Adhikāra 27

126-a
वमनं तिक्तमधुरैर्विरेकश्चापि शस्यते ।
बस्तयश्च हिताः शूले परिणामसमुद्भवे ॥ १ ॥
विडङ्गतण्डुलव्योषं त्रिवृद्दन्ती सचित्रकम् ।
सर्वाण्येतानि संस्कृत्य सूक्ष्मचूर्णानि कारयेत् ॥ २ ॥
गुडेन मोदकं कृत्वा भक्षयेत्प्रातरुत्थितः ।
उष्णोदकानुपानं तु दद्यादग्निविवर्धनम् ॥ ३ ॥
जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ।
नागरतिलगुडकल्कं
पयसा संसाध्य यः पुमानद्यात् ॥ ४ ॥
उग्रं परिणतिशूलं
तस्यापैति त्रिसप्तरात्रेण ।
शम्बूकजं भस्म पीतं जलेनोष्णेन तत्क्षणात् ॥ ५ ॥
पक्तिजं विनिहन्त्येतच्छूलं विष्णुरिवासुरान् ।
अक्षधात्र्यभयाकृष्णाचूर्णं मधुयुतं लिहेत् ॥ ६ ॥
दध्ना लूनसारेणाद्यात्सतीलयवशक्तुकान् ।
अचिरान्मुच्यते शूलान्नरोऽनुपरिवर्तनात् ॥ ७ ॥
तिलनागरपथ्यानां भागं शम्बूकभस्मनाम् ।
द्विभागं गुडसंयुक्तं गुडीं कृत्वाक्षभागिकाम् ॥ ८ ॥
126-b
शीताम्बुपानां पूर्वाह्णे भक्षयेत्क्षीरभोजनः ।
सायाह्ने रसकं पीत्वा नरो मुच्येत दुर्जयात् ॥ ९ ॥
परिणामसमुत्थाच्च शूलाच्चिरभवादपि ।
शम्बूकं त्र्यूषणं चैव पञ्चैव लवणानि च ॥ १० ॥
समांशां गुडिकां कृत्वा कलम्बूरसकेन वा ।
प्रातर्भोजनकाले वा भक्षयेत्तु यथाबलम् ॥ ११ ॥
शूलाद्विमुच्यते जन्तुः सहसा परिणामजात् ।
यः पिबति सप्तरात्रं
शक्तूनेकान्कलाययूषेण ॥ १२ ॥
स जयति परिणामरुजं
चिरजामपि किमुत नूतनजाम् ।
लोहचूर्णं वरायुक्तं विलीढं मधुसर्पिषा ॥ १३ ॥
परिणामशूलं शमयेत्तन्मलं वा प्रयोजितम् ।
कृष्णाभयालौहचूर्णं गुडेन सह भक्षयेत् ॥ १४ ॥
पक्तिशूलं निहन्त्येतज्जठराण्यग्निमन्दताम् ।
आमवातविकारांश्च स्थौल्यं चैवापकर्षति ॥ १५ ॥
पथ्यालोहरजः शुण्ठीचूर्णं माक्षिकसर्पिषा ।
परिणामरुजं हन्ति वातपित्तकफात्मिकाम् ॥ १६ ॥
127-a
सामुद्रं सैन्धवं क्षारो रुचकं रौमकं बिडम् ।
दन्तीलौहरजः किट्टं त्रिवृच्छूरणकं समम् ॥ १७ ॥
दधिगोमूत्रपयसा मन्दपावकपाचितम् ।
तद्यथाग्निबलं चूर्णं पिबेदुष्णेन वारिणा ॥ १८ ॥
जीर्णे जीर्णे तु भुञ्जीत मांसादिघृतसाधितम् ।
नाभिशूलं यकृच्छूलं गुल्मप्लीहकृतं च यत् ॥ १९ ॥
विद्रध्यष्ठीलिकां हन्ति कफवातोद्भवां तथा ।
शूलानामपि सर्वेपामौषधं नास्ति तत्परम् ॥ २० ॥
परिणामसमुत्थस्य विशेषेणान्तकृन्मतम् ।
नारिकेलं सतोयं च लवणेन प्रपूरितम् ॥ २१ ॥
विपक्वमग्निना सम्यक्परिणामजशूलनुत् ।
वातिकं पैत्तिकं चैव श्लैष्मिकं सान्निपातिकम् ॥ २२ ॥
मधुकं त्रिफलाचूर्णमयोरजःसमं लिहन् ।
