया शतावर्या रक्तजित्साधितं पयः ॥ २२ ॥
58-b
पक्वोदुम्बरकाश्मर्यपथ्याखर्जूरगोस्तनाः ।
मधुना घ्नन्ति संलीढा रक्तपित्तं पृथक् पृथक् ॥ २३ ॥
मुस्ताशाखोटत्व-
ग्रसबिन्दुद्वितययुग्द्विगुणिताज्यः ।
भूनिम्बकल्क ऊर्ध्वग-
पित्तास्रश्वासकासहानिकरः ॥ २४ ॥
खदिरस्य प्रियङ्गूनां कोविदारस्य शाल्मलेः ॥ २५ ॥
पुष्पचूर्णं तु मधुना लीढ्वा चारोग्यमश्नुते ।
अभया मधुसंयुक्ता पाचनी दीपनी मता ॥ २६ ॥
श्लेष्माणं रक्तपित्तं च हन्ति शूलातिसारनुत् ।
वासकस्वरसे पथ्या सप्तधा परिभाविता ॥ २७ ॥
कृष्णा वा मधुना लीढा रक्तपित्तं द्रुतं जयेत् ।
भावनायां द्रवो देयः सम्यगार्द्रत्वकारकः ॥ २८ ॥
एलापत्रत्वचोऽर्धाक्षाः पिप्पलार्धपलं तथा ।
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः ॥ २९ ॥
59-a
संचूर्ण्य मधुना युक्ता गुडिकाः कारयेद्भिषक् ।
अक्षमात्रां ततश्चैकां भक्षयेन्ना दिने दिने ॥ ३० ॥
कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम् ।
रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम् ॥ ३१ ॥
शोथप्लीहाढ्यवातांश्च स्वरभेदं क्षतक्षयम् ।
गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत् ॥ ३२ ॥
लोहगन्धिनि निःश्वासे उद्गारे रक्तगन्धिनि ।
पृथ्वीकां शाणमात्रां तु खादेद्द्विगुणशर्कराम् ॥ ३३ ॥
नासाप्रवृत्तरुधिरं
घृतभ्रष्टं श्लष्णपिष्टमामलकम् ।
सेतुरिव तोयवेगं
रुणद्धि मूर्ध्नि प्रलेपेन ॥ ३४ ॥
घ्राणप्रवृत्ते जलमेव देयं
सशर्करं नासिकया पयो वा ।
द्राक्षारसं क्षीरघृतं पिबेद्वा
सशर्करं चेक्षुरसं हितं वा ॥ ३५ ॥
नस्यं दाडिमपुष्पोत्थो रसो दूर्वाभवोऽथवा ।
आम्रास्थिजः पलाण्डोर्वा नासिकास्रुतरक्तजित् ॥ ३६ ॥
मेढ्रगेऽतिप्रवृत्ते तु बस्तिरुत्तरसंज्ञितः ।
शृतं क्षीरं पिबेद्वापि पञ्चमूल्या तृणाह्वया ॥ ३७ ॥
59-b
दूर्वा सोत्पलकिञ्जल्का मञ्जिष्ठा सैलवालुका ।
सिता शीतमुशीरं च मुस्तं चन्दनपद्मकौ ॥ ३८ ॥
विपचेत्कार्षिकैरेतैः सर्पिराजं सुखाग्निना ।
तण्डुलाम्बु त्वजाक्षीरं दत्वा चैव चतुर्गुणम् ॥ ३९ ॥
तत्पानं वमतो रक्तं नावनं नासिकागते ।
कर्णाभ्यां यस्य गच्छेत्तु तस्य कर्णौ प्रपूरयेत् ॥ ४० ॥
चक्षुःस्राविणि रक्ते तु पूरयेत्तेन चक्षुषोः ।
मेढ्रपायुप्रवृत्ते तु बस्तिकर्मसु योजयेत् ।
रोमकूपप्रवृत्ते तु तदभ्यङ्गे प्रयोजयेत् ॥ ४१ ॥
शतावरीदाडिमतिन्तिडीकं
काकोलिमेदे मधुकं विदारीम् ।
पिष्ट्वा च मूलं फलपूरकस्य
घृतं पचेत्क्षीरचतुर्गुणं ज्ञः ॥ ४२ ॥
कासज्वरानाहविबन्धशूलं
तद्रक्तपित्तं च घृतं निहन्यात् ॥ ४३ ॥
60-a
शतावर्यास्तु मूलानां रसप्रस्थद्वयं मतम् ।
तत्समं च भवेत्क्षीरं घृतप्रस्थे विपाचयेत् ॥ ४४ ॥
जीवकर्षभकौ मेदा महामेदा तथैव च ।
काकोली क्षीरकाकोली मृद्वीका मधुकं तथा ॥ ४५ ॥
मुद्गपर्णी माषपर्णी विदारी रक्तचन्दनम् ।
शर्करामधुसंयुक्तं सिद्धं विस्रावयेद्भिषक् ॥ ४६ ॥
