Adhikāra 26

121-b
वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः ।
क्षारचूर्णानि गुडिकाः शस्यन्ते शूलशान्तये ॥ १ ॥
पुंसः शूलाभिपन्नस्य स्वेद एव सुखावहः ।
पायसैः कृशरैः पिष्टैः स्निग्धैर्वापि सितोत्करैः ॥ २ ॥
वातात्मकं हन्त्यचिरेण शूलं
स्नेहेन युक्तस्तु कुलत्थयूषः ।
ससैन्धवो व्योषयुतः सलावः
सहिङ्गुसौवर्चलदाडिमाढ्यः ॥ ३ ॥
बलापुनर्नवैरण्डबृहतीद्वयगोक्षुरैः ।
सहिङ्गु लवणं पीतं सद्यो वातरुजापहम् ॥ ४ ॥
शूली विबन्धकोष्ठोऽद्भिरुष्णाभिश्चूर्णिताः पिबेत् ।
हिङ्गुप्रतिविषाव्योषवचासौवर्चलाभयाः ॥ ५ ॥
तुम्बुरूण्यभयाहिङ्गुपौष्करं लवणत्रयम् ।
पिबेद्यवाम्बुना वातशूलगुल्मापतन्द्रकी ॥ ६ ॥
श्यामा बिडं शिग्रुफलानि पथ्या-
विडङ्गकम्पिल्लकमश्वमूत्री ।
कल्कं समं मद्ययुतं च पीत्वा
शूलं निहन्यादनिलात्मकं तु ॥ ७ ॥
122-a
यामिनीहिङ्गुसिन्धूत्थक्षारसौवर्चलाभयाः ।
सुरामण्डेन पातव्या वातशूलनिषूदनाः ॥ ८ ॥
विश्वमेरण्डजं मूलं क्वाथयित्वा जलं पिवेत् ।
हिङ्गुसौवर्चलोपेतं सद्यः शूलनिवारणम् ॥ ९ ॥
हिङ्गुपुष्करमूलाभ्यां हिङ्गु सौवर्चलेन वा ।
विश्वैरण्डयवक्वाथः सद्यः शूलनिवारणः ।
तद्वद्रुबुयवक्वाथो हिङ्गुसौवर्चलान्वितः ॥ १० ॥
हिङ्ग्वम्लकृष्णालवणं यमानी-
क्षाराभयासैन्धवतुल्यभागम् ।
चूर्णं पिबेद्वारुणमण्डमिश्रं
शूले प्रवृद्धेऽनिलजे शिवाय ॥ ११ ॥
सौवर्चलाम्लिकाजाजीमरिचैर्द्विगुणोत्तरैः ।
मातुलुङ्गरसैः पिष्ट्वा गुडिकानिलशूलनुत् ॥ १२ ॥
हिङ्ग्वम्लवेतसव्योषयमानीलवणत्रिकैः ।
बीजपूररसोपेतैर्गुडिका वातशूलनुत् ॥ १३ ॥
बीजपूरकमूलं च घृतेन सह पाययेत् ।
जयेद्वातभवं शूलं कर्षमेकं प्रमाणतः ॥ १४ ॥
बिल्वमूलतिलैरण्डं पिष्ट्वा चाम्लतुषाम्भसा ।
गुडिकां भ्रामयेदुष्णां वातशूलविनाशिनीम् ॥ १५ ॥
तिलैश्च गुडिकां कृत्वा भ्रामयेज्जठरोपरि ।
गुडिका शमयत्येषा शूलं चैवातिदुःसहम् ॥ १६ ॥
122-b
नाभिलेपाज्जयेच्छूलं मदनः काञ्जिकान्वितः ।
जीवन्तीमूलकल्को वा सतैलः पार्श्वशूलनुत् ॥ १७ ॥
गुडः शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम् ।
जाङ्गलानि च मांसानि भैषजं पित्तशूलिनाम् ॥ १८ ॥
पैत्तं तु शूले वमनं पयोभी
रसैस्तथेक्षोः सपटोलनिम्बैः ।
शीतावगाहाः पुलिनाः सवाताः
कांस्यादिपात्राणि जलप्लुतानि ॥ १९ ॥
विरेचनं पित्तहरं च शस्तं
रसाश्च शस्ताः शशलावकानाम् ।
सन्तर्पणं लाजमधूपपन्नं
योगाः सुशीता मधुसंप्रयुक्ताः ॥ २० ॥
छर्द्यां ज्वरे पित्तभवेऽपि शूले
घोरे विदाहे त्वतितर्षिते च ।
यवस्य पेयां मधुना विमिश्रां
पिबेत्सुशीतां मनुजः सुखार्थी ॥ २१ ॥
धात्र्या रसं विदार्या वा त्रायन्ती गोस्तनाम्बु वा ।
