Adhikāra 22

92-b
स्वाद्वम्ललवणैः स्निग्धैराहारैर्वातरोगिणः ।
अभ्यङ्गस्नेहबस्त्याद्यैः सर्वानेवोपपादयेत् ॥ १ ॥
विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नरः ।
आमाशयस्थे शुद्धस्य यथा दोषहरी क्रिया ॥ २ ॥
आमाशयगते वाते छर्दिताय यथाक्रमम् ।
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ॥ ३ ॥
चित्रकेन्द्रयवाः पाठाकटुकातिविषाभयाः ।
महाव्याधिप्रशमनो योगः षड्धरणः स्मृतः ॥ ४ ॥
पलदशमांशो धरणं
योगोऽयं सौश्रुतस्ततस्तस्य ।
माषेण पञ्चगुञ्जक-
मानेन प्रत्यहं सुयुग्देयः ॥ ५ ॥
पक्वाशयगते वाते हितं स्नेहविरेचनम् ।
बस्तयः शोधनीयाश्च प्रशाश्च लवणोत्तराः ॥ ६ ॥
स्नुहीलवणवार्ताकुस्नेहांश्छन्ने घटे दहेत् ।
गोमयैः स्नेहलवणं तत्परं वातनाशनम् ॥ ७ ॥
कार्यो बस्तिगते चापि विधिर्बस्तिविशोधनः ।
त्वङ्मांसासृक्शिराप्राप्ते कुर्याच्चासृग्विमोक्षणम् ॥ ८ ॥
स्नेहोपानाहाग्निकर्मबन्धनोन्मर्दनानि च ।
स्नायुसन्ध्यस्थिसंप्राप्ते कुर्याद्वाते विचक्षणः ॥ ९ ॥
स्वेदाभ्यङ्गावगाहांश्च हृद्यं चान्नं त्वगाश्रिते ।
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ॥ १० ॥
93-a
विरेको मांसमेदःस्थे निरूहाः शमनानि च ।
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत् ॥ ११ ॥
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् ।
विबद्धमार्गं शुक्रं तु दृष्ट्वा दद्याद्विरेचनम् ॥ १२ ॥
गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम् ।
सितामधुककाश्मर्यैर्हितमुत्थापने पयः ॥ १३ ॥
शिरोगतेऽनिले वातशिरोरोगहरी क्रिया ।
व्यादितास्ये हनुं स्विन्नामङ्गुष्ठाभ्यां प्रपीड्य च ॥ १४ ॥
प्रदेशिनीभ्यां चोन्नम्य चिबुकोन्नामनं हितम् ।
अर्दिते नवनीतेन खादेन्माषेण्डरीं नरः ॥ १५ ॥
क्षीरमांसरसैर्भुक्त्वा दशमूलीरसं पिबेत् ।
स्नेहाभ्यङ्गशिरोबस्तिपाननस्यपरायणः ॥ १६ ॥
अर्दितं स जयेत्सर्पिः पिबेदौत्तरभक्तिकम् ।
पञ्चमूलीकृतः क्वाथो दशमूलीकृतोऽथवा ॥ १७ ॥
रुक्षस्वेदस्तथा नस्यं मन्यास्तम्भे प्रशस्यते ।
बाताद्वाग्धमनीदुष्टौ स्नेहगण्डूषधारणम् ॥ १८ ॥
93-b
सहरिद्रावचाकुष्ठं पिप्पलीविश्वभेषजम् ।
अजाजी चाजमोदा च यष्टीमधुकसैन्धवम् ॥ १९ ॥
एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत् ।
तच्चूर्णं सर्पिषालोड्य प्रत्यहं भक्षयेन्नरः ॥ २० ॥
एकविंशतिरात्रेण भवेच्छ्रुतिधरो नरः ।
मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिःस्वनः ॥ २१ ॥
जडगद्गदमूकत्वं लेहः कल्याणको जयेत् ।
रुक्षस्त्रिकस्कन्दगतं वायुं मन्यागतं तथा ॥ २२ ॥
वमनं हन्ति नस्यं च कुशलेन प्रयोजितः ।
माषबलाशुकशिम्बी
कत्तृणरास्नश्वगन्धोरुबूकाणाम् ।
क्वाथो नस्यनिपीतो
रामठलवणान्वितः कोष्णः ॥ २३ ॥
94-a
अपहरति पक्षवातं
मन्यास्तम्भं सकर्णनादरुजम् ।
दुर्जयमर्दितवातं
सप्ताहाज्जयति चावश्यम् ॥ २४ ॥
दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम् ।
सायं भुक्त्वा पिबेन्नक्तं विश्वाच्यामपबाहुके ॥ २५ ॥
मूलं बलायास्त्वथ पारिभद्रा-
त्तथात्मगुप्तास्वरसं पिबेद्वा ।
नस्यं तु यो मांसरसेन दद्या-
न्मासादसौ वज्रसमानबाहुः ॥ २६ ॥
माषात्मगुप्तकैरण्डवाट्यालकशृतं पिबेत् ।
हिङ्गुसैन्धवसंयुक्तं पक्षाघातनिवारणम् ॥ २७ ॥
बाहुशोषे पिबेत्सर्पिर्भुक्त्वा कल्याणकं महत् ।
हृदि प्रकुपिते वाते चांशुमत्याः पयो हितम् ॥ २८ ॥
हरीतकी वचा रास्ना सैन्धवं चाम्लवेतसम् ।
घृतमात्रासमायुक्तमपतन्त्रकनाशनम् ॥ २९ ॥
पलमर्धं पलं चैव रसोनस्य सुकुट्टितम् ।
हिङ्गुजीरकसिन्धूत्थैः सौवर्चलकटुत्रयैः ॥ ३० ॥
94-b
चूर्णितैर्माषकोन्मानैरवचूर्ण्य विलोडितम् ।
यथाग्नि भक्षितं प्रात रुबूक्वाथानुपानतः ॥ ३१ ॥
दिने दिने प्रयोक्तव्यं माषमेकं निरन्तरम् ।
वातरोगं निहन्त्याशु अर्दितं सापतन्त्रकम् ॥ ३२ ॥
एकाङ्गरोगिणे चैव तथा सर्वाङ्गरोगिणे ।
ऊरुस्तम्भे च गृध्रस्यां क्रिमिकोष्ठे विशेषतः ॥ ३३ ॥
कटीपृष्ठामयं हन्यादुदरं च विशेषतः ।
हन्ति प्राग्भोजनात्पीतं दध्यम्लं सवचोषणम् ॥ ३४ ॥
अपतानकमन्योऽपि वातव्याधिक्रमो हितः ।
वातघ्नैर्दशमूल्या च नरं कुब्जमुपाचरेत् ॥ ३५ ॥
स्नेहैर्मांसरसैर्वापि प्रवृद्धं तं विवर्जयेत् ।
पिप्पल्यादिरजस्तूनीप्रतितून्योः सुखाम्बुना ॥ ३६ ॥
पिबेद्वा स्नेहलवणं सघृतं क्षारहिङ्गु वा ।
आध्माने लङ्घनं पाणितापश्च फलवर्तयः ॥ ३७ ॥
दीपनं पाचनं चैव बस्तिं चाप्यत्र शोधनः ।
