Adhikāra 10

63-a
शालिषष्टिकगोधूमयवमुद्गादयः शुभाः ।
मद्यानि जाङ्गलाः पक्षिमृगाः शस्ता विशुष्यतां ॥ १ ॥
शुष्यतां क्षीणमांसानां कल्पितानि विधानवित् ।
दद्यात्क्रव्यादमांसानि बृंहणानि विशेषतः ॥ २ ॥
दोषाधिकानां वमनं शस्यते सविरेचनम् ।
स्नेहस्वेदोपपन्नानां स्नेहनं यन्न कर्षणम् ॥ ३ ॥
शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम् ।
शुक्रायत्तं बलं पुंसां मलायत्तं हि जीवितम् ॥ ४ ॥
तस्माद्यत्नेन संरक्षेद्यक्ष्मिणो मलरेतसी ।
सपिप्पलीकं सयवं सकुलत्थं सनागरम् ॥ ५ ॥
दाडिमामलकोपेतं सिद्धमाजरसं पिबेत् ।
तेन षड्विनिवर्तन्ते विकाराः पीनसादयः ॥ ६ ॥
रसे द्रव्याम्बुपेयावत्सूदशास्त्रवशादिह ।
पलानि द्वादशप्रस्थे घनेऽथ तनुके तु षट् ॥ ७ ॥
मांसस्य वटकं कुर्यात्पलमच्छतरे रसे ।
धन्याकपिप्पलीविश्वदशमूलीजलं पिबेत् ॥ ८ ॥
पार्श्वशूलज्वरश्वासपीनसादिनिवृत्तये ।
अश्वगन्धामृताभीरुदशमूलीबलावृषाः ॥ ९ ॥
पुष्करातिविषे घ्नन्ति क्षयं क्षीररसाशिनः ।
63-b
दशमूलबलारास्ना-
पुष्करसुरदारुनागरैः क्वथितम् ॥ १० ॥
पेयं पार्श्वांसशिरो-
रुक्क्षयकासादिशान्तये सलिलम् ।
ककुभत्वक्नागबला-
वानरिबीजानि चूर्णितं पयसि ॥ ११ ॥
पक्वं घृतमधुयुक्तं
ससितं यक्ष्मादिकासहरम् ।
पारावतकपिच्छागकुरङ्गाणां पृथक् पृथक् ॥ १२ ॥
मांसचूर्णमजाक्षीरं पीतं यक्ष्महरं परम् ।
घृतकुसुमसारलीढं
क्षयं क्षयं नयति गजबलामूलम् ॥ १३ ॥
दुग्धेन केवलेन तु
वायसजङ्घां निपीत्वैव ।
कृष्णाद्राक्षासितालेहः क्षयहा क्षौद्रतैलवान् ॥ १४ ॥
मधुसर्पिर्युतो वाश्वगन्धाकृष्णासितोद्भवः ।
शर्करामधुसंयुक्तं नवनीतं लिहन्क्षयी ॥ १५ ॥
क्षीराशी लभते पुष्टिमतुल्ये चाज्यमाक्षिके ।
64-a
सितोपलातुगाक्षीरीपिप्पलीबहुलात्वचः ॥ १६ ॥
अन्त्यादूर्धं द्विगुणितं लेहयेत्क्षौद्रसर्पिषा ।
चूर्णितं प्राशयेदेतच्छ्वासकासक्षयापहम् ॥ १७ ॥
सुप्तजिह्वारोचकिनमल्पाग्निं पार्श्वशूलिनम् ।
हस्तपादांसदाहेषु ज्वरे रक्ते तथोर्ध्वगे ॥ १८ ॥
लवङ्गकक्कोलमुशीरचन्दनं
नतं सनीलोत्पलजीरकं समम् ।
त्रुटिः सकृष्णागुरुभृङ्गकेशरं
कणा सविश्वा नलदं सहाम्बुदम् ॥ १९ ॥
अहीन्द्रजातीफलवंशलोचना-
सिताष्टभागं समसूक्ष्मचूर्णितम् ।
सुरोचनं तर्पणमग्निदीपनं
बलप्रदं वृष्यतमं त्रिदोषनुत् ॥ २० ॥
उरोविबन्धं तमकं गलग्रहं
सकासहिक्कारुचियक्ष्मपीनसम् ।
ग्रहण्यतीसारभगन्दरार्बुदं
प्रमेहगुल्मांश्च निहन्ति सज्वरान् ॥ २१ ॥
64-b
तालीसपत्रं मरिचं नागरं पिप्पली शुभा ।
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके ॥ २२ ॥
पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा ।
श्वासकासारुचिहरं तच्चूर्णं दीपनं परम् ॥ २३ ॥
हृत्पाण्डुग्रहणीरोगप्लीहशोषज्वरापहम् ।
छर्द्यतीसारशूलघ्नं मूढवातानुलोमनम् ॥ २४ ॥
कल्पयेद्गुटिकां चैतच्चूर्णं पक्त्वा सितोपालम् ।
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः ।