रक्तपित्तविकारेषु वातरक्तगदेषु च ।
क्षीणशुक्रेषु दातव्यं वाजीकरणमुत्तमम् ॥ ४७ ॥
अंसदाहं शिरोदाहं ज्वरं पित्तसमुद्भवम् ।
योनिशूलं च दाहं च मूत्रकृच्छ्रं च पैत्तिकम् ॥ ४८ ॥
एतान्रोगान्निहन्त्याशु छिन्नाभ्राणीव मारुतः ।
शतावरीसर्पिरिदं बलवर्णाग्निवर्धनम् ॥ ४९ ॥
स्नेहपादः स्मृतः कल्कः कल्कवन्मधुशर्करे ।
इति वाक्यबलात्स्नेहे प्रक्षिष्य पादिकं भवेत् ॥ ५० ॥
वासां सशाखां सपलाशमूलां
कृत्वा कषायं कुसुमानि चास्याः ।
प्रदाय कल्कं विपचेद्धृतं तत्
सक्षौद्रमाश्वेव निहन्ति रक्तम् ॥ ५१ ॥
१०शणस्य कोविदारस्य वृषस्य ककुभस्य च ।
कल्काढ्यत्वात्पुष्पकल्कं प्रस्थे पलचतुष्टयम् ॥ ५२ ॥
60-b
अश्वगन्धा पलशतं तदर्धं गोक्षुरस्य च ।
शतावरी विदारी च शालिपर्णी बला तथा ॥ ५३ ॥
अश्वत्थस्य च शुङ्गानि पद्मबीजं पुनर्नवा ।
काश्मरीपलमेतत्तु माषबीजं तथैव च ॥ ५४ ॥
पृथग्दशपलान्भागांश्चतुर्द्रोणेऽम्भसः पचेत् ।
चतुर्भागावशेषे तु कषायमवतारयेत् ॥ ५५ ॥
मृद्वीका पद्मकं कुष्ठं पिप्पली रक्तचन्दनम् ।
वालकं नागपुष्पं च आत्मगुप्तापलं तथा ॥ ५६ ॥
नीलोत्पलं शारिवे द्वे जीवनीयं विशेषतः ।
पृथक्कर्षसमं चैव शर्करायाः पलद्वयम् ॥ ५७ ॥
रसस्य पौण्ड्रकेक्षूणामाढकं तत्र दापयेत् ।
चतुर्गुणेन पयसा घृतप्रस्थं विपाचयेत् ॥ ५८ ॥
रक्तपित्तं क्षतक्षीणं कामलां वातशोणितम् ।
हलीमकं तथा शोथं वर्णभेदं स्वरक्षयम् ॥ ५९ ॥
अरोचकं मूत्रकृच्छ्रं पार्श्वशूलं च नाशयेत् ।
एतद्राज्ञां प्रयोक्तव्यं बह्वन्तःपुरचारिणाम् ॥ ६० ॥
स्त्रीणां चैवानपत्यानां दुर्बलानां च देहिनाम् ।
क्लीबानामल्पशुक्राणां जीर्णानामल्परेतसाम् ॥ ६१ ॥
श्रेष्ठं बलकरं हृद्यं वृष्यं पेयं रसायनम् ।
ओजस्तेजःकरं चैव आयुःप्राणविवर्धनम् ॥ ६२ ॥
संवर्धयति शुक्रं च पुरुषं दुर्बलेन्द्रियम् ।
सर्वरोगविनिर्मुक्तस्तोयसिक्तो यथा द्रुमः ॥ ६३ ॥
कामदेव इति ख्यातः सर्वरोगेषु शस्यते ।
61-a
११शतावरीपयोद्राक्षाविदारीक्ष्वामलै रसैः ॥ ६४ ॥
सर्पिषा सह संयुक्तैः सप्तप्रस्थं पचेद्धृतम् ।
शर्करापादसंयुक्तं रक्तपित्तहरं पिबेत् ॥ ६५ ॥
उरःक्षते पित्तशूले योनिवातेऽप्यसृग्दरे ।
बल्यमूर्जस्करं वृष्यं क्षुधाहृद्रोगनाशनम् ॥ ६६ ॥
१२कूष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम् ।
पचेत्तप्ते घृतप्रस्थे शनैस्ताम्रमये दृढे ॥ ६७ ॥
यदा मधुनिभः पाकस्तदा खण्डशतं न्यसेत् ।
पिप्पलीशृङ्गवेराभ्यां द्वे पले जीरकस्य च ॥ ६८ ॥
त्वगेलापत्रमरिचधान्यकानां पलार्धकम् ।
न्यसेच्चूर्णीकृतं तत्र दर्व्या संघट्टयेन्मुहुः ॥ ६९ ॥
तत्पक्वं स्थापयेद्भाण्डे दत्वा क्षौद्रं घृतार्धकम् ।
तद्यथाग्निबलं खादेद्रक्तपित्ती क्षतक्षयी ॥ ७० ॥
कासश्वासतमच्छर्दितृष्णाज्वरनिपीडितः ।
वृष्यं पुनर्नवकरं बलवर्णप्रसाधनम् ॥ ७१ ॥
उरःसन्धानकरणं बृंहणं स्वरबोधनम् ।
अश्विभ्यां निर्मितं सिद्धं कूष्माण्डकरसायनम् ॥ ७२ ॥