पिवेत्सशर्करं सद्यः पित्तशूलनिषूदनम् ॥ २२ ॥
शतावरीरसं क्षौद्रयुतं प्रातः पिबेन्नरः ।
दाहशूलोपशान्त्यर्थं सर्वपित्तामयापहम् ॥ २३ ॥
बृहत्यौ गोक्षुरैरण्डकुशकाशेक्षुरालिकाः ।
पीताः पित्तभवं शूलं सद्यो हन्युः सुदारुणम् ॥ २४ ॥
123-a
शतावरीसयष्ट्याह्ववाट्यालकुशगोक्षुरैः ।
शृतशीतं पिबेत्तोयं सगुडक्षौद्रशर्करम् ॥ २५ ॥
पित्तासृग्दाहशूलघ्नं सद्यो दाहज्वरापहम् ।
त्रिफलानिम्बयष्ट्याह्वकटुकारग्वधैः शृतम् ॥ २६ ॥
पाययेन्मधुसंमिश्रं दाहशूलोपशान्तये ।
तैलमेरण्डजं वापि मधुकक्वाथसंयुतम् ॥ २७ ॥
शूलं पित्तोद्भवं हन्याद्गुल्मं पैत्तिकमेव च ।
त्रिफलारग्वधक्वाथं सक्षौद्रं शर्करान्वितम् ॥ २८ ॥
पाययेद्रक्तपित्तघ्नं दाहशूलनिवारणम् ।
प्रलिह्यात्पित्तशूलघ्नं धात्रीचूर्णं समाक्षिकम् ॥ २९ ॥
123-b
श्लेष्माधिके छर्दनलङ्घनानि
शिरोविरेकं मधुशीधुपानम् ।
मधूनि गोधूमयवानरिष्टान्
सेवेत रुक्षान्कटुकांश्च सर्वान् ॥ ३० ॥
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।
यवागूर्दीपनीया स्याच्छूलघ्नी तोयसाधिता ॥ ३१ ॥
लवणत्रयसंयुक्तं पञ्चकोलं सरामठम् ।
सुखोष्णेनाम्बुना पीतं कफशूलविनाशनम् ॥ ३२ ॥
विल्वमूलमथैरण्डं चित्रकं विश्वभेषजम् ।
हिङ्गु सैन्धवसंयुक्तं सद्यः शूलनिवारणम् ॥ ३३ ॥
मुस्तं वचां तिक्तकरोहिणीं च
तथाभयां निर्दहनीं च तुल्याम् ।
पिबेत्तु गोमूत्रयुतां कफोत्थ-
शूले तथामस्य च पाचनार्थम् ॥ ३४ ॥
वचाब्दाग्न्यभयातिक्ताचूर्णं गोमूत्रसंयुतम् ।
सक्षारं वा पिबेत्क्वाथं बिल्वादेः कफशूलनुत् ॥ ३५ ॥
मातुलुङ्गरसो वापि शिग्रुक्वाथस्तथापरः ।
सक्षारो मधुना पीतः पार्श्वहृद्बस्तिशूलनुत् ॥ ३६ ॥
आमशूले क्रिया कार्या कफशूलविनाशिनी ।
सेव्यमामहरं सर्वं यदग्निबलवर्धनम् ॥ ३७ ॥
सहिङ्गुतुम्बुरुव्योषयमानीचित्रकाभयाः ।
सक्षारलवणाश्चूर्णं पिबेत्प्रातः सुखाम्बुना ॥ ३८ ॥
विण्मूत्रानिलशूलघ्नं पाचनं वह्निदीपनम् ।
124-a
चित्रकं ग्रन्थिकैरण्डशुण्ठीधान्यं जलैः शृतम् ॥ ३९ ॥
शूलानाहविवन्धेषु सहिङ्गु बिडदाडिमम् ।
दीप्यकं सैन्धवं पथ्या नागरं च चतुःसमम् ।
भृशं शूलं जयत्याशु मन्दस्याग्नेश्च दीपनम् ॥ ४० ॥
समाक्षिकं बृहत्यादि पिबोत्पित्तानिलात्मके ।
व्यामिश्रं वा विधिं कुर्याच्छूले पित्तानिलात्मके ॥ ४१ ॥
पित्तजे कफजे वापि या क्रिया कथिता पृथक् ।
एकीकृत्य प्रयुञ्जीत तां क्रियां कफपित्तजे ॥ ४२ ॥
पटोलत्रिफलारिष्टक्वाथं मधुयुतं पिबेत् ।
पित्तश्लेष्मज्वरच्छर्दिदाहशूलोपशान्तये ॥ ४३ ॥
रसोनं मधुसंमिश्रं पिबेत्प्रातः प्रकाङ्क्षितः ।
वातश्लेष्मभवं शूलं विहन्तुं वह्निदीपनम् ॥ ४४ ॥