पैत्तिके ग्राहयन्त्येके शुभया वंशलोचनाम् ॥ २५ ॥
शृङ्ग्यर्जुनाश्वगन्धा-
नागबलापुष्कराभयाच्छिन्नरुहाः ।
तालीसादिसमेता
लेह्या मधुसर्पिर्भ्यां यक्ष्महराः ॥ २६ ॥
65-a
मधुताप्यविडङ्गाश्मजतुलोहघृताभयाः ।
घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिना ॥ २७ ॥
व्योषं शतावरी त्रीणि फलानि द्वे बले तथा ।
सर्वामयहरो योगः सोऽयं लोहरजोन्वितः ॥ २८ ॥
एष वक्षःक्षतं हन्ति कण्ठजांश्च गदांस्तथा ।
राजयक्ष्माणमत्युग्रं बाहुस्तम्भमथार्दितम् ॥ २९ ॥
कर्षः शुद्धरसेन्द्रस्य स्वरसेन जयार्द्रयोः ।
शिलायां खल्वयेत्तावद्यावत्पिण्डं घनं ततः ॥ ३० ॥
जलकर्णाकाकमाचीरसाभ्यां भावयेत्पुनः ।
सौगन्धिकपलं भृङ्गस्वरसेन विभावितम् ॥ ३१ ॥
चूर्णितं रससंयुक्तमजाक्षीरपलद्वये ।
खल्वितं घनपिण्डं तु गुटीं स्विन्नकलायवत् ॥ ३२ ॥
कृत्वादौ शिवमभ्यर्च्य द्विजातीन्परितोष्य च ।
जीर्णान्नो भक्षयेदेकां क्षीरमांसरसाशनः ॥ ३३ ॥
सर्वरूपं क्षयं कासं रक्तपित्तमरोचकम् ।
अपि वैद्यशतैस्त्यक्तमम्लपित्तं नियच्छति ॥ ३४ ॥
65-b
एलाजमोदामलकाभयाक्ष-
गायत्रिनिम्बाशनशालसारान् ।
विडङ्गभल्लातकचित्रकांश्च
कटुत्रिकाम्भोदसुराष्ट्रिकाश्च ॥ ३५ ॥
पक्त्वा जले तेन पचेत्तु सर्पि-
स्तस्मिन्सुसिद्धे त्ववतारिते च ।
त्रिंशत्पलान्यत्र सितोपलाया
दद्यात्तुगाक्षीरिपलानि षट् च ॥ ३६ ॥
प्रस्थे घृतस्य द्विगुणं च दद्यात्
क्षौद्रं ततो मन्थहतं निदद्यात् ।
पलं पलं प्रातरतो लिहेच्च
पश्चात्पिबेत्क्षीरमतन्त्रितश्च ॥ ३७ ॥
एतद्धि मेध्यं परमं पवित्रं
चक्षुष्यमायुष्यतमं तथैव ।
यक्ष्माणमाशु व्यपहन्ति शूलं
पाण्ड्वामयं चापि भगन्दरं च ॥ ३८ ॥
न चात्र किञ्चित्परिवर्जनीयं
रसायनं चैतदुपास्यमानम् ।
66-a
बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा ॥ ३९ ॥
पञ्चानां क्षीरवृक्षणां शुङ्गा मुष्ट्यंशिकाः पृथक् ।
एषां कषाये द्विक्षीरे विदार्याजरसांशिके ॥ ४० ॥
जीवनीयैः पचेत्कल्कैरक्षमात्रैर्घृताढकम् ।
सितापलानि पूते च शीते द्वात्रिंशदावपेत् ॥ ४१ ॥
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च ।
समाक्षिकं कौडविकं तत्सर्वं खजमूर्च्छितम् ॥ ४२ ॥
स्त्यानं सर्पिर्गुडान्कृत्वा भूर्जपत्रेण वेष्टयेत् ।
ताञ्जग्ध्वा पलिकान्क्षीरं मद्यं चानुपिबेत्कफे ॥ ४३ ॥
शोषे कासे क्षतक्षीणे श्रमस्त्रीभारकर्षिते ।
रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते ॥ ४४ ॥
शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः ।
क्वाथ्ये त्रयोदशपले द्रव्याल्पत्वभयाज्जलम् ॥ ४५ ॥
अष्टगुणं क्वाथसमौ विदार्याजरसौ पृथक् ।
केचिद्यथोक्तक्वाथ्ये तु क्वाथं घृतसमं जगुः ॥ ४६ ॥
66-b
१०बिल्वाग्निमन्थस्योनाककाश्मर्यः पाटली बला
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ॥ ४७ ॥
शृङ्गीतामलकीद्राक्षाजीवन्तीपुष्करागुरु ।
अभया सामृता ऋद्धिर्जीवकर्षभकौ शठी ॥ ४८ ॥
