78-a
शुष्कद्रव्यमुपादाय स्वरसानामसम्भवे ।
वारिण्यष्टगुणे साध्यं ग्राह्यं पादावशेषितम् ॥ १३ ॥
भृङ्गराजामृतावल्ली?
वासकदशमूलकासमर्दरसैः ।
सर्पिः सपिप्पलीकं
सिद्धं स्वरभेदकासजिन्मधुना ॥ १४ ॥

Adhikāra 14

वान्तिं समीरणे पित्ते विरेकं वमनं कफे ।
कुर्याद्धृद्यानुकूलानि हर्षणं च मनोघ्नजे ॥ १ ॥
वान्तो वचाद्भिरनिले विधिवत्पिवेत्तु
स्नेहोष्णतोयमदिरान्यतमेन चूर्णम् ।
कृष्णाविडङ्गयवभस्महरेणुभार्गी-
रास्नैलहिङ्गुलवणोत्तमनागराणाम् ॥ २ ॥
पैत्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं
लेहः ससैन्धवसितामधुसर्पिरिष्टः ।
निम्बाम्बु छर्दितवतः कफजे तु पानं
राजद्रुमाम्बु मधुना सह दीप्यकाढ्यम् ॥ ३ ॥
चूर्णं यदुक्तमथवानिलजे तदेव
सर्वैश्च सर्वकृतमेवमुपक्रमेच्च ॥ ४ ॥