Adhikāra 30

140-b
वातोपसृष्टे हृदये वामयेत्स्निग्धमातुरम् ।
द्विपञ्चमूलीक्वाथेन सस्नेहलवणेन च ॥ १ ॥
पिप्पल्येलावचाहिङ्गुयवक्षारोऽथ सैन्धवम् ।
सौवर्चलमथो शुण्ठीमजमोदावचूर्णितम् ॥ २ ॥
फलधान्याम्लकौलत्थदधिमद्यासवादिभिः ।
पाययेच्छुद्धदेहं च स्नेहेनान्यतमेन वा ॥ ३ ॥
जागरं वा पिबेदुष्णं कषायं चाग्निवर्धनम् ।
कासश्वासानिलहरं शूलहृद्रोगनाशनम् ॥ ४ ॥
श्रीपर्णीमधुकक्षौद्रसितागुडजलैर्वमेत् ।
पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् ॥ ५ ॥
घृतं कषायांश्चोद्दिष्टान्पित्तज्वरविनाशनान् ॥ ६ ॥
141-a
शीताः प्रदेहाः परिषेचनानि
तथा विरेको हृदि पित्तदुष्टे ।
द्राक्षासिताक्षौद्रपरूषकैः स्या-
च्छुद्धे च पित्तापहमन्नपानम् ॥ ७ ॥
पिष्ट्वा पिबेद्वापि सिताजलेन ।
यष्ट्याह्वयं तिक्तकरोहिणीं च ॥ ८ ॥
अर्जुनस्य त्वचा सिद्धं क्षीरं योज्यं हृदामये ।
सितया पञ्चमूल्या वा बलया मधुकेन वा ॥ ९ ॥
घृतेन दुग्धेन गुडाम्भसा वा
पिबन्ति चूर्णं ककुभत्वचो ये ।
हृद्रोगजीर्णज्वररक्तपित्तं
हत्वा भवेयुश्चिरजीविनस्ते ॥ १० ॥
वचानिम्बकषायाभ्यां वान्तं हृदि कफोत्थिते ।
वातहृद्रोगहृच्चूर्णं पिप्पल्यादि च योजयेत् ॥ ११ ॥
141-b
त्रिदोषजे लङ्घनमादितः स्या-
दन्नं च सर्वेषु हितं विधेयम् ।
हीनाधिमध्यत्वमवेक्ष्य चैव
कार्यं त्रयाणामपि कर्म शस्तम् ॥ १२ ॥
चूर्णं पुष्करजं लिह्यान्माक्षिकेण समायुतम् ।
हृच्छूलकासश्वासघ्नं क्षयहिक्कानिवारणम् ॥ १३ ॥
तैलाज्यगुडविपक्वं
गौधूमं वापि पार्थजं चूर्णं ।
पिबति पबोऽनुचयं स
भवति जितसकलहृद्रुजः पुरुषः ॥ १४ ॥
गोधूमककुभचूर्णं
छागपयोगव्यसर्पिषि विपक्वम् ।
मधुशर्करासमेतं
शमयति हृद्रोगमुद्धतं पुंसाम् ॥ १५ ॥
मूलं नागवलायास्तु चूर्णं दुग्धेन पाययेत् ।
हृद्रोगश्वासकासघ्नं ककुभस्य च वल्कलम् ॥ १६ ॥
रसायनं परं बल्यं वातजिन्मांसयोजितम् ।
संवत्सरप्रयोगेण जीवेद्वर्षशतद्वयम् ॥ १७ ॥
हिङ्गूग्रगन्धाबिडविश्वकृष्णा-
कुष्ठाभयाचित्रकयावशूकम् ।
पिबेच्च सौवर्चलपुष्कराढ्यं
यवाम्भसा शूलहृदामयेषु ॥ १८ ॥
दशमूलीकषायं तु लवणक्षारयोजितम् ।
कासं श्वासं च हृद्रोगं गुल्मं शूलं च नाशयेत् ॥ १९ ॥
142-a
पाठां वचां यवक्षारमभयामम्लवेतसम् ।
दुरालभां चित्रकं च त्र्यूषणं च पलत्रिकम् ॥ २० ॥
शठीं पुष्करमूलं च तिन्तिडीकं सदाडिमम् ।
मातुलुङ्गस्य मूलानि श्लक्ष्णचूर्णानि कारयेत् ॥ २१ ॥
सुखोदकेन मद्यैर्वा चूर्णान्येतानि पाययेत् ।
अर्शःशूलानि हृद्रोगं गुल्मं चाशु व्यषोहति ॥ २२ ॥
पुटदग्धमश्मपिष्टं
हरिणविषाणं तु सर्पिषा पिबतः ।
हृत्पृष्ठशूलमुपशम-
मुपयात्यचिरेण कष्टमपि ॥ २३ ॥
क्रिमिहृद्रोगिणं स्निग्धं भोजयेत्पिशितौदनम् ।
दध्ना च पललोपेतं त्र्यहं पश्चाद्विरेचयेत् ॥ २४ ॥
सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः ।
विडङ्गगाढं धान्याम्लं पाययेद्धितमुत्तमम् ॥ २५ ॥
क्रिमिजे च पिबेन्मूत्रं विडङ्गामयसंयुतम् ।
हृदि स्थिता पतन्त्येवमधस्तात्क्रिमयो नृणाम् ।
यवान्नं वितरेच्चास्मै सविडङ्गमतः परम् ॥ २६ ॥
मुख्यं शतार्धं च हरीतकीनां
सौबर्चलस्यापि पलद्वयं च ।
142-b
पक्वं घृतं वल्लभकेति नाम्ना
हृच्छ्वासशूलोदरमारुतघ्नम् ॥ २७ ॥
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम् ।
दर्भमूलं पृथक्पर्णी पलाशर्षभकौ स्थिरा ॥ २८ ॥
पलिकान्साधयेत्तेषां रसे क्षीरे चतुर्गुणे ।
कल्कैः स्वगुप्तर्षभकमेदाजीवन्तिजीरकैः ॥ २९ ॥
शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीविषैः ।
प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत् ॥ ३० ॥
मूत्रकृच्छ्रप्रमेहार्शःश्वासकासक्षयापहः ।
धनुःस्त्रीमद्यभाराध्वक्षीणानां बलमांसदः ॥ ३१ ॥
घृतं बलानागबलार्जुनाम्बु
सिद्धं सयष्टीमधुकल्कपादम् ।
हृदोगशूलक्षतरक्तपित्त-
कासानिलासृक् शमयत्युदीर्णम् ॥ ३२ ॥
143-a
पार्थस्य कल्कस्वरसेन सिद्धं
शस्तं घृतं सर्वहृदामयेषु ॥ ३३ ॥