प्रत्याध्माने तु वमनं लङ्घनं दीपनं तथा ॥ ३८ ॥
प्रत्यष्ठीलाष्ठीलिकयोरन्तर्विद्रधिगुल्मवत् ।
95-a
दशमूलीबलारास्नागुडूचीविश्वभेषजम् ॥ ३९ ॥
पिबेदेरण्डतैलेन गृध्रसीखञ्जपङ्गुषु ।
शेफालिकादलैः क्वाथो मृद्वग्निपरिसाधितः ॥ ४० ॥
दुर्वारं गृध्रसीरोगं पीतमात्रं समुद्धरेत् ।
पञ्चमूलकषायं तु रुबूतैलं त्रिवृद्धृतम् ।
त्रिवृतैवाथवा युक्तं गृध्रसीगुल्मशूलनुत् ॥ ४१ ॥
तैलं घृतं वार्द्रकमातुलुङ्ग्यो
रसं सचुक्रं सगुडं पिबेद्वा ।
कट्यूरुपृष्ठत्रिकगुल्मशूल-
गृध्रस्युदावर्तहरः प्रदिष्टः ॥ ४२ ॥
तैलमेरण्डजं वापि गोमूत्रेण पिबेन्नरः ।
मासमेकं प्रयोगोऽयं गृध्रस्यूरुग्रहापहः ॥ ४३ ॥
गोमूत्रैरण्डतैलाभ्यां कृष्णा पीता सुचूर्णिता ।
दीर्घकालोत्थितां हन्ति गृध्रसीं कफवातजाम् ॥ ४४ ॥
अश्नाति यो नरः सिद्धामेरण्डतैलसाधिताम् ।
वार्ताकं गृध्रसीखिन्नः पूर्वामाप्नोत्यसौ गतिम् ॥ ४५ ॥
पिष्ट्वैरण्डफलं क्षीरे सविश्वं वा फलं रुबोः ।
पायसो भक्षितः सिद्धो गृध्रसीकटिशूलनुत् ॥ ४६ ॥
95-b
१०रास्नायास्तु बलं चैकं कर्षान्पञ्च च गुग्गुलोः
सर्पिषा वटिकां कृत्वा खादेद्वा गृध्रसीहराम् ॥ ४७ ॥
गृध्रस्यार्तं नरं सम्यक्पाचनाद्यैर्विशोधितम् ।
ज्ञात्वा नरं प्रदीप्ताग्निं बस्तिभिः समुपाचरेत् ॥ ४८ ॥
नादौ बस्तिविधिं कुर्याद्यावदूर्ध्वं न शुध्यति ।
स्नेहो निरर्थकस्तस्य भस्मन्येव हुतिर्यथा ॥ ४९ ॥
गृध्रस्यार्तस्य जङ्घायाः स्नेहस्वेदे कृते भृशम् ।
पद्भ्यां निर्मर्दितायाश्च सूक्ष्ममार्गेण गृध्रसीम् ॥ ५० ॥
११अवतार्याङ्गुलौ सम्यक्कनिष्ठायां शनैः शनैः ।
ज्ञात्वा समुन्नतं ग्रन्थिं कण्डरायां व्यवस्थितम् ॥ ५१ ॥
तं शस्त्रेण विदार्याशु प्रबालाङ्कुरसन्निभम् ।
समुद्धृत्याग्निना दग्ध्वा लिम्पेद्यष्ट्याह्वचन्दनैः ॥ ५२ ॥
विध्येच्छिरामिन्द्रबस्तेरधस्ताच्चतुरङ्गुलेः ।
यदि नोपशमं गच्छेद्दहेत्पादकनिष्ठिकाम् ॥ ५३ ॥
१२तगरस्य शिफामार्द्रां पिष्ट्वा तक्रेण यः पिबेत् ।
वङ्क्षणानिलरोगार्तः स क्षणादेव मुच्यते ।
96-a
दशमूलीकषायेण पिबेद्वा नागराम्भसा ॥ ५४ ॥
कटिशूलेषु सर्वेषु तैलमेरण्डसम्भवम् ।
विश्वाच्यां खञ्जपङ्ग्वोश्च दाहे हर्षे च पादयोः ॥ ५५ ॥
क्रोष्टुशीर्षविकारे च विकारे वातकण्टके ।
शिरां यथोक्तां निर्विध्य चिकित्सा वातरोगनुत् ॥ ५६ ॥
१३गुग्गुलुं क्रोष्टुशीर्षं तु गुडूचीत्रिफलाम्भसा ।
क्षीरेणैरण्डतैलं वा पिबेद्वा वृद्धदारकम् ॥ ५७ ॥
रक्तावसेचनं कुर्यादभीक्ष्णं वातकण्टके ।
पिबेदेरण्डतैलं वा दहेच्छुचिभिरेव वा ॥ ५८ ॥
खल्ल्यां स्निग्धाम्ललवणैः स्वेदमर्दोपनाहनम् ।
पृथक्पलांशा त्रिफला पिप्पली चेति चूर्णितम् ॥ ५९ ॥
दशमूलाम्बुना भाव्यं त्वगेलार्धपलान्वितम् ।
दत्त्वा पलानि पञ्चैव गुग्गुलोर्वटकीकृतः ॥ ६० ॥
एष मांसरसाभ्यासाद्वातरोगान्विशेषतः ।
हन्ति सन्ध्यस्थिमज्जस्थान्वृक्षमिन्द्राशनिर्यथा ॥ ६१ ॥
भाव्यद्रव्यसमं क्वाथ्यं क्वाथोऽष्टांशस्तु तेन च ।
आर्द्रं यावद्दिनं भाव्यं सप्ताहं भावनाविधिः ॥ ६२ ॥
96-b
१४आहाश्वगन्धाहपुषागुडूची
शतावरीगोक्षुरवृद्धदारकम् ।
रास्नाशताह्वासशठीयमानी
सनागराश्चेति समैश्च चूर्णम् ॥ ६३ ॥
तुल्यं भवेत्कौशिकमत्र मध्ये
देयं तथा सर्पिरतोऽर्धभागम् ।
अर्धाक्षमात्रं त्वथ तत्प्रयोगात्
कृत्वानुपानं सुरयाथ यूषैः ॥ ६४ ॥
मद्येन वा कोष्णजलेन वाथ
क्षीरेण वा मांसरसेन वापि ।
कटिग्रहे गृध्रसिबाहुपृष्टे
हनुग्रहे जानुनि पादयुग्मे ॥ ६५ ॥
सन्धिस्थिते चास्थिगते च वाते
मज्जागते स्नायुगते च कुष्ठे ।
रोगाञ्जयेद्वातकफानुविद्धान्
वातेरितान्हृद्ग्रहयोनिदोषान् ॥ ६६ ॥
भग्नास्थिविद्धेषु च खञ्जवाते
त्रयोदशाङ्गं प्रवदन्ति तज्ज्ञाः ॥ ६७ ॥
१५जित्वा वरकमग्रे तु वाते वातहरं हितम् ।
अन्नावृते तदुल्लेखो दीपनं पाचनं लघु ॥ ६८ ॥
97-a
सुप्तिवाते त्वसृङ्मोक्षं कारयेद्बहुशो भिषक् ।
दिह्याच्च लवणागारधूमैस्तैलविमर्दितैः ॥ ६९ ॥
सर्पिस्तैलवसामज्जपानाभ्यञ्जनबस्तयः ।
स्वेदाः स्निग्धा निवातं च स्थानं प्रावरणानि च ॥ ७० ॥
रसाः पयांसि भोज्यानि स्वाद्वम्ललवणानि च ।
बृंहणं यत्तु तत्सर्वं प्रशस्तं वातरोगिणाम् ॥ ७१ ॥
पटोलपालकैर्यूषो वृष्यो वातहरो लघुः ।
वाट्यालककृतो यूषः परं वातविनाशनः ॥ ७२ ॥
बलायाः पञ्चमूलस्य दशमूलस्य वा रसे ।
अजाशीर्षाम्बुजानूपक्रव्यादपि शितैः पृथक् ॥ ७३ ॥
साधयित्वा रसान्स्निग्धान्दध्याम्लव्योषसंस्कृतान्