मधुसर्पिर्युतं सम्यग्गव्यं क्षीरं पिबेदनु ॥ २३ ॥
छर्दिं सतिमिरां शूलमम्लपित्तं ज्वरं क्लमम् ।
आनाहं मूत्रसङ्गं च शोथं चैव निहन्ति सः ॥ २४ ॥
127-b
सपिप्पलीगुडं सर्पिः पचेत्क्षीरचतुर्गुणे ।
विनिहन्त्यम्लपित्तं च शूलं च परिणामजम् ॥ २५ ॥
क्वाथेन कल्केन च पिप्पलीनां
सिद्धं घृतं माक्षिकसंप्रयुक्तम् ।
क्षीरान्नपस्यैव निहन्त्यवश्यं
शूलं प्रवृद्धं परिणामसंज्ञम् ॥ २६ ॥
कोलाग्रन्थिकशृङ्गवेरचपला-
क्षारैः समं चूर्णितं
मण्डूरं सुरभीजलेऽष्टगुणिते
पक्त्वाथ सान्द्रीकृतम् ।
तं खादेदशनादिमध्यविरतौ
प्रायेण दुग्धान्नभुक्
जेतुं वातकफामयान्परिणतौ
शूलं च शूलानि च ॥ २७ ॥
कोलाग्रन्थिकसहितै-
र्विश्वौषधमागधीयवक्षारैः ।
128-a
प्रस्थमयोरजसामपि
पलिकांशैश्चूर्णितैर्मिश्रैः ॥ २८ ॥
अष्टगुणमूत्रयुक्तं
क्रमपाकात्पिण्डितां नयेत्सर्वम् ।
कोलप्रमाणा गुडिका-
स्तिस्रो भोज्यादिमध्यविरतौ च ॥ २९ ॥
रससर्पिर्यूषपयो-
मांसैरश्नन्नरो निवारयति ।
अन्नविवर्तनमन्ते
गुल्मं प्लीहाग्निसादांश्च ॥ ३० ॥
१०लोहकिट्टपलान्यष्टौ गोमूत्रार्धाढके पचेत् ।
क्षीरप्रस्थेन तत्सिद्धं पक्तिशूलहरं नृणाम् ॥ ३१ ॥
११लोहकिट्टपलान्यष्टौ गोमूत्रेऽष्टगुणे पचेत् ।
चविकानागरक्षारपिप्पलीमूलपिप्पलीः ॥ ३२ ॥
संचूर्ण्य निक्षिपेत्तस्मिन्पलांशाः सान्द्रतां गते ।
गुडिकाः कल्पयेत्तेन पक्तिशूलनिवारिणीः ॥ ३३ ॥
१२मण्डूरं शोधितं पत्रीं लोहजां वा गुडेन तु ।
भक्षयेन्मुच्यते शूलात्परिणामसमुद्भवात् ॥ ३४ ॥
संशोध्य चूर्णितं कृत्वा मण्डूरस्य पलाष्टकम् ।
शतावरीरसस्याष्टौ दध्नस्तु पयसस्तथा ॥ ३५ ॥
128-b
पलान्यादाय चत्वारि तथा गव्यस्य सर्पिषः ।
विपचेत्सर्वमैकध्यं यावत्पिण्डत्वमागतम् ॥ ३६ ॥
सिद्धं तु भक्षयेन्मध्ये भोजनस्याग्रतोऽपि वा ।
वातात्मकं पित्तभवं शूलं च परिणामजम् ॥ ३७ ॥
निहन्त्येव हि योगोऽयं मण्डूरस्य न संशयः ।
१३विडङ्गं चित्रकं चव्यं त्रिफला त्र्यूषणानि च ॥ ३८ ॥
नवभागानि चैतानि लोहकिट्टसमानि च ।
गोमूत्रं द्विगुणं दत्वा मूत्रार्धिकगुडान्वितम् ॥ ३९ ॥
शनैर्मृद्वग्निना पक्त्वा सुसिद्धं पिण्डतां गतम् ।
स्निग्धे भाण्डे विनिक्षिप्य भक्षयेत्कोलमात्रया ॥ ४० ॥
प्राङ्मध्यादिक्रमेणैव भोजनस्य प्रयोजितम् ।
योगोऽयं शमयत्याशु पक्तिशूलं सुदारुणम् ॥ ४१ ॥
कामलां पाण्डुरोगं च शोथं मन्दाग्नितामपि ।
अर्शांसि ग्रहणीदोषं क्रिमिगुल्मोदराणि च ॥ ४२ ॥
नाशयेदम्लपित्तं च स्थौल्यं चैवापकर्षति ।