मुस्तं पुनर्नवा मेदा सूक्ष्मैलोत्पलचन्दने ।
विदारी वृषमूलानि काकोली काकनासिका ॥ ४९ ॥
एषां पलोन्मितान्भागाञ्शतान्यामलकस्य च ।
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ॥ ५० ॥
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् ।
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ॥ ५१ ॥
पलद्वादशके भृष्ट्वा दत्वा चार्धतुलां भिषक् ।
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ॥ ५२ ॥
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् ।
चतुष्पलं तुगाक्षीर्याः पिप्पल्या द्विपले तथा ॥ ५३ ॥
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात् ।
इत्ययं च्यवनप्राशः परमुक्तो रसायनः ॥ ५४ ॥
कासश्वासहरश्चैव विशेषेणोपदिश्यते ।
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनम् ॥ ५५ ॥
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् ।
पिपासां मूत्रशुक्रस्थान्दोषांश्चैवापकर्षति ॥ ५६ ॥
अस्य मात्रां प्रयुञ्जीत योऽपरुन्ध्यान्न भोजनम् ।
अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत्पुनर्युवा ॥ ५७ ॥
मेधां स्मृतिं कान्तिमनामयत्वं
वपुःप्रकर्षं वलमिन्द्रियाणाम् ।
स्त्रीषु प्रहर्षं परमग्निवृद्धिं
वर्णप्रसादं पवनानुलोम्यम् ॥ ५८ ॥
रसायनस्यास्य नरः प्रयोगा-
ल्लभेत जीर्णोऽपि कुटीप्रवेशात् ।
जराकृतं पूर्वमपास्य रूपं
बिभर्ति रूपं नवयौवनानाम् ॥ ५९ ॥
सितामत्स्यण्डिकालाभे धात्र्याश्च मृदुभर्जनम् ।
चतुर्भागजले प्रायो द्रव्यं गतरसं भवेत् ॥ ६० ॥
67-a
११जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च ।
शठीं पुष्करमूलं च व्याघ्रीं गोक्षुरकं बलाम् ॥ ६१ ॥
नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् ।
पिप्पलीं च समं पिष्ट्वा घृतं वैद्यो विपाचयेत् ॥ ६२ ॥
एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम् ।
रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति ॥ ६३ ॥
67-b
१२पिप्पलीगुडसंसिद्धं छागक्षीरयुतं घृतम् ।
एतदग्निविवृद्ध्यर्थं सर्पिश्च क्षयकासिनाम् ॥ ६४ ॥
१३यष्टीबलागुडूच्यल्पपञ्चमूलीतुलां पचेत् ।
शूर्पेऽपामष्टभागस्थे तत्र पात्रं पचेद्धृतम् ॥ ६५ ॥
धात्रीविदारीस्वरसे त्रिपात्रे पयसोर्मणे ।
सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम् ॥ ६६ ॥
ससैन्यं राजयक्ष्माणमुन्मूलयति शीलितम् ।
१४छागमांसतुलां गृह्य साधयेल्लवणेऽम्भसि ॥ ६७ ॥
पादशेषेण तेनैव घृतप्रस्थं विपाचयेत् ।
ऋद्धिवृद्धी च मेदे द्वे जीवकर्षभकौ तथा ॥ ६८ ॥
काकोलीक्षीरकाकोलीकल्कैः पृथक्पलोन्मितैः ।
सम्यक् सिद्धे त्ववतार्य शीते तस्मिन्प्रदापयेत् ॥ ६९ ॥
शर्करायाः पलान्यष्टौ मधुनः कुडवं क्षिपेत् ।
पलं पलं पिबेत्प्रातर्यक्ष्माणं हन्ति दुर्जयम् ॥ ७० ॥
क्षतक्षयं च कासं च पार्श्वशूलमरोचकम् ।
स्वरक्षयमुरोरोगं श्वासं हन्यात्सुदारुणम् ॥ ७१ ॥