भोजयेद्वातरोगार्तं तैर्व्यक्तलवणैर्नरम् ॥ ७४ ॥
पञ्चमूलीबलासिद्धं क्षीरं वातामये हितम् ।
बाजिगन्धाबलास्तिस्रो दशमूलीमहौषधम् ।
द्वे गृध्रनख्यौ रास्ना च गणो मारुतनाशनः ॥ ७५ ॥
१६कोलं कुलत्थं सुरदारुरास्ना-
माषा उमातैलफलानि कुष्ठम् ।
97-b
वचा शताह्वे यवचूर्णमम्ल-
मुष्णानि वातामयिनां प्रदेहः ॥ ७६ ॥
आनूपवेशवारोष्णप्रदेहो वातनाशनः ।
१७निरस्थिपिशितं पिष्टं स्विन्नं गुडघृतान्वितम् ॥ ७७ ॥
कृष्णामरिचसंयुक्तं वेशवार इति स्मृतः ।
काकोल्यादिः सवातघ्नः सर्वाम्लद्रव्यसंयुतः ॥ ७८ ॥
सानूपमांसः सुस्विन्नः सर्वस्नेहसमन्वितः ।
सुखोष्णः स्पष्टलवणः साल्वनः परिकीर्तितः ॥ ७९ ॥
तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम् ।
वातघ्नो भद्रदार्वादिः काकोल्यादिस्तु सौश्रुतः ॥ ८० ॥
मांसेनात्रौषधं तुल्यं यावताम्लेन चाम्लता ।
पट्टीस्यात्स्वेदनार्थं च काञ्जिकाद्यम्लमिष्यते ॥ ८१ ॥
चतुःस्नेहोऽत्र तावान्स्यात्सुस्विन्नत्वं यतो भवेत् ।
समस्तं वर्गमर्धं वा यथालाभमथापि वा ॥ ८२ ॥
प्रयुञ्जीतेति वचनं सर्वत्र गणकर्मणि ।
१८अश्वगन्धाकषाये च कल्के क्षीरचतुर्गुणम् ॥ ८३ ॥
घृतं पक्वं तु वातघ्नं वृष्यं मांसविवर्धनम् ।
98-a
१९दशमूलस्य निर्यूहे जीवनीयैः पलोन्मितैः ॥ ८४ ॥
क्षीरेण च घृतं पक्वं तर्पणं पवनार्तिनुत् ।
क्वाथोऽत्र त्रिगुणः सर्पिःप्रस्थः साध्यः पयःसमः ॥ ८५ ॥
२०आजं चर्मविनिर्मुक्तं त्यक्तशृङ्गखुरादिकम् ।
पञ्चमूलीद्वयं चैव जलद्रोणे विपाचयेत् ॥ ८६ ॥
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ।
जीवनीयैः सकट्याह्वैः क्षीरं चैव शतावरीम् ॥ ८७ ॥
छागलाद्यमिदं नाम्ना सर्ववातविकारनुत् ।
अर्दिते कर्णशूले च बाधिर्ये मूकमिन्मिने ॥ ८८ ॥
जडगद्गदपङ्गूनां खञ्जे गृध्रसिकुब्जयोः ।
अपतानेऽपतन्त्रे च सर्पिरेतत्प्रशस्यते ॥ ८९ ॥
द्रोणे द्रव्यतुलाश्रुत्या स्याच्छागदशमूलयोः ।
पृथक् तुलार्धं यष्ट्याह्वद्वयं देयं द्विधोक्तितः ॥ ९० ॥
98-b
२१एलामुराशरलशैलजदारुकौन्ती
चण्डाशटीनलदचम्पकहेमपुष्पम् ।
स्थौणेयगन्धरसपूतिदलामृणाल-
श्रीवासकुन्दुरुनखाम्बुवराङ्गकुष्ठम् ॥ ९१ ॥
कालीयकं जलदकर्कटचन्दनश्री-
र्जात्याः फलं सविकसं सहकुङ्कुमं च ।
मृक्कातुरुष्कलघुलांभतया विनीय
तैलं बलाक्वथनदुग्धयुतं च दघ्ना
सार्धं पचेत्तु हितमेतदुदाहरन्ति
वातामयेषु बलवर्णवपुःप्रकारि ॥ ९२ ॥
२२बलानिःक्वाथकल्काभ्यां तैलं पक्वं पयोऽन्वितम् ।
सर्ववातविकारघ्नमेवं शैरीयपाचितम् ॥ ९३ ॥
२३बलामूलकषायस्य दशमूलीकृतस्य च ।
यवकोलकुलत्थस्य क्वाथस्य पयसा तथा ॥ ९४ ॥
अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः ।
पचेदावाप्य मधुरं गणं सैन्धवसंयुतम् ॥ ९५ ॥
तथागुरुसर्जरसं सरलं देवदारु च ।
मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुशारिवाम् ॥ ९६ ॥
मांसीशैलेयकं पत्रं तगरं शारिवां वचाम् ।
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् ॥ ९७ ॥
99-a
तत्साधुसिद्धं सौवर्णे राजते मृण्मयेऽपि वा ।
प्रक्षिप्य कलशे सम्यग्सुनिगुप्तं निधापयेत् ॥ ९८ ॥
बलातैलमिदं नाम्ना सर्ववातविकारनुत् ।
यथाबलमयोमात्रां सूतिकायै प्रदापयेत् ॥ ९९ ॥
या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान्
क्षीणवाते मर्महतेऽभिहते मथितेऽथ वा ।
भग्नेश्रमाभिपन्ने च सर्वथैवोपयोजयेत् ॥ १०० ॥
सर्वानाक्षेपकादींश्च वातव्याधीन्व्यपोहति ।
हिक्काकासमधीमन्थं गुल्मश्वासं सुदुस्तरम् ॥ १०१ ॥
षण्माषानुपयुज्यैतदन्त्रवृद्धिमपोहति ।
प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः ॥ १०२ ॥
एतद्धि राज्ञा कर्तव्यं राजमात्राश्च ये नराः ।
सुखिनः सुकुमाराश्च बलिनश्चापि ये नराः ॥ १०३ ॥
२४बिल्वाग्निमन्थस्योनाकपाटलापारिभद्रकः ।
प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥ १०४ ॥
99-b
बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा ।
एषां दशपलान्भागांश्चतुर्द्रोणेऽम्भसः पचेत् ॥ १०५ ॥
पादशेषं परिस्राव्य तैलपात्रं प्रदापयेत् ।
शतपुष्पा देवदारु मांसी शैलेयकं वचा ॥ १०६ ॥
चन्दनं तगरं कुष्ठमेलापर्णीचतुष्टयम् ।
रास्ना तुरगगन्धा च सैन्धवं सपुनर्नवम् ॥ १०७ ॥
एषां द्विपलिकान्भागान्पेषयित्वा विनिक्षिपेत् ।
शतावरीरसं चैव तैलतुल्यं प्रदापयेत् ॥ १०८ ॥
आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् ।
