160-a
पुनर्नवां दार्वभयां गुडूचीं
पिबेत्समूत्रां महिषाक्षयुक्ताम् ।
त्वग्दोषशोथोदरपाण्डुरोग-
स्थौल्यप्रसेकोर्ध्वकफामयेषु ॥ ५३ ॥
गोमूत्रयुक्तं महिषीपयो वा
क्षीरं गवां वा त्रिफलाविमिश्रम् ।
क्षीरान्नभुक्केवलमेव गव्यं
मूत्रं पिबेद्वा श्वयथूदरेषु ॥ ५४ ॥
पुनर्नवा दार्वमृता पाठा बिल्वं श्वदंष्ट्रिका ।
बृहत्यौ द्वे रजन्यौ द्वे पिप्पल्यश्चित्रकं वृषम् ।
समभागानि संचूर्ण्य गवां मूत्रेण ना पिबेत् ॥ ५५ ॥
बहुप्रकारं श्वयथुं सर्वगात्रविसारिणम् ।
हन्ति शूलोदराण्यष्टौ व्रणांश्चैवोद्धतानपि ॥ ५६ ॥
पुराणं माणकं पिष्ट्वा द्विगुणीकृततण्डुलम् ।
साधितं क्षीरतोयाभ्यामभ्यसेत्पायसं ततः ॥ ५७ ॥
हन्ति वातोदरं शोथं ग्रहणीं पाण्डुतामपि ।
सिद्धो भिषग्भिराख्यातः प्रयोगोऽयं निरत्ययः ॥ ५८ ॥
दशमूलतुलार्धरसे
सक्षारैः पञ्चकोलैः पलिकैः ।
सिद्धं घृतार्धपात्रं
द्विमस्तुकमुदरगुल्मघ्नम् ॥ ५९ ॥