Adhikāra 31

अभ्यञ्जनस्नेहनिरूहबस्ति-
स्वेदोपनाहोत्तरबस्तिसेकान् ।
स्थिरादिभिर्वातहरैश्च सिद्धा-
न्दद्याद्रसांश्चानिलमूत्रकृच्छ्रे ॥ १ ॥
अमृता नागरं धात्रीवाजिगन्धात्रिकण्टकान् ।
प्रपिबेद्वातरोगार्तः सशूली मूत्रकृच्छ्रवान् ॥ २ ॥
सेकावगाहाः शिशिराः प्रदेहा
ग्रैष्मो विधिर्बस्तिपयोविकाराः ।
द्राक्षाविदारीक्षुरसैर्घृतैश्च
कृच्छ्रेषु पित्तप्रभवेषु कार्याः ॥ ३ ॥
कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम् ।
पित्तकृच्छ्रहरं पञ्चमूलं बस्तिविशोधनम् ।
एतत्स्निग्धं पयः पीतं मेढ्रगं हन्ति शोणितम् ॥ ४ ॥
143-b
शतावरीकाशकुशश्वदंष्ट्रा
विदारिशालीक्षुकशेरुकाणाम् ।
क्वाथं सुशीतं मधुशर्कराक्तं
पिबञ्जयेत्पैत्तिकमूत्रकृच्छ्रम् ॥ ५ ॥
हरीतकीगोक्षुरराजवृक्ष-
पाषाणभिद्धन्वयवासकानाम् ।
क्वाथं पिबेन्माक्षिकसंप्रयुक्तं
कृच्छ्रे सदाहे सरुजे विबन्धे ॥ ६ ॥
गुडेनामलकं वृष्यं श्रमघ्नं तर्पणं परम् ।
पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रनिवारणम् ॥ ७ ॥
एर्वारुबीजं मधुकं सदार्वीं
पैत्ते पिबेत्तण्डुलधावनेन ।
दार्वी तथैवामलकीरसेन
समाक्षिकां पैत्तिकमूत्रकृच्छ्रे ॥ ८ ॥
क्षारोष्णतीक्ष्णोषणमन्नपानं
स्वेदो यवान्नं वमनं निरूहाः ।
तक्रं सतिक्तौषधसिद्धतैला-
न्यभ्यङ्गपानं कफमूत्रकृच्छ्रे ॥ ९ ॥
मूत्रेण सुरया वापि कदलीस्वरसेन वा ।
कफकृच्छ्रविनाशाय श्लक्ष्णं पिष्ट्वा त्रुटिं पिबेत् ॥ १० ॥
तक्रेण युक्तं शितिमारकस्य
बीजं पिबेत्कृच्छ्रविनाशहेतोः ।
पिबेत्तथा तण्डुलधावनेन
प्रवालचूर्णं कफमूत्रकृच्छ्रे ॥ ११ ॥
श्वदंष्ट्रा विश्वतोयं वा कफकृच्छ्रविनाशनम् ॥ १२ ॥
144-a
सर्वं त्रिदोषप्रभवे तु वायोः
स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम् ।
त्रिभ्योऽधिके प्राग्वमनं कफे स्यात्
पित्ते विरेकः पवने तु बस्तिः ॥ १३ ॥
बृहतीधावनीपाठायष्टीमधुकलिङ्गकाः ।
पाचनीयो बृहत्यादिः कृच्छ्रदोषत्रयापहः ॥ १४ ॥
तथाभिघातजे कुर्यात्सद्यो ब्रणचिकित्सितम् ।
मूत्रकृच्छ्रे सदा चास्य कार्या वातहरी क्रिया ॥ १५ ॥
स्वेदचूर्णक्रियाभ्यङ्गबस्तयः स्युः पुरीषजे ।
क्वाथं गोक्षुरबीजस्य यवक्षारयुतं पिबेत् ॥ १६ ॥