वर्जयेच्छुष्कशाकानि विदाह्यम्लकटूनि च ॥ ४३ ॥
पक्तिशूलान्तको ह्येष गुडीमण्डूरसंज्ञकः ।
शूलार्तानां कृपाहेतोस्तारया परिकीर्तितः ॥ ४४ ॥
129-a
१४वशिरं श्वेतवाट्यालं मधुपर्णी मयूरकम् ।
तण्डुलीयं च कर्षार्धं दत्त्वाधश्चोर्ध्वमेव च ॥ ४५ ॥
पाक्यं सुजीर्णं मण्डूरं गोमूत्रेण दिनद्वयम् ।
अन्तर्बाष्पमदग्धं च तथा स्थाप्यं दिनत्रयम् ॥ ४६ ॥
विचूर्ण्य द्विगुणेनैव गुडेन सुविमर्दितम् ।
भोजनस्यादिमध्यान्ते भक्ष्यं कर्षं त्रिभागतः ॥ ४७ ॥
तक्रानुपानं वर्ज्यं च वार्क्षमम्लकमत्र तु ।
आम्लपित्ते च शूले च हितमेतद्यथामृतम् ॥ ४८ ॥
१५पथ्याचूर्णं द्विपलं
गन्धकसारं च लोहकिट्टं च ।
शुद्धरसस्यार्धपलं
भृङ्गस्य रसं च केशराजस्य ॥ ४९ ॥
प्रस्थोन्मितं च दत्वा
लौहे पात्रेऽथ दण्डसंघृष्टम् ।
शुष्कं घृतमधुयुक्तं
मृदितं स्थाप्यं च भाण्डके स्निग्धे ॥ ५० ॥
उपयुक्तमेतदचिरा-
न्निहन्ति कफपित्तजान्रोगान् ।
शूलं तथाम्लपित्तं
ग्रहणीमपि कामलामुग्राम् ॥ ५१ ॥
129-b
१६अक्षामलकशिवानां
स्वरसैः पक्वं सुलोहजं चूर्णम् ।
सगुडं यद्युपभुङ्क्ते
मुञ्चति सद्यस्त्रिदोषजं शूलम् ॥ ५२ ॥
१७लोहस्य रजसो भागस्त्रिफलायास्तथा त्रयः ।
गुडस्याष्टौ तथा भागा गुडान्मूत्रं चतुर्गुणम् ॥ ५३ ॥
एतत्सर्वं च विपचेद्गुडपाकविधानवित् ।
लिहेच्च तद्यथाशक्ति क्षये शूले च पाकजे ॥ ५४ ॥
१८धात्रीचूर्णस्याष्टौ
पलानि चत्वारि लोहचूर्णस्य ।
यष्टीमधुकरजश्च
द्विपलं दद्यात्सदोपले घृष्टम् ॥ ५५ ॥
अमृताक्वाथेनैत-
च्चूर्णं भाव्यं च सप्ताहम् ।
चण्डातपेषु शुष्कं
भूयः पिष्ट्वा नवे घटे स्थाप्यम् ॥ ५६ ॥
घृतमधुना सह युक्तं
भुक्त्वादौ मध्यतस्तथान्ते च ।
त्रीनपि वारान्खादे-
त्पथ्यं दोषानुबन्धेन ॥ ५७ ॥
भक्तस्यादौ नाशयति
व्याधीन्पित्तानिलोद्भवान्सद्यः ।
मध्येऽन्नविष्टम्भं
जयति नृणां संविदह्यते नान्नम् ॥ ५८ ॥
पानान्नकृतान्रोगा-
न्भुक्त्यन्ते शीलितं जयति ।
130-a
एवं जीर्यति चान्ने
निहन्ति शूलं नृणां सुकष्टमपि ॥ ५९ ॥
हरति सहसा युक्तो
योगश्चायं जरत्पित्तम् ।
चक्षुष्यः पलितघ्नः
कफपित्तसमुद्भवाञ्जयेद्रोगान् ॥ ६० ॥
प्रसादयत्यपि रक्तं
पाण्डुत्वं कामलां जयति ।
१९तनूनि लोहपत्राणि तिलोत्सेधसमानि च ॥ ६१ ॥
कशिकामूलकल्केन संलिप्य सर्षपेण वा ।
विशोष्य सूर्यकिरणैः पुनरेवावलेपयेत् ॥ ६२ ॥
त्रिफलाया जले ध्मातं वापयेच्च पुनः पुनः ।
ततः संचूर्णितं कृत्वा कर्पटेन तु छानयेत् ॥ ६३ ॥
