155-a
वदरीपत्रकल्केन पेया काञ्जिकसाधिता ।
स्थौल्यनुत्स्यात्साग्निमन्थरसं वापि शिलाजतु ॥ १२ ॥
अमृतात्रुटिवेल्लवत्सकं
कलिङ्गपथ्यामलकानि गुग्गुलुः ।
क्रमवृद्धमिदं मधुप्लुतं
पिडकास्थौल्यभगन्दरं जयेत् ॥ १३ ॥
व्योषाग्नित्रिफलामुस्तविडङ्गैर्गुग्गुलुं समम् ।
खादन्सर्वाञ्जयेद्व्याधीन्मेदःश्लेष्मामवातजान् ॥ १४ ॥
गुग्गुलुस्तालमूली चत्रिफला खदिरं वृषम् ।
त्रिवृतालम्बुषा स्नुक्च निर्गुण्डी चित्रकं तथा ॥ १५ ॥
एषां दशपलान्भागांस्तोये पञ्चाढके पचेत् ।
पादशेषं ततः कृत्वा कषायमवतारयेत् ॥ १६ ॥
पलद्वादशकं देयं तीक्ष्णलौहं सुचूर्णितम् ।
पुराणसर्पिषः प्रस्थं शर्कराष्टपलोन्मितम् ॥ १७ ॥
पचेत्ताम्रमये पात्रे सुशीते चावतारिते ।
प्रस्थार्धं माक्षिकं देयं शिलाजतु पलद्वयम् ॥ १८ ॥
एला त्वक्च पलार्धं च विडङ्गानि पलद्वयम् ।
मरिचं चाञ्जनं कृष्णाद्विपलं त्रिफलान्वितम् ॥ १९ ॥
पलद्वयं तु काशीसं सूक्ष्मचूर्णीकृतं बुधैः ।
चूर्णं दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ॥ २० ॥