पाने बस्तौ तथाभ्यङ्गे भोज्ये चैव प्रशस्यते ॥ १०९ ॥
अश्वो वा वातसंभग्नौ गजो वा यदि वा नरः ।
पङ्गुलः पीठसर्पी च तैलेनानेन सिध्यति ॥ ११० ॥
अधोभागे च ये वाताः शिरोमध्यगताश्च ये ।
दन्तशूले हनुस्तम्भे मन्यास्तम्भे गलग्रहे ॥ १११ ॥
यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला ।
क्षीणेन्द्रिया नष्टशुक्रा ज्वरक्षीणाश्च ये नराः ॥ ११२ ॥
बधिरा लल्लजिह्वाश्च मन्दमेधस एव च ।
अल्पप्रजा च या नारी या च गर्भं न विन्दति ॥ ११३ ॥
वातार्तौ वृषणौ येषामन्त्रवृद्धिश्च दारुणा ।
एतत्तैलवरं तेषां नाम्ना नारायणं स्मृतम् ।
तगरं नतमत्र स्यादभावे शीयलिछोपडः ॥ ११४ ॥
100-a
२५शतावरी चांशुमती पृश्निपर्णी शटी वरा ।
एरण्डस्य च मूलानि बृहत्योः पूतिकस्य च ॥ ११५ ॥
गवेधुकस्य मूलानि तथा सहचरस्य च ।
एषां दशपलान्भागाञ्जलद्रोणे विपाचयेत् ॥ ११६ ॥
पादावशेषे पूते च गर्भं चैनं समावपेत् ।
पुनर्नवावचादारुशताह्वाचन्दनागरु ॥ ११७ ॥
शैलेयं तगरं कुष्ठमेलामांसी स्थिता बला ।
अश्वाह्वासैन्धवं रास्नापलार्धानि च पेषयेत् ॥ ११८ ॥
गव्याजपयसः प्रस्थो द्वौ द्वावत्र प्रदापयेत् ।
शतावरीरसप्रस्थं तैलप्रस्थं विपाचयेत् ॥ ११९ ॥
अस्य तैलस्य सिद्धस्य शृणु वीर्यमतःपरम् ।
अश्वानां वातभग्नानां कुञ्जराणा नृणां तथा ॥ १२० ॥
तैलमेतत्प्रयोक्तव्यं सर्ववातनिवारणम् ।
आयुष्मांश्च नरः पीत्वा निश्चयेन दृढी भवेत् ॥ १२१ ॥
गर्भमश्वतरी विन्देत्किं पुनर्मानुषी तथा ।
हृच्छूलं पार्श्वशूलं च तथैवार्धावभेदकम् ॥ १२२ ॥
अपचीं गण्डमालां च वातरक्तं हनुग्रहम् ।
कामलां पाण्डुरोगं च अश्मरीं चापि नाशयेत् ॥ १२३ ॥
तैलमेतद्भगवता विष्णुना परिकीर्तितम् ।
नारायणमिति ख्यातं वातान्तकरणं परम् ॥ १२४ ॥
100-b
२६शतं पक्त्वाश्वगन्धाया जलद्रोणेंऽशशेषितम् ।
विस्राव्य विपचेत्तैलं क्षीरं दत्वा चतुर्गुणम् ॥ १२५ ॥
कल्कैर्मृणालशालूकबिसकिञ्जल्कमालती ।
पुष्पैर्ह्रीबेरमधुकशारिवापद्मकेशरैः ॥ १२६ ॥
मेदापुनर्नवाद्राक्षामञ्जिष्ठाबृहतीद्वयैः ।
एलैलवालुत्रिफलामुस्तचन्दनपद्मकैः ॥ १२७ ॥
पक्वं रक्ताश्रयं वातं रक्तपित्तमसृग्दरम् ।
हन्यात्पुष्टिबलं कुर्यात्कृशानां मांसवर्धनम् ॥ १२८ ॥
रेतोयोनिविकारघ्नं घ्राणशोषापकर्षणम् ।
षण्डानपि वृषान्कुर्यात्पानाभ्यङ्गानुवासनैः ॥ १२९ ॥
२७मूलकस्वरसं तैलं क्षीरदध्यम्लकाञ्जिम् ।
तुल्यं विपाचयेत्कल्कैर्बलाचित्रकसैन्धवैः ॥ १३० ॥
101-a
पिप्पल्यातिविषारास्नाचविकागुरुचित्रकैः ।
भल्लातकवचाकुष्टश्वदंष्ट्राविश्वभेषजैः ॥ १३१ ॥
पुष्कराह्वशठीबिल्वशताह्वानतदारुभिः ।
तत्सिद्धं पीतमत्युग्रान्हन्ति वातात्मकान्मदान् ॥ १३२ ॥
२८रसोनकल्कस्वरसेन पक्वं
तैलं पिबेद्यस्त्वनिलामयार्तः ।
तस्याशु नश्यन्ति हि वातरोगा
ग्रन्था विशाला इव दुर्गृहीताः ॥ १३३ ॥
२९केतकीनागबलातिबलानां
यद्बहुलेन रसेन विपक्वम् ।
तैलमनल्पतुषोदकसिद्धं
मारुतमस्थिगतं विनिहन्ति ॥ १३४ ॥
अनल्पवचनात्तत्र तुल्ये क्वाथतुषोदके ।
अकल्कोऽपि भवेत्स्नेहोयः साध्यः केवले द्रवे ॥ १३५ ॥
३०द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात् ।
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाढके ॥ १३६ ॥
आरणालात्पचेत्प्रस्थं तैलमेतैरपत्यदम् ।
गृध्रस्युरुग्रहार्शोऽर्तिसर्ववातविकारनुत् ॥ १३७ ॥
101-b
३१तैलं सङ्कुचितेऽभ्यङ्गे माषसैन्धवसाधितम् ।
बाहुशीर्षगते नस्यं पानंचौत्तरभक्तिकम् ।
क्वाथोऽत्र माषनिष्पाद्यः सैन्धवं कल्कमेव च ॥ १३८ ॥
३२मापात्मगुप्तातिविषोरुबूक-
रास्नाशताह्वालवणैः सुपिष्टैः ।
चतुर्गुणे माषवलाकषाये
तैलं कृतं हन्ति च पक्षवातम् ॥ १३९ ॥
३३माषप्रस्थं समावाप्य पचेत्सम्यक्ग्जलाढके ।
पादशेषे रसे तस्मिन्क्षीरं दद्याच्चतुर्गुणम् ॥ १४० ॥
प्रस्थं च तिलतैलस्य कल्कं दत्त्वाक्षसम्मितम् ।
जीवनीयानि यान्यष्टौ शतपुष्पां ससैन्धवाम् ॥ १४१ ॥
रास्नात्मगुप्तामधुकं बलाव्योषं त्रिकण्टकम् ।
पक्षाघातार्दिते वाते कर्णशूले सुदारुणे ॥ १४२ ॥
मन्दश्रुतौ चाश्रवणे तिमिरे च त्रिदोषजे ।
हस्तकम्पे शिरःकम्पे विश्वच्यामवबाहुके ॥ १४३ ॥
शस्तं कलायखञ्जे च पानाभ्यञ्जनबस्तिभिः ।
माषतैलमिदं श्रेष्ठमूर्ध्वजत्रुगदापहम् ॥ १४४ ॥
102-a
३४माषातसीयवकुरुण्टककण्टकारी-
गोकण्टटुण्टुकजटाकपिकच्छुतोयैः ।
कार्पासकास्थिशणबीजकुलत्थकोल-
क्वाथेन बस्तपिशितस्य रसेन चापि ॥ १४५ ॥
शुण्ठ्या समागधिकया शतपुष्पया च
सैरण्डमूलसपुनर्नवया सरण्या ।