भक्षयेन्मधुसर्पिर्भ्यां यथाग्न्येतत्प्रयोगतः ।
माषकं त्रिगुणं वाथ चतुर्गुणमथापि वा ॥ ६४ ॥
छागस्य पयसः कुर्यादनुपानमभावतः ।
गवां घृतेन दुग्धेन चतुःषष्टिगुणेन च ॥ ६५ ॥
पक्तिशूलं निहन्त्येतन्मासेनैकेन निश्चितम् ।
लोहामृतमिदं श्रेष्ठं ब्रह्मणा निर्मितं पुरा ॥ ६६ ॥
ककारपूर्वकं यच्च यच्चाम्लं परिकीर्तितम् ।
सेव्यं तन्न भवेदत्र मांसं चानूपसम्भवम् ॥ ६७ ॥
130-b
२०स्विन्नपीडितकूष्माण्डात्तुलार्धं मृष्टमाज्यतः ।
प्रस्थार्धे खण्डतुल्यं तु पचेदामलकीरसात् ॥ ६८ ॥
प्रस्थे सुस्विन्नकूष्माण्डरसप्रस्थे विघट्टयन् ।
दर्व्या पाकं गते तस्मिंश्चूर्णीकृत्य विनिक्षिपेत् ॥ ६९ ॥
द्वे द्वे पले कणाजाजीशुण्ठीनां मरिचस्य च ।
पलं तालीसधन्याकचातुर्जातकमुस्तकम् ॥ ७० ॥
कर्षप्रमाणं प्रत्येकं प्रस्थार्धं माक्षिकस्य च ।
पक्तिशूलं निहन्त्येतद्दोषत्रयभवं च यत् ॥ ७१ ॥
छर्द्यम्लपित्तमूर्च्छाश्च श्वासकासावरोचकम् ।
हृच्छलं रक्तपित्तं च पृष्ठशूलं च नाशयेत् ।
रसायनमिदं श्रेष्ठं खण्डामलकसंज्ञितम् ॥ ७२ ॥
२१कुडवमितमिह स्यान्नारिकेलं सुपिष्टं
पलपरिमितसर्पिःपाचितं खण्डतुल्यम् ।
131-a
निजपयसि तदेतत्प्रस्थमात्रे विपक्वं
गुडवदथ सुशीते शाणभागान्क्षिपेच्च ॥ ७३ ॥
धन्याकपिप्पलिपयोदतुगाद्विजीरा-
ञ्शाणं त्रिजातमिभकेशरवद्विचूर्ण्य ।
हन्त्यम्लपित्तमरुचिं क्षयमस्रपित्तं
शूलं वमिं सकलपौरुषकारि हारि ॥ ७४ ॥
२२कलायचूर्णभागौ द्वौ लोहचूर्णस्य चापरः ।
कारवेल्लपलाशानां रसेनैव विमर्दितः ॥ ७५ ॥
कर्षमात्रां ततश्चैकां भक्षयेद्गुटिकां नरः ।
मण्डानुपानात्सा हन्ति जरत्पित्तं सुदारुणम् ॥ ७६ ॥
लिह्याद्वा त्रैफलं चूर्णमयश्चूर्णसमन्वितम् ।
यष्टीचूर्णेन वा युक्तं लिह्यात्क्षौद्रेण तद्गदे ॥ ७७ ॥
पित्तान्तं वमनं कृत्वा कफान्तं च विरेचनम् ।
अन्नद्रवे च तत्कार्यं जरत्पित्ते यदीरितम् ॥ ७८ ॥
आमपक्वाशये शुद्धे गच्छेदन्नद्रवः शमम् ।
माषेण्डरी? सतुषिका स्विन्ना सर्पिर्युता हिता ॥ ७९ ॥
गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम् ।
ससितं शीतदुग्धेन मृदितं वा हितं मतम् ॥ ८० ॥
शालितण्डुलमण्डं वा कवोष्णं सिक्थवर्जितम् ।
वाट्यं क्षीरेण संसिद्धं घृतपूरं सशर्करम् ॥ ८१ ॥
शर्करां भक्षयित्वा वा क्षीरमुत्क्वथितं पिबेत् ।
पटोलपत्रयूषेण खादेच्चणकशक्तुकान् ॥ ८२ ॥
अन्नद्रवे जरत्पित्ते वह्निर्मन्दो भवेद्यतः ।
तस्मादत्रान्नपानानि मात्राहीनानि कल्पयेत् ॥ ८३ ॥