124-b
विश्वोरुबूकदशमूलयवाम्भसा तु
द्विक्षारहिङ्गुलवणत्रयपुष्कराणाम् ।
चूर्णं पिबेद्धृदयपार्श्वकटीग्रहाम-
पक्वाशयांसभृशरुग्ज्वरगुल्मशूली ॥ ४५ ॥
क्वाथेन चूर्णपानं यत्तत्र क्वाथप्रधानता ।
प्रवर्तते न तेनात्र चूर्णापेक्षी चतुर्द्रवः ॥ ४६ ॥
चूर्णं समं रुचकहिङ्गुमहौषधानां
शुण्ठ्याम्बुना कफसमीरणसम्भवासु ।
हृत्पार्श्वपृष्ठजठरार्तिविषूचिकासु
पेयं तथा यवरसेन तु विड्विबन्धे ॥ ४७ ॥
समं शुण्ठ्यम्बुनेत्येवं योजना क्रियते बुधैः ।
तेनाल्पमानमेवात्र हिङ्गु संपरिदीयते ॥ ४८ ॥
१०हिङ्गु सौवर्चलं पथ्याबिडसैन्धवतुम्बुरु ।
पौष्करं च पिबेच्चूर्णं दशमूलयवाम्भसा ॥ ४९ ॥
पार्श्वहृत्कटिपृष्ठांसशूले तन्त्रापतानके ।
शोथे श्लेषामसेके च कर्णरोगे च शस्यते ॥ ५० ॥
एरण्डबिल्वबृहतीद्वयमातुलुङ्ग-
पाषाणभित्त्रिकटुमूलकृतः कषायः ।
सक्षारहिङ्गुलवणो रुबुतैलमिश्रः
श्रोण्यंसमेढ्रहृदयस्तनरुक्षु पेयः ॥ ५१ ॥
125-a
११हिङ्गु त्रिकटुकं कुष्टं यवक्षारोऽथ सैन्धवम् ।
मातुलुङ्गरसोपेतं प्लीहशूलापहं रजः ॥ ५२ ॥
दग्धमनिर्गतधूमं
मृगशृङ्गं गोघृतेन सह पीतम् ।
हृदयनितम्बजशूलं
हरति शिखी दारुनिवहमिव ॥ ५३ ॥
क्रिमिरिपुचूर्णं लीढं स्वरसेन वङ्गसेनस्य ।
क्षपयत्यचिरान्नियतं लेहोऽजीर्णोद्भवं शूलम् ॥ ५४ ॥
विदारीदाडिमरसः सव्योषलवणान्वितः ।
क्षौद्रयुक्तो जयत्याशु शूलं दोषत्रयोद्भवम् ॥ ५५ ॥
१२एरण्डफलमूलानि बृहतीद्वयगोक्षुरम् ।
पर्णिन्यः सहदेवी च सिंहपुच्छी क्षुरालिका ॥ ५६ ॥
तुल्यैरेतैः शृतं तोयं यवक्षारयुतं पिबेत् ।
पृथग्दोषभवं शूलं हन्यात्सर्वभवं तथा ॥ ५७ ॥
125-b
१३गोमूत्रसिद्धं मण्डूरं त्रिफलाचूर्णसंयुतम् ।
विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम् ॥ ५८ ॥
शङ्खचूर्णं सलवणं सहिङ्गुव्योषसंयुतम् ।
उष्णोदकेन तत्पीतं शूलं हन्ति त्रिदोषजम् ॥ ५९ ॥
तीक्ष्णायश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम् ।
प्रयोज्यं मधुसर्पिर्भ्यां सर्वं शूलनिवारणम् ॥ ६० ॥
मूत्रान्तःपाचितां शुद्धां लौहचूर्णसमन्विताम् ।
सगुडामभयामद्यात्सर्वशूलप्रशान्तये ॥ ६१ ॥
१४पिप्पली नागरं बिल्वं कारवीचव्यचित्रकम्
हिङ्गुदाडिमवृक्षाम्लवचाक्षाराम्लवेतसम् ॥ ६२ ॥
वर्षाभूकृष्णलवणमजाजीबीजपूरकम् ।
दधि त्रिगुणितं सर्पिस्तत्सिद्धं दाधिकं स्मृतम् ॥ ६३ ॥
गुल्मार्शःप्लीहहृत्पार्श्वशूलयोनिरुजापहम् ।
दोषसंशमनं श्रेष्ठं दाधिकं परमं स्मृतम् ॥ ६४ ॥
१५कम्बलावृतगात्रस्य प्राणायामं प्रकुर्वतः ।
कटुतैलाक्तशक्तूनां धूपः शूलहरः परः ॥ ६५ ॥
व्यायामं मैथुनं मद्यं लवणं कटुवैदलम् ।
वेगरोधं शुचं क्रोधं वर्जयेच्छूलवान्नरः ॥ ६६ ॥