रास्नाबलामृतलताकटुकैर्विपक्वं
माषाख्यमेतदवबाहुहरं च तैलम् ॥ १४६ ॥
अर्धङ्गशोषमपतानकमाढ्यवात-
माक्षेपकं सभुजकम्पशिरः प्रकम्पम् ।
नस्येन बस्तिविधिना परिषेचनेन
हन्यात्कटीजघनजानुरुजश्च सर्वाः ॥ १४७ ॥
३५माषक्वाथे बलाक्वाथे रास्नाया दशमूलजे ।
यवकोलकुलत्थानां छागमांसभवे पृथक् ॥ १४८ ॥
प्रस्थे तैलस्य च प्रस्थं क्षीरं दत्वा चतुर्गुणम् ।
रास्नात्मगुप्तासिन्धूत्थशताह्वैरण्डमुस्तकैः ॥ १४९ ॥
जीवनीयैर्बलाव्योषैः पचेदक्षसमैर्भिषक् ।
हस्तकम्पे शिरःकम्पे बाहुशोषेऽवबाहुके ॥ १५० ॥
102-b
बाधिर्ये कर्णशूले च कर्णनादे च दारुणे ।
विश्वच्यामर्दिते कुब्जे गृध्रस्यामपतानके ॥ १५१ ॥
बस्त्यभ्यञ्जनपानेषु नावने च प्रयोजयेत् ।
माषतैलमिदं श्रेष्ठमूर्ध्वजत्रुगदापहम् ॥ १५२ ॥
क्वाथप्रस्थाः षडेवात्र विभक्त्यन्तेन कीर्तिताः ।
३६माषस्यार्धाढकं दत्त्वा तुलार्धं दशमूलतः ॥ १५३ ॥
पलानि छागमांसस्य त्रिंशद्द्रोणेऽम्भसः पचेत् ।
पूतशीते कषाये च चतुर्थांशावतारिते ॥ १५४ ॥
प्रस्थं च तिलतैलस्य पयो दद्याच्चतुर्गुणम् ।
आत्मगुप्तोरुबूकश्च शताह्वा लवणत्रयम् ॥ १५५ ॥
जीवनीयानि मञ्जिष्ठा चव्यचित्रककट्फलम् ।
सव्योषं पिप्पलीमूलं रास्नामधुकसैन्धवम् ॥ १५६ ॥
देवदार्वमृता कुष्ठं वाजिगन्धा वचा शटी ।
एतैरक्षसमैः कल्कैः साधयेन्मृदुनाग्निना ॥ १५७ ॥
पक्षाघातार्दिते वाते बाधिर्ये हनुसंग्रहे ।
कर्णनादे शिरःशूले तिमिरे च त्रिदोषजे ॥ १५८ ॥
पाणिपादशिरोग्रीवाभ्रमणे मन्दचङ्क्रमे ।
कलायखञ्जपाङ्गुल्ये गृध्रस्यामवबाहुके ॥ १५९ ॥
पाने बस्तौ तथाभ्यङ्गे नस्ये कर्णाक्षिपूरणे ।
तैलमेतत्प्रशंसन्ति सर्ववातरुजापहम् ॥ १६० ॥
103-a
३७द्विपञ्चमूलीं निःक्वाथ्य तैलात्षोडशभिर्गुणैः ।
माषाढकं साधयित्वा तन्निर्यूहं चतुर्गुणम् ॥ १६१ ॥
ग्राहयित्वा तु विपचेत्तैलप्रस्थं पयः समम् ।
कल्कार्थं च समावाप्य भिषग्द्रव्याणि बुद्धिमान् ॥ १६२ ॥
अश्वगन्धां शटीं दारुबलां रास्नां प्रसारणीम् ।
कुष्ठं परूषकं भार्गी द्वे विदार्यौ पुनर्नवाम् ॥ १६३ ॥
मातुलुङ्गफलाजाज्यौ रामठं शतपुष्पिकाम् ।
शतावरीगोक्षुरकं पिप्पलीमूलचित्रकम् ॥ १६४ ॥
जीवनीयगणं सर्वं संहृत्यैव ससैन्धवम् ।
तत्साधुसिद्धं विज्ञाय माषतैलमिदं महत् ॥ १६५ ॥
बस्त्यभ्यञ्जनपानेषु नावने च प्रयोजयेत् ।
पक्षाघाते हनुस्तम्भे अर्दिते सापतन्त्रके ॥ १६६ ॥
अवबाहुकविश्वच्योः खञ्जपङ्गुलयोरपि ।
हनुमन्याग्रहे चैवमधिमन्थे च वातिके ॥ १६७ ॥
शुक्रक्षये कर्णनादे कर्णशूले च दारुणे ।
कलायखञ्जशमने भैषज्यमिदमादिशेत् ॥ १६८ ॥
दशमूलाढकं द्रोणे निःक्वाथ्य पादिको भवेत् ।
क्वाथश्चतुर्गुणस्तैलान्माषक्वाथेऽप्ययं विधिः ॥ १६९ ॥
103-b
३८ग्राम्यानूपौदकानां तु भिन्नास्थीनि पचेज्जले ।
तं स्नेहं दशमूलस्य कषायेण पुनः पचेत् ॥ १७० ॥
जीवकर्षभकास्फोताविदारीकपिकच्छुभिः ।
वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम् ॥ १७१ ॥
तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात् ।
शिरःपार्श्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम् ॥ १७२ ॥
ये स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये ।
बलपुष्टिकरंतेषामेतत्स्यादमृतोपमम् ॥ १७३ ॥
३९प्रस्थः स्यात्त्रिफलायास्तु कुलत्थकुडवद्वयम् ।
कृष्णगन्धात्वगाढक्योः पृथक्पञ्चपलंभवेत् ॥ १७४ ॥
रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम् ।
जलद्रोणे पचेत्पादशेषं प्रस्थोन्मितं पृथक् ॥ १७५ ॥
सुरारणालदध्यम्लसौवीरकतुषोदकम् ।
कोलदाडिमवृक्षाम्लरसं तैलं घृतं वसाम् ॥ १७६ ॥
104-a
मज्जानं च पयश्चैव जीवनीयपलानि षट् ।
कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत् ॥ १७७ ॥
शिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु ।
वेपनाक्षेपशूलेषु तमभ्यङ्गं प्रदापयेत् ॥ १७८ ॥
४०प्रसारणीशतं क्षुण्णं पचेत्तोयार्मणे शुभे ।
पादशिष्टे समं तैलं दधि दद्यात्सकाञ्जिकम् ॥ १७९ ॥
द्विगुणं च पयो दत्त्वा कल्कान्द्विपलिकांस्तथा ।
चित्रकं पिप्पलीमूलं मधुकं सैन्धवं वचाम् ॥ १८० ॥
शतपुष्पां देवदारुरास्नां वारणपिप्पलीम् ।
प्रसारण्याश्च मूलानि मांसीभल्लातकानि च ॥ १८१ ॥
पचेन्मृद्वग्निना तैलं वातश्लेष्मामयाञ्जयेत् ।
अशीतिं नरनारीस्थान्वातरोगानपोहति ॥ १८२ ॥
कुब्जं स्तिमितपङ्गुत्वं गृध्रसीखुडुकार्दितम् ।
हनुपृष्ठशिरोग्रीवास्तम्भं वापि नियच्छति ॥ १८३ ॥
