Adhikāra 11

70-a
वास्तूको वायसीशाकं मूलकं सुनिषण्णम् ।
स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः ॥ १ ॥
दध्यारनालाम्लफलं प्रसन्नापानमेव च ।
शस्यते वातकासेषु स्वाद्वम्ललवणानि च ॥ २ ॥
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान् ।
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान् ॥ ३ ॥
पञ्चमूलीकृतः क्वाथः पिप्पलीचूर्णसंयुतः ।
रसान्नमश्नतो नित्यं वातकासमुदस्यति ॥ ४ ॥
शृङ्गीशठीकणाभार्गीगुडवारिदयासकैः ।
सतैलैर्वातकासघ्नो लेहोऽयमपराजितः ॥ ५ ॥
चूर्णिताविश्वदुस्पर्शशृङ्गीद्राक्षाशठीसिताः ।
लीढ्वा तैलेन वातोत्थं कासं जयति दारुणम् ॥ ६ ॥
भार्गीद्राक्षाशठीशृङ्गीपिप्पलीविश्वभेषजैः ।
गुडतैलयुतो लेहो हितो मारुतकासिनाम् ॥ ७ ॥
पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम् ।
दद्याद्धनकफे तिक्तैर्विरेकार्थं युतां भिषक् ॥ ८ ॥
मधुरैर्जाङ्गलरसैः श्यामाकयवकोद्रवाः ।
मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः ॥ ९ ॥
70-b
बलाद्विबृहतीवासाद्राक्षाभिः क्वथितं जलम् ।
पित्तकासापहं पेयं शर्करामधुयोजितम् ॥ १० ॥
शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा ।
कषायेण शृतं क्षीरं पिबेत्समधुशर्करम् ॥ ११ ॥
काकोलीबृहतीमेदायुग्मैः सवृषनागरैः ।
पित्तकासे रसक्षीरयूषांश्चाप्युपकल्पयेत् ॥ १२ ॥
द्राक्षामलकखर्जूरं पिप्पलीमरिचान्वितम् ।
पित्तकासापहं ह्येतल्लिह्यान्माक्षिकसर्पिषा ॥ १३ ॥
खर्जूरपिप्पलीद्राक्षासितालाजाः समांशिकाः ।
मधुसर्पिर्युतो लेहः पित्तकासहरः परः ॥ १४ ॥
शठीह्रीबेरबृहतीशर्कराविश्वभेषजम् ।
पिष्ट्वा रसं पिबेत्पूतं सघृतं पित्तकासनुत् ॥ १५ ॥
मधुना पद्मबीजानां चूर्णं पैत्तिककासनुत् ।
बलिनं वमनेनादौ शीलितं कफकासिनम् ।
यवान्नैः कटुरुक्षोष्णैः कफघ्नैश्चाप्युपाचरेत् ॥ १६ ॥
पिप्पलीक्षारकैर्यूषैः कौलत्थैर्मूलकस्य च ।
लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितैः ॥ १७ ॥
71-a
पौष्करं कट्फलं भार्गीविश्वपिप्पलिसाधितम्
पिबेत्क्वाथं कफोद्रेके कासे श्वासे च हृद्ग्रहे ॥ १८ ॥
स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम् ।
पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम् ॥ १९ ॥
मुद्गामलाभ्यां यवदाडिमाभ्यां
कर्कन्धुना मूलकशुण्ठकेन ।
शुण्ठीकणाभ्यां च कुलत्थकेन
यूषो नवाङ्गः कफरोगहन्ता ॥ २० ॥
पार्श्वशूले ज्वरे श्वासे कासे श्लेष्मसमुद्भवे ।
पिप्पलीचूर्णसंयुक्तं दशमूलीजलं पिबेत् ॥ २१ ॥
कट्कलं कत्तृणं भार्गी मुस्तं धान्यं वचाभया ।
शृङ्गी पार्पटकं शुण्ठी सुराह्वा च जले शृतम् ॥ २२ ॥
मधु हिङ्गुयुतं पेयं कासे वातकफात्मके ।
कण्ठरोगे क्षये शूले श्वासहिक्काज्वरेषु च ॥ २३ ॥
71-b
कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहा ।
बिभीतकं घृताभ्यक्तं गोशकृत्परिवेष्टितम् ॥ २४ ॥
स्विन्नमग्नौ हरेत्कासं ध्रुवमास्यविधारितम् ।
वासकस्वरसः पेयो मधुयुक्तो हिताशिना ॥ २५ ॥
पित्तश्लेष्मकृते कासे रक्तपित्ते विशेषतः ।
पिप्पली मधुकं द्राक्षा लाक्षा शृङ्गी शतावरी ॥ २६ ॥
द्विगुणा च तुगाक्षीरी सिता सर्वैश्चतुर्गुणा ।
तं लिह्यान्मधुसर्पिर्भ्यां क्षतकासनिवृत्तये ॥ २७ ॥
पिप्पली पद्मकं लाक्षा संपक्वं बृहतीफलम् ।
घृतक्षौद्रयुतो लेहः कासश्वाजनिबर्हणः ॥ २८ ॥
हरीतकीनागरमुस्तचूर्णं
गुडेन तुल्यं गुटिका विधेया ।
निवारयत्यास्यविधारितेयं
श्वासं प्रवृद्धं प्रबलं च कासम् ॥ २९ ॥
कर्षः कर्षार्धमथोपलं पलद्वयमथार्धकर्षश्च ।
समरिचस्य पिप्पलीनां दाडिमगुडयावशूकाम् ॥ ३० ॥
सर्वौषधैरसाध्या ये कासाः सर्ववैद्यविवर्जिताः ।
अपि पूयं छर्दयतां तेपामिदमौषधं पथ्यम् ॥ ३१ ॥
72-a
लवङ्गजातीफलपिप्पलीनां
भागान्प्रकल्प्याक्षयुतानमीषाम् ।
पलार्धमेकं मरिचस्य दद्यात्
पलानि चत्वारि महौषधस्य ॥ ३२ ॥
सितासमं चूर्णमिदं प्रसह्य
रोगानिमानाशु बलान्निहन्यात् ।
कासज्वरारोचकमेहगुल्म-
श्वासाग्निमान्द्यग्रहणीप्रदोषान् ॥ ३३ ॥
हरीतकी कणा शुण्ठी मरिचं गुडसंयुतम् ।
कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ ३४ ॥
तालीसवह्निदीप्यक-
चविकाशुंठ्यम्लवेतसव्योषैः ।
तुल्यैस्त्रिसुगध्नियुतै-
र्गुडेन गुटिका प्रकर्तव्या ॥ ३५ ॥
कासश्वासारोचक-
पीनसहृत्कण्ठवाङ्निरोधेषु ।
ग्रहणीगुदोद्भवेषु
गुटिका व्योषान्तिका नाम ॥ ३६ ॥
त्रिसुगध्नमत्र संस्कारत्वाच्चतुर्माषिकं ग्राह्यम् ।
मनःशिलालमधुकमांसीमुस्तेङ्गुदैः पिबेत् ॥ ३७ ॥
धूमं त्र्यहं च तस्यानु सगुडं च पयः पिबेत् ।
एष कासान्पृथग्द्वन्द्वसर्वदोषसमुद्भवान् ॥ ३८ ॥
शतैरपि प्रयोगाणां साधयेदप्रसाधितान् ।
मनःशिलालिप्तदलं बदर्या घर्मशोषितम् ॥ ३९ ॥
सक्षीरं धूमपानात्तु महाकासनिबर्हणम् ।
अर्कच्छल्लशिले तुल्ये ततोऽर्धेन कटुत्रिकम् ॥ ४० ॥
72-b
चूर्णितं वह्निनिक्षिप्तं पिबेद्ध्रूमं तु योगवित् ।
भक्षयेदथ ताम्बूलं पिबेद्दुग्धमथाम्बु वा ।
कासाःपञ्चविधा यान्ति शान्तिमाशु न संशयः ॥ ४१ ॥
१०मरिचशिलार्कक्षीरै-
र्वार्ताकीं त्वचमाशु भावितां शुष्काम् ।
कृत्वा विधिना धूमं
पिबतः कासाः शमं यान्ति ॥ ४२ ॥
दशमूलीकषायेण भार्गीकल्कं पचेद्धृतम् ।
दक्षतित्तिरिनिर्यूहे तत्परं वातकासनुत् ॥ ४३ ॥
73-a
११दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत् ।
पुष्कराह्वशठीबिल्वसुरसव्योषहिङ्गुभिः ॥ ४४ ॥
पेयानुपानं तद्देयं कासे वातकफाधिके ।
श्वासरोगेषु सर्वेषु कफवातात्मकेषु च ॥ ४५ ॥
१२दशमूलीचतुःप्रस्थे रसे प्रस्थोन्मितं हविः ।
सक्षारैः पञ्चकोलैस्तु कल्कितं साधु साधितम् ॥ ४६ ॥