खण्डामलकमानानुसारात्कूष्माण्डकद्रवात् ।
पात्रं पाकाय दातव्यं यावान्वातरसो भवेत् ॥ ७३ ॥
अत्रापि मुद्रया पाको निस्त्वचं निष्कुलीकृतम् ।
61-b
१३पञ्चाशच्च पलं स्विन्नं कूष्माण्डात्प्रस्थमाज्यतः ॥ ७४ ॥
ग्राह्यं पलशतं खण्डं वासाक्वाथाढके पचेत् ।
मुस्ता धात्री शुभा भार्गी त्रिसुगन्धैश्च कार्षिकैः ॥ ७५ ॥
ऐलेयविश्वधन्याकमरिचैश्च पलांशिकैः ।
पिप्पलीकुडवं चैव मधुमानीं?प्रदापयेत् ॥ ७६ ॥
कासं श्वासं क्षयं हिक्कां रक्तपित्तं हलीमकम् ।
हृद्रोगमम्लपित्तं च पीनसं च व्यपोहति ॥ ७७ ॥
१४तुलामादाय वासायाः पचेदष्टगुणे जले ।
तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ ७८ ॥
चूर्णानामभयानां च खण्डाच्छुद्धं तथा शतम् ।
द्वे पले पिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् ॥ ७९ ॥
62-a
कुडवं पलमात्रं तु चातुर्जातं सुचूर्णितम् ।
क्षिप्त्वा विलोडितं खादेद्रक्तपित्ती क्षतक्षयी ।
कासश्वासपरीतश्च यक्ष्मणा च प्रपीडितः ॥ ८० ॥
१५शतावरीच्छिन्नरुहावृषमुण्डतिकाबलाः ।
तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ॥ ८१ ॥
भार्गी पुष्करमूलं च पृथक् पञ्च पलानि च ।
जलद्रोणे विपक्तव्यमष्टमांशावशेषितम् ॥ ८२ ॥
दिव्यौषधहतस्यापि माक्षिकेण हतस्य वा ।
पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम् ॥ ८३ ॥
खण्डतुल्यं घृतं देयं पलषोडशिकं बुधैः ।
पचेत्ताम्रमये पात्रे गुडपाको यथामतम् ॥ ८४ ॥
प्रस्थार्धं मधुनो देयं शुभाश्मजतुकं त्वचम् ।
शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजीपलं पलम् ॥ ८५ ॥
त्रिफला धान्यकं पत्रं द्व्यक्षं मरिचकेशरम् ।
चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ॥ ८६ ॥
यथाकालं प्रयुञ्जीत बिडालपदकं ततः ।
गव्यक्षीरानुपानं च सेव्यं मांसरसं पयः ॥ ८७ ॥
गुरुवृष्यानुपानानि स्निग्धं मांसादि बृंहणम् ।
रक्तपित्तं क्षयं कासं पक्तिशूलं विशेषतः ॥ ८८ ॥
वातरक्तं प्रमेहं च शीतपित्तं वमिं क्लमम् ।
श्वयथुं पाण्डुरोगं च कुष्ठं प्लीहोदरं तथा ॥ ८९ ॥
आनाहं रक्तसंस्रावं चाम्लपित्तं निहन्ति च ।
चाक्षुषं बृंहणं वृष्यं माङ्गल्यं प्रीतिवर्धनम् ॥ ९० ॥
आरोग्यं पुत्रदं श्रेष्ठं कामाग्निबलवर्धनम् ।
श्रीकरं लाघवकरं खण्डकाद्यं प्रकीर्तितम् ॥ ९१ ॥
62-b
१६छागं पारावतं मांसं तित्तिरिः क्रकराः शशाः
कुरङ्गाः कृष्णसाराश्च तेषां मांसानि योजयेत् ॥ ९२ ॥
नारिकेलपयःपानं सुनिषण्णकवास्तुकम् ।
शुष्कमूलकजीराख्यं पटोलं बृहतीफलम् ॥ ९३ ॥
फलं वार्ताकुपक्वाम्रं खर्जूरं स्वादु दाडिमम् ।
ककारपूर्वकं यच्च मांसं चानूपसम्भवम् ॥ ९४ ॥
वर्जनीयं विशेषेण खण्डकाद्यं प्रकुर्वता ।
लोहान्तरवदत्रापि पुटनादिक्रियेष्यते ॥ ९५ ॥
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम् ।
रक्तपित्ते हितं तच्च क्षीणक्षतहितं च यत् ॥ ९६ ॥