104-b
४१प्रसारण्यास्तुलामश्वगन्धाया दशमूलतः ।
तुलां तुलां पृथग्वारि द्रोणे पादांशशेषिते ॥ १८४ ॥
तैलाढकं चतुःक्षीरं दधितुल्यं द्विकाञ्जिकम् ।
द्विपलैर्ग्रन्थिकक्षारप्रसारण्यक्षसैन्धवैः ॥ १८५ ॥
समञ्जिष्ठाग्नियष्ट्याह्वैः पलिकैर्जीवनीयकैः ।
शुण्ठ्याः पञ्च पलं दत्त्वा त्रिंशद्भल्लातकानि च ॥ १८६ ॥
पचेद्बस्त्यादिना वातं हन्ति सन्धिशिरास्थितम् ।
पुंस्त्वोत्साहस्मृतिप्रज्ञाबलवर्णाग्निवृद्धये ॥ १८७ ॥
प्रसारणीयं त्रिशती अक्षं सौवर्चलं त्विह ।
४२समूलपत्रामुत्पाच्य शरत्काले प्रसारणीम् ॥ १८८ ॥
शतं ग्राह्यं सहचराच्छतावर्याः शतं तथा ।
बलात्मगुप्ताश्वगन्धाकेतकीनां शतं शतम् ॥ १८९ ॥
पचेच्चतुर्गुणे तोये द्रवैस्तैलाढकं भिषक् ।
मस्तुमांसरसं चुक्रं पयश्चाढकमाढकम् ॥ १९० ॥
दध्याढकसमायुक्तं पाचयेन्मृदुनाग्निना ।
द्रव्याणां त प्रदातव्या मात्रा चार्धा पलांशिका ॥ १९१ ॥
तगरं मदनं कुष्ठं केशरं मुस्तकं त्वचम् ।
रास्ना सैन्धवपिप्पल्यौ मांसी मञ्जिष्ठयष्टिका ॥ १९२ ॥
तथा मेदा महामेदा जीवकर्षभकौ पुनः ।
शतपुष्पा व्याघ्रनखं शुण्ठी देवाहमेव च ॥ १९३ ॥
काकोलीक्षीरकाकोलीवचाभल्लातकं तथा ।
पेषयित्वा समानेतान्साधनीया प्रसारणी ॥ १९४ ॥
नातिपक्वं न हीनं च सिद्धं पूतं निधापयेत् ।
यत्र यत्र प्रदातव्या तन्मे निगदतः शृणु ॥ १९५ ॥
105-a
कुब्जानामथ पङ्गूनां वामनानां तथैव च ।
यस्य शुष्यति चैकाङ्गं ये च भग्नास्थिसन्धयः ॥ १९६ ॥
वातशोणितदुष्टानां वातोपहतचेतसाम् ।
स्त्रीषु प्रक्षीणशुक्राणां वाजीकरणमुत्तमम् ॥ १९७ ॥
बस्तौ पाने तथाभ्यङ्गे नस्ये चैव प्रदापयेत् ।
प्रयुक्तं शमयत्याशु वातजान्विविधान्गदान् ॥ १९८ ॥
४३शाखामूलदलैः प्रसारणितुला-
स्तिस्रः कुरुल्टात्तुले
छिन्नायाश्च तुले तुले रुबुकतो
रास्नाशिरीषात्तुला ।
देवाह्वाच्च सकेतकाद्धटशते
निःक्वाथ्य कुम्भांशिके
तोये तैलघटं तुषाम्बुकलसौ
दत्वाढकं मस्तुनः ॥ १९९ ॥
105-b
शुक्ताच्छागरसादथेक्षुरसतः
क्षीराच्च दत्वाढकं
पृक्काकर्कटजीवकाद्यविकसा-
काकोलिकाकच्छुरा ।
सूक्ष्मैलाघनसारकुन्दसरला-
काश्मीरमांसीनखैः
कालीयोत्पलपद्मकाह्वयनिशा-
कक्कोलकग्रन्थिकैः ॥ २०० ॥
चाम्पेयाभयचोचपूगकटुका-
जातीफलाभीरुभिः
श्रीवासामरदारुचन्दनवचा-
शैलेयसिन्धूद्भवैः ।
तैलाभ्योदकटम्भराङ्घ्रिनलिका-
वृश्चीरकच्चोरकैः
कस्तूरीदशमूलकेतकनत-
ध्यामाश्वगन्धाम्बुभिः ॥ २०१ ॥
कौन्तीतार्क्षजशल्लकीफललघु-
श्यामाशताह्वामयै-
र्भल्लातत्रिफलाब्जकेशरमहा-
श्यामालवङ्गान्वितैः ।
सव्योपैस्त्रिफलैर्भहीयसि पचे-
न्मन्देन पात्रेऽग्निना
पानाभ्यञ्जनबस्तिनस्यविधिना
तन्मारुतं नाशयेत् ॥ २०२ ॥
सर्वाङ्गार्धगतं तथावयवगं
सन्ध्यस्थिमज्जान्वितं
श्लेष्मोत्थानथ पैत्तिकांश्च शमये-
न्नानाविधानामयान् ।
धातून्बृंहयति स्थिरं च कुरुते
पुंसां नवं यौवनं
वृद्धस्यापि बलं करोति सुमह-
द्वन्ध्यासु गर्भप्रदम् ॥ २०३ ॥
पीत्वा तैलमिदं जरत्यपि सुतं
सूतेऽमुना भूरुहाः
सिक्ताः शोषमुपागताश्च फलिनः
स्निग्धा भवन्ति स्थिराः ।
106-a
भग्नाङ्गाः सुदृढा भवन्ति मनुजा
गावोहयाः कुञ्जराः ॥ २०४ ॥
४४समूलदलशाखायाः प्रसारण्याः शतत्रयम् ।
शतमेकं शतावर्या अश्वगन्धाशतं तथा ॥ २०५ ॥
केतकीनां शतं चैकं दशमूलाच्छतं शतम् ।
शतं वाट्यालकस्यापि शतं सहचरस्य च ॥ २०६ ॥
106-b
जलद्रोणशतं दत्वा शतभागावशेषितम् ।
ततस्तेन कषायेण कषायद्विगुणेन च ॥ २०७ ॥
सुव्यक्तेनारणालेन दधिमण्डाढकेन च ।
क्षीरशुक्तेक्षुनिर्यासच्छागमांसरसाढकैः ॥ २०८ ॥
तैलाद्द्रोणं समायुक्तं दृढे पात्रे निधापयेत् ।
द्रव्याणि यानि पेष्याणि तानि वक्ष्याम्यतः परम् ॥ २०९ ॥
भल्लातकं नतं शुण्ठीपिप्पलीचित्रकं शठी ।
वचापृक्काप्रसारण्याः पिप्पल्या मूलमेव च ॥ २१० ॥
देवदारुशताह्वौ च सूक्ष्मैलात्वचवालकम् ।
कुङ्कुमं मदमञ्जिष्ठातुरुष्कं नखिकागुरु ॥ २११ ॥
कर्पूरकुन्दुरुनिशालवङ्गध्यामचन्दनम् ।
कक्कोलनलिकामुस्तं कालीयोत्पलपत्रकम् ॥ २१२ ॥
शटीहरेणुशैलेयश्रीवासं च सकेतकम् ।
त्रिफलाकच्छुराभीरुसरलापद्मकेशरम् ॥ २१३ ॥
प्रियङ्गूशीरनलदं जीवकाद्यं पुनर्नवा ।
दशमूल्यश्वगन्धे च नागपुष्पं रसाञ्जनम् ॥ २१४ ॥
कटुकाजातिपूगानां फलानि शल्लकीरसम् ।
भागान्त्रिपलिकान्दत्वा शनैर्मृद्वग्निना पचेत् ॥ २१५ ॥
विस्तीर्णे सुदृढे पात्रे पाक्यैषा तु प्रसारणी ।
प्रयोगः षड्विधश्चात्र रोगार्तानां विधीयते ॥ २१६ ॥