68-a
१५तोयद्रोणद्वितये
मांसं छागस्य पलशतं पक्त्वा ।
जलमष्टांशं सुकृतं
तस्मिन्विपचेद्धृतं प्रस्थम् ॥ ७२ ॥
कल्केन जीवनीयानां
कुडवेन तु मांससर्पिरिदम् ।
पित्तानिलं निहन्या-
त्तज्जानपि रसकयोजितं पीतम् ॥ ७३ ॥
कासश्वासावुग्रौ
यक्ष्माणं पार्श्वहृद्रुजं घोराम् ।
अध्वव्यपायशोषं
शमयति चैवापरं किञ्चित् ॥ ७४ ॥
१६छागशकृद्रसमूत्र-
क्षीरैर्दध्ना च साधितं सर्पिः ।
सक्षारं यक्ष्महरं
कासश्वासोपशान्तये परमम् ॥ ७५ ॥
68-b
१७द्विपञ्चमूलस्य पचेत्कषाये
प्रस्थद्वये मांसरसस्य चैके ।
कल्कं बलायाः सुनियोज्य गर्भं
सिद्धं पयःप्रस्थयुतं घृतं च ॥
सर्वाभिघातोत्थितयक्ष्मशूल-
क्षतक्षयोत्कासहरं प्रदिष्टम् ॥ ७६ ॥
१८पादशेषे जलद्रोणे पचेन्नागबलातुलाम् ।
तेजक्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत् ॥ ७७ ॥
पलार्धिकैश्चातिबलाबलायष्टिपुनर्नवा ।
प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः ॥ ७८ ॥
अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः ।
मृणालविषशालूकशृङ्गाटककशेरुकैः ॥ ७९ ॥
एतन्नागबलासर्पी रक्तपित्तक्षतक्षयम् ।
हन्ति दाहं भ्रमं तृष्णां बलपुष्टिकरं परम् ॥ ८० ॥
बल्यमौजस्यमायुष्यं वलीपलितनाशनम् ।
उपयुञ्जीत षण्मासान्वृद्धोऽपि तरुणायते ॥ ८१ ॥
69-a
१९समूलफलपत्राया निर्गुण्ड्याः स्वरसैर्घृतम् ।
सिद्धं पीत्वा क्षयक्षीणो निर्व्याधिर्भाति देववत् ॥ ८२ ॥
२०बलाश्वदंष्ट्राबृहतीकलसीधावनीस्थिराम् ।
निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम् ॥ ८३ ॥
कृत्वा कषायं पेष्यार्थं दद्यात्तामलकीं शठीम् ।
द्राक्षां पुष्करमूलं च मेदामामलकानि च ॥ ८४ ॥
घृतं पयश्च तत्सिद्धं सर्पिर्ज्वरहरं परम् ।
क्षयकासप्रशमनं शिरःपार्श्वरुजापहम् ॥ ८५ ॥
चरकोदितवासाद्यघृतानन्तरमुक्तितः ।
वदन्तीह घृतात्क्वाथं पयश्च द्विगुणं पृथक् ॥ ८६ ॥
२१चन्दनाम्बु नखं वाप्यं यष्ठीशैलेयपद्मकम् ।
मञ्जिष्ठासरलं दारुशट्येलापूतिकेशरम् ॥ ८७ ॥
पत्रं तैलं मुरामांसी कक्कोलं वनिताम्बुदम् ।
हरिद्रे शारिवे तिक्ता लवङ्गागुरुकुङ्कुमम् ॥ ८८ ॥
त्वग्रेणुनलिकाचैभिस्तैलं मस्तु चतुर्गुणम् ।
लाक्षारससमं सिद्धं ग्रहघ्नं बलवर्णकृत् ॥ ८९ ॥
अपस्मारज्वरोन्मादकृत्यालक्ष्मीविनाशनम् ।
आयुःपुष्टिकरं चैव वशीकरणमुत्तमम् ॥ ९० ॥
69-b
२२छागं मांसं पयश्छागं छागं सर्पिःसशर्करम् ।
छागोपसेवा शयनं छागमध्ये तु यक्ष्मनुत् ॥ ९१ ॥
उरोमत्वाक्षतं लाक्षां पयसा मधुसंयुताम् ।
सद्य एव पिबेज्जीर्णे पयसाद्यात्सशर्करम् ॥ ९२ ॥
इक्ष्वालिकाबिसग्रन्थिपद्मकेशरचन्दनैः ।
शृतं पयो मधुयुतं सन्धानार्थं पिबेत्क्षती ॥ ९३ ॥
बलाश्वगन्धाश्रीपर्णीबहुपुत्रीपुनर्नवाः ।
पयसा नित्यमभ्यस्ताः क्षपयन्ति क्षतक्षयम् ॥ ९४ ॥
घृतं बलानागबलार्जुनाम्बु-
सिद्धं सयष्टीमधुकल्कपादम् ।
हृद्रोगशूलक्षतरक्तपित्त-
कासाऽनिलासृक् शमयत्युदीर्णम् ॥ ९५ ॥