Adhikāra 16

तृष्णायां पवनोत्थायां सगुडं दधि शस्यते ।
रसाश्च बृंहणाः शीता गुडूच्या रस एव च ॥ १ ॥
82-a
पञ्चाङ्गकाः पञ्चगणा य उक्ता-
स्तेष्वम्बु सिद्धं प्रथमे गणे वा ।
पिबेत्सुखोष्णं मनुजोऽल्पमात्रं
तृष्णोपरोधं न कदापि कुर्यात् ॥ २ ॥
पित्तोत्थितं पित्तहरैर्विपक्वं
निहन्ति तोयं पय एव चापि ॥ ३ ॥
काश्मर्यशर्करायुक्तं चन्दनोशीरपद्मकम् ।
द्राक्षामधुकसंयुक्तं पित्ततर्षे जलं पिबेत् ॥ ४ ॥
पित्तजायां तु तृष्णायां पक्वोदुम्बरजो रसः ।
तत्क्वाथो वा हिमस्तद्वच्छारिवादिगणाम्बु वा ॥ ५ ॥
स्याज्जीवनीयसिद्धं
क्षीरघृतं वातपित्तजे तर्षे ।
तद्वद्द्राक्षाचन्दन-
खर्जूरोशीरमधुयुतं तोयम् ॥ ६ ॥
सशारिवादौ तृणपञ्चमूले
तथोत्पलादौ मधुरे गणे वा ।
कुर्यात्कषायांस्तु तथैव युक्ता-
न्मधूकपुष्पादिषु चापरेषु ॥ ७ ॥
बिल्वाटकीधातकिपञ्चकोल-
दर्भेषु सिद्धं कफजां निहन्ति ।
हितं भवेच्छर्दनमेव चात्र
तप्तेन निम्बप्रसवोदकेन ॥ ८ ॥
सजीरकाण्यार्द्रकशृङ्गवेर-
सौवर्चलान्यर्धजलाप्लुतानि ।
मद्यानि हृद्यानि च गन्धवन्ति
पीतानि सद्यः शमयन्ति तृष्णाम् ॥ ९ ॥
82-b
क्षतोत्थितां रुग्विनिवारणेन
जयेद्रसानामसृजश्च पानैः ।
क्षयोत्थितां क्षीरजलं निहन्या-
न्मांसोदकं वाथ मधूदकं वा ॥ १० ॥
गुर्वन्नजामुल्लिखनैर्जयेत्तु
क्षयादृते सर्वकृतां च तृष्णाम् ॥ ११ ॥
लाजोदकं मधुयुतं शीतं गुडविमर्दितम् ।
काश्मर्यशर्करायुक्तं पिबेत्तृष्णार्दितो नरः ॥ १२ ॥
अतिरुक्षदुर्बलानां
तर्षं शमयेन्नृणामिहाशु पयः ।
छागो वा घृतभृष्टः
शीतो मधुरो रसो हृद्यः ॥ १३ ॥
आम्रजम्बूकषायं वा पिबेन्माक्षिकसंयुतम् ।
छर्दिं सर्वां प्रणुदति तृष्णां चैवापकर्षति ॥ १४ ॥
वटशुङ्गसितालोध्रदाडिमं मधुकं मधु ।
पिबेत्तण्डुलतोयेन छर्दितृष्णानिवारणम् ॥ १५ ॥
गोस्तनेक्षुरसक्षीरयष्टीमधुमधूत्पलैः ।
नियतं नस्यतः पानैस्तृष्णा शाम्यति दारुणा ॥ १६ ॥
83-a
क्षीरेक्षुरसमाध्वीकैः क्षौद्रशीधुगुडोदकैः ॥ १७ ॥
वृक्षाम्लाम्लैश्च गण्डूषस्तालुशोषनिवारणः ।
तालुशोषे पिबेत्सर्पिर्घृतमण्डमथापि वा ॥ १८ ॥
मूर्च्छाच्छर्दितृषादाहस्त्रीमद्यभृशकर्षिताः ।
पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये ॥ १९ ॥
धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम् ।
तदेवालवणं पीतं मुखशोपहरं परम् ॥ २० ॥
वैशद्यं जनयत्यास्ये संदधाति मुखे व्रणान् ।
दाहतृष्णाप्रशमनं मधुगण्डूषधारणम् ॥ २१ ॥
कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः ।
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति ॥ २२ ॥
वारि शीतमधुयुतमाकण्ठाद्वा पिपासितम् ।
पाययेद्वामयेच्चापि तेन तृष्णा प्रशाम्यति ॥ २३ ॥
वटशुङ्गामयक्षौद्रलाजनीलोत्पलैर्दृढा ।
गुटिका वदनन्यस्ता क्षिप्रं तृष्णां नियच्छति ॥ २४ ॥
83-b
ओदनं रक्तशालीनां शीतं माक्षिकसंयुतम् ।
भोजयेत्तेन शाम्येत्तु छर्दिस्तृष्णाचिरोत्थिता ॥ २५ ॥
पूर्वामयातुरः सन्दीनस्तृष्णार्दितो जलं याचन् ।
न लभेत चेदाश्वेव मरणमाप्नोति दीर्घरोगं वा ॥ २६ ॥
तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति ।
तस्मात्सर्वास्ववस्थासु न क्वचिद्वारि वार्यते ॥ २७ ॥