अभ्यङ्गात्त्वग्गतं हन्ति पानात्कोष्ठगतं तथा ।
भोजनात्सूक्ष्मनाडीस्थान्नस्यादूर्ध्व गतं तथा ॥ २१७ ॥
पक्वाशयगते वस्तिर्निरूहः सार्वकायिके ।
एतद्धि बडवाश्वानां किशोराणां यथामृतम् ॥ २१८ ॥
एतदेव मनुष्याणां कुञ्जराणां गवामपि ।
अनेनैव च तैलेन शुष्यमाणा महाद्रुमाः ॥ २१९ ॥
सिक्ताः पुनः प्ररोहन्ति भवन्ति फलशाखिनः ।
वृद्धोऽप्यनेन तैलेन पुनश्च तरुणायते ॥ २२० ॥
न प्रसूते च या नारी सापि पीत्वा प्रसूयते ।
अप्रजः पुरुषो यस्तु सोऽपि पीत्वा लभेत्सुतम् ॥ २२१ ॥
अशीतिं वातजान्रोगान्पैत्तिकाञ्श्लैष्मिकानपि ।
सन्निपातसमुत्थांश्च नाशयेत्क्षिप्रमेव तु ॥ २२२ ॥
एतेनान्धकदृष्टीनां कृतं पुंसबनं महत् ।
कृत्वा विष्णोर्बलिं चापि तैलमेतत्प्रयोजयेत् ॥ २२३ ॥
क्वाथे तुलार्धं रास्नायाः किलिमस्य च दीयते ।
भल्लातकासहत्वे तु तत्स्थाने रक्तचन्दनम् ॥ २२४ ॥
107-a
त्वक्पत्रं पत्रमधुरीकुष्टचम्पकगैरिकाः ।
ग्रन्थिकोषौ मरुबकमधिकत्वेन दीयते ॥ २२५ ॥
कर्पूरमददानं च शुक्तैर्गन्धोदकक्रिया ।
द्रव्यशुद्धिः पाकविधिर्भाविप्रसारणीसमः ॥ २२६ ॥
107-b
४५शतत्रयं प्रसारण्या द्वे च पीतसहाचरात् ।
अश्वगन्धैरण्डबला वरी रास्ना पुनर्नवा ॥ २२७ ॥
केतकी दशमूलं च पृथक्त्वक्पारिभद्रकः ।
प्रत्येकमेषां तु तुला तुलार्धं किलिमात्तथा ॥ २२८ ॥
तुलार्धं स्याच्छिरीषाच्च लाक्षायाः पञ्चविंशतिः ।
पलानि लोध्राच्च तथा सर्वमेकत्र साधयेत् ॥ २२९ ॥
जलपञ्चाढकशते सपादे तत्र शेषयेत् ।
द्रोणद्वयं काञ्जिकं च षड्विंशत्याढकोन्मितम् ॥ २३० ॥
क्षीरदध्नोः पृथक्प्रस्थान्दशमं त्वाढकं तथा ।
इक्षुरसाढकौ चैव छागमांसतुलात्रये ॥ २३१ ॥
जलपञ्चचत्वारिंशत्प्रस्थान्पक्वे तु शोषयेत् ।
सप्तदशरसप्रस्थान्मञ्जिष्ठाक्वाथ एव च ॥ २३२ ॥
कुडवोनाढकोन्मानद्रवैरेतैस्तु साधयेत् ।
सुशुद्धतिलतैलस्य द्रोणं प्रस्थेन संयुतम् ॥ २३३ ॥
काञ्जिकं मानतो द्रोणं शुक्तेनात्र विधीयते ।
आद्य एभिर्द्रवैः पाकः कल्को भल्लातकं कणा ॥ २३४ ॥
नागरं मरिचं चैव प्रत्येकं षट्पलोन्मितम् ।
भल्लातकासहत्वे तु रक्तचन्दनमुच्यते ॥ २३५ ॥
पथ्याक्षधात्री सरलं शताह्वाकर्कटी वचा ।
चोरपुष्पीशटीमुस्तं द्वयं पद्मं च सोत्पलम् ॥ २३६ ॥
पिप्पलीमूलमञ्जिष्ठा साश्वगन्धा पुनर्नवा ।
दशमूलं समुदितं चक्रमर्दो रसाञ्जनम् ॥ २३७ ॥
गन्धतृणं हरिद्रा च जीवनीयो गणस्तथा ।
एषां त्रिपलिकैर्भागैराद्यः पाको विधीयते ॥ २३८ ॥
देवपुष्पीबोलपत्रं शल्लकीरसशैलजे ।
प्रियङ्गूशीरमधुरीमांसीदारुबलाचलम् ॥ २३९ ॥
श्रीवासोनलिकाखोटिः सूक्ष्मैलाकुन्दुरुर्मुरा ।
नखीत्रयं च त्वक्पत्रीपमरापूतिचम्पकम् ॥ २४० ॥
108-a
मदनं रेणुकापृक्कामरुवं च पलत्रयम् ।
प्रत्येकं गन्धतोयेन द्वितीयः पाक इष्यते ॥ २४१ ॥
गन्धोदकं तु त्वक्पत्रीपत्रकोशीरमुस्तकम् ।
प्रत्येकं सबलामूलं पलानि पञ्चविंशतिः ॥ २४२ ॥
कुष्ठार्धभागोऽत्र जलप्रस्थास्तु पञ्चविंशतिः ।
अर्धावशिष्टाः कर्तव्याः पाके गन्धाम्बुकर्मणि ॥ २४३ ॥
गन्धाम्बुचन्दनाम्बुभ्यां तृतीयः पाक इष्यते ।
कल्कोऽत्र केशरं कुष्ठं त्वक्कालीयककुङ्कुमम् ॥ २४४ ॥
भद्रश्रियं ग्रन्थिपर्णं लताकस्तूरिका तथा ।
लबङ्गागुरुकक्कोलजातीकोपफलानि च ॥ २४५ ॥
एलालवङ्गच्छल्वी च प्रत्येकं त्रिपलोन्मितम् ।
कस्तूरीषट्पला चन्द्रात्पलं सार्धं च गृह्यते ॥ २४६ ॥
वेधार्थं च पुनश्चन्द्रमदौ देयौ तथोन्मितौ ।
महाप्रसारणी सेयं राजभोग्या प्रकीर्तिता ॥ २४७ ॥
गुणान्प्रसारणीनां तु वहत्येषा बलोत्तमात् ।
अत्र शुक्तिविधिर्मण्डः प्रस्थः पञ्चाढकोन्मितम् ॥ २४८ ॥
काञ्जिकं कुडवं दध्नो गुडप्रस्थोऽम्लमूलकात् ।
पलान्यष्टौ शोधितार्द्रात्पलषोडशकं तथा ॥ २४९ ॥
कणाजीरकसिन्धूत्थहरिद्रामरिचं पृथक् ।
द्विपलं भाविते भाण्डे घृतेनाष्टदिनस्थितम् ॥ २५० ॥
सिद्धं भवति तच्छुक्तं यदावतार्य गृह्यते ।
तदा देयं चतुर्जातं पृथक्कर्षत्रयोन्मितम् ॥ २५१ ॥
पञ्चपल्लवतोयेन गन्धानां क्षालनं तथा ।
शोधनं चापि संस्कारो विशेषश्चात्र वक्ष्यते ॥ २५२ ॥
आम्रजम्बूकपित्थानां बीजपूरकबिल्वयोः ।
गन्धकर्मणि सर्वत्र पत्राणि पञ्चपल्लवम् ॥ २५३ ॥
चण्डीगोमयतोयेन यदि वा तिन्तिडीजलैः ।
नखं संक्वाथयेदेभिरलाभे मृण्मयेन तु ॥ २५४ ॥
पुनरुद्धृत्य प्रक्षाल्य भर्जयित्वा निषेचयेत् ।
गुडपथ्याम्बुना ह्येवं शुध्यते नात्र संशयः ॥ २५५ ॥
108-b 109-a

No verses of the Cakradatta in this column. The commentary was not digitized.

