82-a
पञ्चाङ्गकाः पञ्चगणा य उक्ता-
स्तेष्वम्बु सिद्धं प्रथमे गणे वा ।
पिबेत्सुखोष्णं मनुजोऽल्पमात्रं
तृष्णोपरोधं न कदापि कुर्यात् ॥ २ ॥
पित्तोत्थितं पित्तहरैर्विपक्वं
निहन्ति तोयं पय एव चापि ॥ ३ ॥
काश्मर्यशर्करायुक्तं चन्दनोशीरपद्मकम् ।
द्राक्षामधुकसंयुक्तं पित्ततर्षे जलं पिबेत् ॥ ४ ॥
पित्तजायां तु तृष्णायां पक्वोदुम्बरजो रसः ।
तत्क्वाथो वा हिमस्तद्वच्छारिवादिगणाम्बु वा ॥ ५ ॥
स्याज्जीवनीयसिद्धं
क्षीरघृतं वातपित्तजे तर्षे ।
तद्वद्द्राक्षाचन्दन-
खर्जूरोशीरमधुयुतं तोयम् ॥ ६ ॥
सशारिवादौ तृणपञ्चमूले
तथोत्पलादौ मधुरे गणे वा ।
कुर्यात्कषायांस्तु तथैव युक्ता-
न्मधूकपुष्पादिषु चापरेषु ॥ ७ ॥
बिल्वाटकीधातकिपञ्चकोल-
दर्भेषु सिद्धं कफजां निहन्ति ।
हितं भवेच्छर्दनमेव चात्र
तप्तेन निम्बप्रसवोदकेन ॥ ८ ॥
सजीरकाण्यार्द्रकशृङ्गवेर-
सौवर्चलान्यर्धजलाप्लुतानि ।
मद्यानि हृद्यानि च गन्धवन्ति
पीतानि सद्यः शमयन्ति तृष्णाम् ॥ ९ ॥