कासहृत्पार्श्वशूलघ्नं हिक्काश्वासनिबर्हणम् ।
कल्कं षट्पलमेवात्र ग्राहयन्ति भिषग्वराः ॥ ४७ ॥
१३कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे ।
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः ॥ ४८ ॥
घृतं रास्नाबलाव्योषश्वदंष्ट्राकल्कपाचितम् ।
कण्टकारीरसे सर्पिः पञ्चकासनिषूदनम् ॥ ४९ ॥
१४सपत्रमूलशाखायाः कण्टकार्या रसाढके ।
घृतप्रस्थं बलाव्योषविडङ्गशठीचित्रकैः ॥ ५० ॥
सौवर्चलयवक्षारबिल्वामलकपुष्करैः ।
वृश्चीरबृहतीपथ्यायमानीदाडिमर्द्धिभिः ॥ ५१ ॥
73-b
द्राक्षापुनर्नवाचव्यधन्वयासाम्लवेतसैः ।
शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत् ॥ ५२ ॥
कल्कैस्तु सर्वकासेषु हिक्काश्वासे च शस्यते ।
कण्टकारीघृतं सिद्धं कफव्याधिविनाशनम् ॥ ५३ ॥
१५द्रोणेऽपां साधयेद्रास्नां दशमूलीं शतावरीम् ।
पलिकां मानिकांशांस्त्रीन्कुलत्थान्बदरान्यवान् ॥ ५४ ॥
तुलार्धं चाजमांसस्य तदशेषेण तेन च ।
घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः ॥ ५५ ॥
सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः ।
समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत् ॥ ५६ ॥
पञ्चकासान्क्षयं श्वासं पार्श्वशूलमरोचकम् ।
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलं जयेत् ॥ ५७ ॥
जीवकर्षभकौ मेदे काकोल्यौ शूर्पपर्णिके ।
जीवन्ती मधुकश्चैव दशको जीवको गणः ॥ ५८ ॥
74-a
१६दशमूलीं स्वयंगुप्तां शङ्खपुष्पीं शठीं वलाम् ।
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥ ५९ ॥
भार्गीपुष्करमूलं च द्विपलांशं यवाढकम् ।
हरीतकीशतं चैकं जलपञ्चाढके पचेत् ॥ ६० ॥
यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम् ।
पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ॥ ६१ ॥
तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् ।
लिह्याद्द्वे चाभये नित्यमतः खादेद्रसायनात् ॥ ६२ ॥
तद्वलीपलितं हन्याद्बलायुर्मलवर्धनम् ।
पञ्चकासान्क्षयं श्वासं हिक्काः सविषमज्वरान् ॥ ६३ ॥
हन्यात्तथा ग्रहण्यर्शोहृद्रोगारुचिपीनसान् ।
अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम् ॥ ६४ ॥
१७समूलपुष्पच्छदकण्टकार्या-
स्तुलां जलद्रोणपरिप्लुतां च ।
हरीतकीनां च शतं निदध्या-
दथात्र पक्त्वा चरणावशेपम् ॥ ६५ ॥
गुडस्य दत्त्वा शतमेतदग्नौ
विपक्वमुत्तीर्य ततः सुशीते ।
कटुत्रिकं च द्विपलप्रमाणं
पलानि षट् पुष्परसस्य तत्र ॥ ६६ ॥
क्षिपेच्चतुर्जातपलं यथाग्नि
प्रयुज्यमानो विधिनावलेहः ।
74-b
वातात्मकं पित्तकफोद्भवं च
द्विदोषकासानपि यांस्त्रिदोषान् ॥ ६७ ॥
क्षयोद्भवं च क्षतजं च हन्यात्
सपीनसश्वासमुरःक्षतं च ।
यक्ष्माणमेकादशरूपमुग्रं
भृगूपदिष्टं हि रसायनं स्यात् ॥ ६८ ॥