126-b
शीताम्बुपानां पूर्वाह्णे भक्षयेत्क्षीरभोजनः ।
सायाह्ने रसकं पीत्वा नरो मुच्येत दुर्जयात् ॥ ९ ॥
परिणामसमुत्थाच्च शूलाच्चिरभवादपि ।
शम्बूकं त्र्यूषणं चैव पञ्चैव लवणानि च ॥ १० ॥
समांशां गुडिकां कृत्वा कलम्बूरसकेन वा ।
प्रातर्भोजनकाले वा भक्षयेत्तु यथाबलम् ॥ ११ ॥
शूलाद्विमुच्यते जन्तुः सहसा परिणामजात् ।
यः पिबति सप्तरात्रं
शक्तूनेकान्कलाययूषेण ॥ १२ ॥
स जयति परिणामरुजं
चिरजामपि किमुत नूतनजाम् ।
लोहचूर्णं वरायुक्तं विलीढं मधुसर्पिषा ॥ १३ ॥
परिणामशूलं शमयेत्तन्मलं वा प्रयोजितम् ।
कृष्णाभयालौहचूर्णं गुडेन सह भक्षयेत् ॥ १४ ॥
पक्तिशूलं निहन्त्येतज्जठराण्यग्निमन्दताम् ।
आमवातविकारांश्च स्थौल्यं चैवापकर्षति ॥ १५ ॥
पथ्यालोहरजः शुण्ठीचूर्णं माक्षिकसर्पिषा ।
परिणामरुजं हन्ति वातपित्तकफात्मिकाम् ॥ १६ ॥