Adhikāra 23

110-b
बाह्यं लेपाभ्यङ्गसेको पानाहैर्वातशोणितम् ।
विरेकस्थापनस्नेहपानैर्गम्भीरमाचरेत् ॥ १ ॥
द्वयोर्मुञ्चेदसृक् शृङ्गसूच्यलाबूजलौकसा ।
देहाद्देशं व्रजेत्स्राव्यं शिराभिः पुच्छनेन वा ॥ २ ॥
अङ्गग्लानौ च न स्राव्यं रुक्षे वातोत्तरे च यत् ।
अमृतनागरधन्याककर्षत्रयेण पाचनं सिद्धम् ॥ ३ ॥
जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि ।
वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुसंयुतः
समीरणसमायुक्तं शोणितं संप्रसाधयेत् ॥ ४ ॥
वासागुडूचीचतुरङ्गुलाना-
मेरण्डतैलेन पिबेत्कषायम्
क्रमेण सर्वाङ्गजमप्यशेषं
जयेदसृग्वातभवं विकारम् ॥ ५ ॥
लीड्ढा मुण्डितिकाचूर्णं मधुसर्पिः समन्वितम् ।
छिन्नाक्वाथं पिबन्हन्ति वातरक्तं सुदुस्तरम् ॥ ६ ॥
111-a
तिस्रोऽथवा पञ्च गुडेन पथ्या
जग्ध्वा पिबेच्छिन्नरुहाकषायम् ।
तद्वातरक्तं शमयत्युदीर्ण-
माजानुसंभिन्नमपि ह्यवश्यम् ॥ ७ ॥
घृतेन वातं सगुडा विबद्धं
पित्तं सिताढ्या मधुना कफं च ।
वातासृगुग्रं रुबुतैलमिश्रा
शुण्ठ्यामवातं शमयेद्गुडूची ॥ ८ ॥
गुडूच्याः स्वरसं कल्कं चूर्णं वा क्वाथमेव वा ।
प्रभूतकालमासेव्य मुच्यते वातशोणितात् ॥ ९ ॥
दशमूलीशृतं क्षीरं सद्यः शूलनिवारणम् ।
परिषेकोऽनिलप्राये तद्वत्कोष्णेन सर्पिषा ॥ १० ॥
पटोलकटुकाभीरुत्रिफलामृतसाधितम् ।
क्वाथं पीत्वा जयेज्जन्तुः सदाहं वातशोणितम् ॥ ११ ॥
111-b
गोधूमचूर्णाजपयो घृतं च
सच्छागदुग्धो रुबुबीजकल्कः ।
लेपे विधेयं शतधौतसर्पिः
सेके पयश्चाविकमेव शस्तम् ॥ १२ ॥
लेपः पिष्टास्तिलास्तद्वद्भृष्टाः पयसि निर्वृताः ।
कटुकामृतयष्ट्याह्वं शुण्ठीकल्कं समाक्षिकम् ॥ १३ ॥
गोमूत्रपीतं जयति सकफं वातशोणितम् ।
धात्रीहरिद्रामुस्तानां कषायो वा कफाधिके ॥ १४ ॥
कोकिलाक्षामृताक्वाथे पिबेत्कृष्णां कफाधिके ।
पथ्याभोजी त्रिसप्ताहान्मुच्यते वातशोणितात् ॥ १५ ॥
कफरक्तप्रशमनं हृद्यं गुडघृतं स्मृतम् ।
संसर्गेषु यथोद्रेकं मिश्रं वा प्रतिकारयेत् ॥ १६ ॥
सर्वेषु सगुडां पथ्यां गुडूचीक्वाथमेव वा ।
पिप्पलीवर्धमानं वा शीलयेत्सुसमाहितः ॥ १७ ॥
112-a
त्रिफलानिम्बमञ्जिष्ठावचाकटुकरोहिणी ।
वत्सादनीदारुनिशाकषायो नवकार्षिकः ॥ १८ ॥
वातरक्तं तथा कुष्ठं पामानं रक्तमण्डलम् ।
कुष्ठं कापालिकाकुष्ठं पानादेवापकर्षति ॥ १९ ॥
पञ्चरक्तिकमाषेण कार्योऽयं नव कार्षिकः ।
किंत्वेवं साधिते क्वाथे योग्यमात्रा प्रदीयते ॥ २० ॥
गुडूचीक्वाथकल्काभ्यां सपयस्कं शृतं घृतम् ।
हन्ति वातं तथा रक्तं कुष्ठं जयति दुस्तरम् ॥ २१ ॥
शतावरीकल्कगर्भं रसे तस्याश्चतुर्गुणे ।
क्षीरतुल्यं घृतं पक्वं वातशोणितनाशनम् ॥ २२ ॥
अमृता मधुकं द्राक्षा त्रिफला नागरं बला ।