४६गोमूत्रे चालम्बुषके पक्त्वा पञ्चदलोदके ।
पुनः सुरभितोयेन बाष्पस्वेदेन स्वेदयेत् ॥ २५६ ॥
गन्धोग्रा शुध्यते ह्येवं रजनी च विशेषतः ।
मुस्तकं तु मनाक् क्षुण्णं काञ्जिके त्रिदिनोषितम् ॥ २५७ ॥
पञ्चपल्लवपानीयस्विन्नमातपशोषितम् ।
गुडाम्बुना सिच्यमानं भर्जयेच्चूर्णयेत्ततः ॥ २५८ ॥
आजशौभाञ्जनजलैर्भावयेच्चेति शुध्यति ।
काञ्जिके क्वथितं शैलं भृष्टापथ्यागुडाम्बुना ॥ २५९ ॥
सिञ्चेदेवं पुनः पुष्पैर्विविधैरधिवासयेत् ।
यथालाभमपामार्गस्नुह्यादिक्षारलेपितम् ॥ २६० ॥
बाष्पस्वेदेन संस्वेद्य पूतिं निर्लोमतां नयेत् ।
दोलापक्वं पचेत्पश्चापञ्चत्पल्लववारिणि ॥ २६१ ॥
खलः साधुमिवोत्पीड्य ततो निःस्नेहतां नयेत् ।
आजशोभाञ्जनजलैर्भावयेच्च पुनः पुनः ॥ २६२ ॥
शिग्रुमूले च केतक्याः पुष्पपत्रपुटे च तम् ।
पचेदेवं विशुद्धः सन्मृगनाभिसमो भवेत् ॥ २६३ ॥
तुरुष्कं मधुना भाव्यं काश्मीरं चापि सर्पिषा ।
रुधिरेणायसं प्राज्ञैर्गोमूत्रैर्ग्रन्थिपर्णकम् ॥ २६४ ॥
मधूदकेन मधुरीं पत्रकं तण्डुलाम्बुना ।
ईषत्क्षारानुगन्धा तु दग्धा याति न भस्मताम् ॥ २६५ ॥
पीता केतकगन्धा च लघुस्निग्धा मृगोत्तमा ।
पक्वात्कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ॥ २६६ ॥
तत्रापि स्याद्यदक्षुद्रं स्फटिकाभं तदुत्तमम् ।
पक्वं च सदलं स्निग्धं हरितद्युति चोत्तमम् ॥ २६७ ॥
भङ्गे मनागपि न चेन्निपतन्ति ततः कणाः ।
मृगशृङ्गोपमं कुष्टं चन्दनं रक्तपीतकम् ॥ २६८ ॥
काचतुण्डाकृतिः स्निग्धो गुरुश्चैवोत्तमो गुरुः ।
स्निग्धाल्पकेशरं त्वस्रं शालिजो वृत्तमांसलः ॥ २६९ ॥
मुरा पीता वरा प्रोक्ता मांसी पिङ्गजटाकृतिः ।
रेणुका मुद्गसंस्थाना शस्तमानूपजं घनम् ॥ २७० ॥
109-b
जातीफलं सशब्दं च स्निग्धं गुरु च शस्यते ।
एला सूक्ष्मफला श्रेष्ठा प्रियङ्गुः श्यामपाण्डुरा ॥ २७१ ॥
नखमश्वखुरं हस्तिकर्णं चैवात्र शस्यते ।
एतेषामपरेषां च नवता प्रवलो गुणः ॥ २७२ ॥
110-a
४७जिङ्गीचोरकदेवदारुसरलं
व्याघ्रीवचाचेलक-
त्वक्पत्रैः सह गन्धपत्रकशटी-
पथ्याक्षधात्रीघनैः ।
एतैः शोधितसंस्कृतैः पलयुगे-
त्याख्यातया संख्यया ।
तैलप्रस्थमवस्थितैः स्थिरमिति
कल्कैः पचेद्गान्धिकम् ॥ २७३ ॥
मांसीमुरादमनचम्पकसुन्दरीत्वक्-
ग्रन्थ्यम्बुरुङ्मरुबकैर्द्विपलैः सपृक्कैः ।
श्रीवासकुन्दुरुनखीनलिकामिषीणां
प्रत्येकतः पलमुपाय्य पुनः पचेत्तु ॥ २७४ ॥
एलालवङ्गचलचन्दनजातिपूतिः ।
कक्कोलकागुरुलताघुसृणैः पलार्धैः ।
कस्तूरिकाक्षसहितामलदीप्तियुक्तैः
पक्वा तु मन्दशिखिनैव महासुगन्धम् ॥ २७५ ॥
पञ्चद्विकेन चार्धेन मदात्कर्पूरमिष्यते ।
कर्पूरमदयोरर्धं पत्रकल्कादिहेष्यते ॥ २७६ ॥
पक्वपूतेऽप्युष्ण एव सम्यक्पेषणवर्तितम् ।
दीयते गन्धवृद्ध्यर्थं पत्रकल्कं तदुच्यते ॥ २७७ ॥
प्रागुक्तौ शुद्धसंस्कारौ गन्धानामिह तैः पुनः ।
द्विगुणैर्लक्ष्मीविलासः स्यादयं तैलसत्तमः ॥ २७८ ॥
पञ्चपत्राम्बुना चाद्यो द्वितीयो गन्धवारिणा ।
तृतीयोऽपि च तेनैव पाको वा धूपिताम्बुना ॥ २७९ ॥