156-a
पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम् ।
स्थूलतालस्य कण्ड्वादीञ्जयेत्कफकृतान्गदान् ॥ २८ ॥
शिरीषलामज्जकहेमलोध्रै-
स्त्वग्दोषसंस्वेदहरः प्रहर्षः ।
पत्राम्बुलौहाभयचन्दनानि
शरीरदौर्गन्ध्यहरः प्रदेहः ॥ २९ ॥
वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः ।
बिल्वपत्ररसैर्वापि गात्रदौर्गन्ध्यनाशनः ॥ ३० ॥
हरीतकीलोध्रमरिष्टपत्रं
चूतत्वचो दाडिमवल्कलं च ।
एषोऽङ्गरागः कथितोऽङ्गनानां
जङ्घाकषायश्च नराधिपानाम् ॥ ३१ ॥
दलजललघुमलयभव-
विलेपनं हरति देहदौर्गन्ध्यम् ।
विमलारणालसहितं
पीतमिवालम्बुषाचूर्णम् ॥ ३२ ॥
गोमूत्रपिष्टं विनिहन्ति कुष्ठं
वर्णोज्ज्वलं गोपयसा च युक्तम् ।
कक्षादिदौर्गन्ध्यहरं पयोभिः
शस्तं वशीकृद्रजनीद्वयेन ॥ ३३ ॥
चिञ्चापत्रस्वरसम्रदितं कक्षादियोजितं जयति ।
दग्धहरिद्रोद्वर्तनमचिराद्देहस्य दौर्गन्ध्यम् ॥ ३४ ॥
हस्तपादश्रुतौ योज्यं गुग्गुलुं पञ्चतिक्तकम् ।
अथवा पञ्चतिक्ताख्यं घृतं खादेदतन्द्रितः ॥ ३५ ॥

Adhikāra 36