वासारग्वधवृश्चीरदेवदारुत्रिकण्टकम् ॥ २३ ॥
कटुकासवरीकृष्णाकाश्मर्यस्य फलानि च ।
रास्नाक्षुरकगन्धर्ववृद्धदारघनोत्पलैः ।
कल्कैरेभिः समैः कृत्वा सर्पिःप्रस्थं विपाचयेत् ॥ २४ ॥
धात्रीरससमं दत्त्वा वारि त्रिगुणसंयुतम् ।
सम्यक् सिद्धं तु विज्ञाय भोज्यपाने च शस्यते ॥ २५ ॥
बहुदोषान्वितं बातं रक्तेन सह मूर्च्छितम् ।
उत्तानं चापि गम्भीरं त्रिकजङ्घोरुजानुजम् ॥ २६ ॥
क्रोष्टुशीर्षे महाशूले चामवाते सुदारुणे ।
वातरोगोपसृष्टस्य वेदनां चातिदुस्तराम् ॥ २७ ॥
मूत्रकृच्छ्रमुदावर्तप्रमेहं विषमज्वरम् ।
एतान्सर्वान्निहन्त्याशु वातपित्तकफोत्थितान् ॥ २८ ॥
112-b
सर्वकालोपयोगेन वर्णायुर्वलवर्धनम् ।
अश्विभ्यां निर्मितं श्रेष्ठं घृतमेतदनुत्तमम् ॥ २९ ॥
बलाकषायकल्काभ्यां तैलं क्षीरचतुर्गुणम् ।
दशपाकं भवेदेतद्वातासृग्वातपित्तजित् ॥ ३० ॥
धन्यं पुंसवनं चैव नराणां शुक्रवर्धनम् ।
रेतोयोनिविकारघ्नमेतद्वातविकारनुत् ॥ ३१ ॥
गुडूचीक्वाथदुग्धाभ्यां तैलं लाक्षारसेन वा ।
सिद्धं मधुककाश्मर्यरसैर्वा वातरक्तनुत् ॥ ३२ ॥
पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम् ।
स्यात्पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः ।
खुज्जाकपद्मकमिदं तैलं वातास्रदोषनुत् ॥ ३३ ॥
113-a
१०शुद्धां पचेन्नागबलातुलां तु
विस्राव्य तैलाढकमत्र दद्यात् ।
अजापयस्तुल्यविमिश्रितं तु
न तस्य यष्टीमधुकस्य कल्कम् ॥ ३४ ॥
पृथक्पचेत्पञ्चपलं विपक्वं
तद्वातरक्तं शमयत्युदीर्णम् ।
बस्तिप्रदानादिह सप्तरात्रा-
त्पीतं दशाहात्प्रकरोत्यरोगम् ॥ ३५ ॥
तुलाद्रव्ये जलद्रोणो द्रव्यतुला द्रोणे मता ॥ ३६ ॥
११समधूच्छिष्टमञ्जिष्ठं ससर्जरसशारिवम् ।
पिण्डतैलं तदभ्यङ्गाद्वातरक्तरुजापहम् ॥ ३७ ॥
१२शारिवासर्जमञ्जिष्ठायष्टीसिक्थैः पयोऽन्वितैः ।
तैलं पक्वं विमञ्जिष्ठै रुबोर्वा वातरक्तनुत् ॥ ३८ ॥
113-b
१३वरमहिषलोचनोदरः
सन्निभवर्णस्य गुग्गुलोः प्रस्थम् ।
प्रक्षिप्य तोयराशौ
त्रिफलां च यथोक्तपरिमाणाम् ॥ ३९ ॥
द्वात्रिंशच्छिन्नरुहा-
पलानि देयानि यत्नेन ।
विपचेदप्रमत्तो
दर्व्या संघट्टयन्मुहुर्यावत् ॥ ४० ॥
अर्धक्षयितं तोयं
जातं ज्वलनस्य सम्पर्कात् ।
अवतार्य वस्त्रपूतं
पुनरपि सम्पादयेत्पात्रे ॥ ४१ ॥
सान्द्रीभूते तस्मि-
न्नवतार्य हिमोपलप्रस्थे ।
त्रिफलाचूर्णार्धपलं
त्रिकटोश्चूर्णं षडक्षपरिमाणम् ॥ ४२ ॥
क्रिमिरिपुचूर्णार्धपलं
कर्षं त्रिवृद्दन्त्योः ।
पलमेकं च गुडूच्या
दत्वा संमूच्छर्य यत्नेन ॥ ४३ ॥
उपयुज्य चानुपानं
यूषं तोयं सुगन्धिसलिलेन ।
इच्छाहारविहारी
भेषजमुपयुज्य सर्वकालमिदम् ॥ ४४ ॥
तनुरोधिवातशोणित
मेकजमथ द्वन्द्वजं चिरोत्थं च ।
जयति श्रुतं परिशुष्कं
स्फुटितं चाजानुजं चापि ॥ ४५ ॥
