82-b
क्षतोत्थितां रुग्विनिवारणेन
जयेद्रसानामसृजश्च पानैः ।
क्षयोत्थितां क्षीरजलं निहन्या-
न्मांसोदकं वाथ मधूदकं वा ॥ १० ॥
गुर्वन्नजामुल्लिखनैर्जयेत्तु
क्षयादृते सर्वकृतां च तृष्णाम् ॥ ११ ॥
लाजोदकं मधुयुतं शीतं गुडविमर्दितम् ।
काश्मर्यशर्करायुक्तं पिबेत्तृष्णार्दितो नरः ॥ १२ ॥
अतिरुक्षदुर्बलानां
तर्षं शमयेन्नृणामिहाशु पयः ।
छागो वा घृतभृष्टः
शीतो मधुरो रसो हृद्यः ॥ १३ ॥
आम्रजम्बूकषायं वा पिबेन्माक्षिकसंयुतम् ।
छर्दिं सर्वां प्रणुदति तृष्णां चैवापकर्षति ॥ १४ ॥
वटशुङ्गसितालोध्रदाडिमं मधुकं मधु ।
पिबेत्तण्डुलतोयेन छर्दितृष्णानिवारणम् ॥ १५ ॥
गोस्तनेक्षुरसक्षीरयष्टीमधुमधूत्पलैः ।
नियतं नस्यतः पानैस्तृष्णा शाम्यति दारुणा ॥ १६ ॥