मूत्रकृच्छ्रं शकृज्जं च पीतं शीघ्रं निवारयेत् ॥ १७ ॥
हिता क्रिया त्वश्मरिशर्करायां
या मूत्रकृच्छ्रे कफमारुतोत्थे ॥ १८ ॥
144-b
लेह्यं शुक्रविबन्धोत्थे शिलाजतु समाक्षिकम् ।
वृष्यैर्बृंहितधातोश्च विधेयाः प्रमदोत्तमाः ॥ १९ ॥
एलाहिङ्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नरः ।
मूत्रदोषविशुद्ध्यर्थं शुक्रदोषहरं च तत् ॥ २० ॥
यन्मूत्रकृच्छ्रे विहितं तु पैत्ते
तत्कारयेच्छोणितमूत्रकृच्छ्रे ॥ २१ ॥
त्रिकण्टकारग्वधदर्भकाश-
दुरालभापर्वतभेदपथ्याः ।
निघ्नन्ति पीता मधुनाश्मरीं च
सम्प्राप्तमृत्योरपि मूत्रकृच्छ्रम् ॥ २२ ॥
कषायोऽतिबलामूलसाधितः सर्वकृच्छ्रजित् ॥ २३ ॥
एलाश्मभेदकशिलाजतुपिप्पलीनां
चूर्णानि तण्डुलजलैर्लुलितानि पीत्वा ।
यद्वा गुडेन सहितान्यवलिह्य तानि
चासन्नमृत्युरपि जीवति मूत्रकृच्छ्री ॥ २४ ॥
अयोरजः श्लक्ष्णपिष्टं मधुना सह योजितम् ।
मूत्रकृच्छ्रं निहन्त्याशु त्रिभिर्लेहैर्न संशयः ॥ २५ ॥
सितातुल्यो यवक्षारः सर्वकृच्छ्रनिवारणः ।
निदिग्धिकारसो वापि सक्षौद्रः कृच्छ्रनाशनः ॥ २६ ॥
शतावरीकाशकुशश्वदंष्ट्रा-
विदारिकेक्ष्वामलकेषु सिद्धम् ।
145-a
सर्पिः पयो वा सितया विमिश्रं
कृच्छ्रेषु पित्तप्रभवेषु योज्यम् ॥ २७ ॥
त्रिकण्टकैरण्डकुशाद्यभीरु-
कर्कारुकेक्षुस्वरसेन सिद्धम् ।
सर्पिर्गुडार्धांशयुतं प्रपेयं
कृच्छ्राश्मरीमूत्रविघातहेतोः ॥ २८ ॥
पुनर्नवामूलतुला दशमूलं शतावरी ।
बला तुरगगन्धा च तृणमूलं त्रिकण्टकम् ॥ २९ ॥
विदारीगन्धा नागाह्वगुडूच्यतिबला तथा ।
पृथग्दशपलान्भागाञ्जलद्रोणे विपाचयेत् ॥ ३० ॥
तेन पादावशेषेण घृतस्यार्धाढकं पचेत् ।
मधुकं शृङ्गवेरं च द्राक्षासैन्धवपिप्पलीः ॥ ३१ ॥
द्विपलिकाः पृथग्दद्याद्यवान्याः कुडवं तथा ।
त्रिंशद्गुडपलान्यत्र तैलस्यैरण्डजस्य च ॥ ३२ ॥
प्रस्थं दत्वा समालोड्य सम्यङ्मृद्वग्निना पचेत् ।
एतदीश्वरपुत्राणां प्राग्भोजनमनिन्दितम् ॥ ३३ ॥
राज्ञां राजसमानां च बहुस्त्रीपतयश्च ये ।
मूत्रकृच्छ्रे कटिस्तम्भे तथा गाढपुरीषिणाम् ॥ ३४ ॥
मेढ्रवङ्क्षणशूले च योनिशूले च शस्यते ।
यथोक्तानां च गुल्मानां वातशोणितकाश्च ये ॥ ३५ ॥
बल्यं रसायनं शीतं सुकुमारकुमारकम् ।
पुनर्नवाशते द्रोणो देयोऽन्येषु तथापरः ॥ ३६ ॥