व्रणकासकुष्ठगुल्मं
श्वयथूदरपारण्डुमेहांश्च ।
मन्दाग्निं च विबद्धं
प्रमेहपिडकांश्च नाशयत्याशु ॥ ४६ ॥
सततं निषेव्यमाणः
कालवशाद्धन्ति सर्वगदान् ।
अभिभूय जरादोषं
याति कैशोरकं रूपम् ॥ ४७ ॥
114-a
प्रत्येकं त्रिफलाप्रस्थो जलं तत्र षडाढकम् ।
गुडवद्गुग्गुलोः पाकः सुगन्धस्तु विशेषतः ॥ ४८ ॥
१४प्रस्थमेकं गुडूच्यास्तु अर्धप्रस्थंच गुग्गुलोः ।
प्रत्येकं त्रिफलायाश्च तत्प्रमाणं विनिर्दिशेत् ॥ ४९ ॥
सर्वमेकत्र संक्षुद्य साधयेत्त्वर्मणेऽम्भसि ।
पादशेषं परिस्राव्य पुनरग्नावधिश्रयेत् ॥ ५० ॥
तावत्पचेत्कषायं तु यावत्सान्द्रत्वमागतम् ।
दन्तीव्योषविडङ्गानि गुडूचीफित्रलात्वचः ॥ ५१ ॥
ततश्चार्धपलं पूतं गृह्णीयाच्च प्रति प्रति ।
कर्षं तु त्रिवृतायास्तु सर्वमेकत्र कारयेत् ॥ ५२ ॥
तस्मिन्सुसिद्धं विज्ञाय कवोष्णे प्रक्षिपेद्बुधः ।
ततश्चाग्निबलं ज्ञात्वा तस्य मात्रां प्रदापयेत् ॥ ५३ ॥
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् ।
दुष्टव्रणप्रमेहांश्च सामवातं भगन्दरम् ॥ ५४ ॥
114-b
नाड्याढ्यवातश्वयथून्सर्वानेतान्व्यपोहति ।
अश्विभ्यां निर्मितः पूर्वममृताख्यो हि गुग्गुलुः ।
अर्धप्रस्थं त्रिफलायाः प्रत्येकमिह गृह्यते ॥ ५५ ॥
१५अमृतायाश्च द्विप्रस्थं प्रस्थमेकं च गुग्गुलोः ।
प्रत्येकं त्रिफलाप्रस्थं वर्षाभूप्रस्थमेव च ॥ ५६ ॥
सर्वमेतच्च संक्षुद्य क्वाथयेल्लवणाम्भसि ।
पुनः पचेत्पादशेषं यावत्सान्द्रत्वमागतम् ॥ ५७ ॥
दन्तीचित्रकमूलानां कणाविश्वफलात्रिकम् ।
गुडूचीत्वविडङ्गानां प्रत्येकार्धपलोन्मितम् ॥ ५८ ॥
त्रिवृता कर्षमेकं तु सर्वमेकत्र चूर्णयेत् ।
सिद्धे चोष्णे क्षिपेत्तत्र त्वमृतागुग्गुलोः परम् ॥ ५९ ॥
यथावह्निबलं खादेदम्लपित्ती विशेषतः ।
वातरक्तं तथा कुष्ठं गुदजान्यग्निसादनम् ॥ ६० ॥
दुष्टव्रणप्रमेहांश्च सामवातं भगन्दरम् ।
नाड्याढ्यवातश्वयथून्हन्यात्सर्वामयानयम् ।
अश्विभ्यां निर्मितो ह्येषोऽमृताख्यो गुग्गुलुः पुरा ॥ ६१ ॥
115-a
१६शतावरीनागबलावृद्धदारकमुच्चटाः ।
पुनर्नवामृताकृष्णावाजिगन्धात्रिकण्टकम् ॥ ६२ ॥
पृथग्दशपलान्येषां श्लक्ष्णं चूर्णानि कारयेत् ।
तदर्धशर्करायुक्तं चूर्णं संमर्दयेद्बुधः ॥ ६३ ॥
स्थापयेत्सुदृढे भाण्डे मध्वर्धाढकसंयुतम् ।
घृतप्रस्थे समालोड्य त्रिसुगन्धिपलेन तु ॥ ६४ ॥
तं खादेदिष्टचेष्टान्नो यथावह्निबलं नरः ।
वातरक्तं क्षयं कुष्ठं कार्श्यं पित्तास्रसम्भवम् ॥ ६५ ॥
वातपित्तकफोत्थांश्च रोगानन्यांश्च तद्विधान् ।
हत्वा करोति पुरुषं बलीपलितवर्जितम् ।
योगसारामृतो नाम लक्ष्मीकान्तिविवर्धनः ॥ ६६ ॥
दिवास्वप्नाग्निसन्तापं व्यायामं मैथुनं तथा ।
कटूष्णगुर्वभिष्यन्दिलवणाम्लानि वर्जयेत् ॥ ६७ ॥