Adhikāra 38

शुण्ठीपुनर्नवैरण्डपञ्चमूलशृतं जलम् ।
वातिके श्वयथौ शस्तं पानाहारपरिग्रहे ।
दशमूलं सर्वथा च शस्तं वाते विशेषतः ॥ १ ॥
क्षीराशनः पित्तकृतेऽथ शोथे
त्रिवृद्गुडूचीत्रिफलाकषायम् ।
पिबेद्गवां मूत्रविमिश्रितं वा
फलत्रिकाचूर्णमथाक्षमात्रम् ॥ २ ॥
अभयादारुमधुकतिक्ता दन्ती सपिप्पली ।
पटोलं चन्दनं दार्वी त्रायमाणेन्द्रवारुणी ॥ ३ ॥
164-a
एषां क्वाथः ससर्पिष्कः श्वयथुज्वरदाहदा ।
विसर्पतृष्णासन्तापसन्निपातविषापहा ।
शीतवीर्यैर्हिमजलैरभ्यङ्गादींश्च कारयेत् ॥ ४ ॥
पुनर्नवाविश्वत्रिवृद्गुडूची-
सम्पाकपथ्यामरदारुकल्कम् ।
शोथे कफोत्थे महिषाक्षयुक्तं
मूत्रं पिबेद्वा सलिलं तथैषाम् ॥ ५ ॥
कफे तु कृष्णासिकतापुराण-
पिण्याकशिग्रुत्वगुमाप्रलेपः ।
कुलत्थशुण्ठीजलमूत्रसेक-
श्चण्डागुरुभ्यामनुलेपनं च ॥ ६ ॥
अजाजिपाठाघनपञ्चकोल-
व्याघ्रीरजन्यः सुखतोयपीताः ।
शोथं त्रिदोषं चिरजं प्रवृद्धं
निघ्नन्ति भूनिम्बमहौषधे च ॥ ७ ॥
पुनर्नवानिम्बपटोलशुण्ठी-
तिक्तामृतादार्वभयाकषायः ।
सर्वाङ्गशोथोदरकासशूल-
श्वासान्वितं पाण्डुगदं निहन्ति ॥ ८ ॥
164-b
आर्द्रकस्य रसः पीतः पुराणगुडमिश्रितः ।
अजाक्षीराशिनां शीघ्रं सर्वशोथहरो भवेत् ॥ ९ ॥
पुनर्नवादारुशुण्ठीक्वाथे मूत्रे च केवले ।
दशमूलरसे वापि गुग्गुलुः शोथनाशनः ॥ १० ॥
बिल्वपत्ररसं पूतं शोषणं श्वयथौ त्रिजे ।
विट्सङ्गे चैव दुर्नाम्नि विदध्यात्कामलास्वपि ॥ ११ ॥
गुडपिप्पलिशुण्ठीनां चूर्णं श्वयथुनाशनम् ।
आमाजीर्णप्रशमनं शूलघ्नं बस्तिशोधनम् ॥ १२ ॥
पुरो मूत्रेण सेव्येत पिप्पली वा पयोऽन्विता ।
गुडेन वाभया तुल्या विश्वं वा शोथरोगिणाम् ॥ १३ ॥
गुडार्द्रकं वा गुडनागरं वा
गुडाभयं वा गुडपिप्पलीं वा ।
कर्षाभिवृद्ध्या त्रिपलप्रमाणं
खादेन्नरः पक्षमथापि मासम् ॥ १४ ॥
शोथप्रतिश्यायगलास्यरोगान्
सश्वासकासारुचिपीनसांश्च ।
जीर्णज्वरार्शोग्रहणीविकारान्
हन्यात्तथान्यान्कफवातरोगान् ॥ १५ ॥
165-a
स्थलपद्ममयं कल्कं पयसालोड्य पाययेत् ।
प्लीहामयहरं चैव सर्वाङ्गैकाङ्गशोथजित् ॥ १६ ॥
दारुगुग्गुलुशुण्ठीनां कल्को मूत्रेण शोथजित् ।
वर्षाभूशृङ्गवेराभ्यां कल्को वा सर्वशोथजित् ॥ १७ ॥
सिंहास्यामृतभण्डाकीक्वाथं कृत्वा समाक्षिकम् ।
पीत्वा शोथं जयेज्जन्तुः श्वासं कासं वमिं ज्वरम् ॥ १८ ॥
भूनिम्बविश्वकल्कं जग्ध्वा पेयः पुनर्नवाक्वाथः ।
अपहरति नियतमाशु शोथं सर्वाङ्गगं नॄणाम् ॥ १९ ॥
शोथनुत्कोकिलाक्षस्य भस्म मूत्रेण वाम्भसा ।
क्षीरं शोथहरं दारुवर्षाभूनागरैः शृतम् ॥ २० ॥
पेयं वा चित्रकव्योषत्रिवृद्दारुप्रसाधितम् ।
पुनर्नवामूलकपित्थदारु-
छिन्नोद्भवाचित्रकमूलसिद्धाः ।
रसा यवाग्वं च पयांसि यूषाः
शोथे प्रदेया दशमूलगर्भाः ॥ २१ ॥
165-b
क्षारद्वयं स्याल्लवणानि चत्वा-
र्ययोरजो व्योषफलत्रिके च ।
सपिप्पलीमूलविडङ्गसारं
मुस्ताजमोदामरदारुबिल्वम् ॥ २२ ॥
कलिङ्गकश्चित्रकमूलपाठे
यष्ट्याह्वयं सातिविषं पलाशम् ।
सहिङ्गु कर्षं त्वथ शुष्कचूर्णं
द्रोणं तथा मूलकशुण्ठकानाम् ॥ २३ ॥
स्याद्भस्मनस्तत्सलिलेन साध्य-
मालोड्य यावद्धनमप्यदग्धम् ।
स्त्यानं ततः कोलसमां च मात्रां
कृत्वा सुशुष्कां विधिना प्रयुञ्ज्यात् ॥ २४ ॥
प्लीहोदरश्वित्रहलीमकार्शः-
पाण्ड्वामयारोचकशोथशोषान् ।
विषूचिकागुल्मगराश्मरीश्च
सश्वासकासान्प्रणुदेत्सकुष्ठान् ॥ २५ ॥
सौवर्चलं सैन्धवं च बिडमौद्भिदमेव च ।
चतुर्लवणमत्र स्याज्जलमष्टगुणं भवेत् ॥ २६ ॥
पुनर्नवाचित्रकदेवदारु-
पञ्चोषणक्षारहरीतकीनाम् ।
कल्केन पक्वं दशमूलतोये
घृतोत्तमं शोथनिषूदनं च ॥ २७ ॥
166-a
पुनर्नवाक्वाथकल्कसिद्धं शोथहरं घृतम् ।
विश्वौपधस्य कल्केन दशमूलजले शृतम् ।
घृतं निहन्याच्छ्वयथुं ग्रहणीं पाण्डुतामयम् ॥ २८ ॥
सचित्रकाधान्ययमानिपाठाः
सदीप्यकत्र्यूषणवेतसाम्लाः ।
बिल्वात्फलं दाडिमयावशूकं
सपिप्पलीमूलमथापि चव्यम् ॥ २९ ॥
पिष्ट्वाक्षमात्राणि जलाढकेन
पक्त्वा घृतप्रस्थमथोपयुञ्ज्यात् ।
अर्शांसि गुल्माञ्छ्वयथुं च कृच्छ्रं
निहन्ति वह्निं च करोति दीप्तम् ॥ ३० ॥
रसे विपाचयेत्सर्पिः पञ्चकोलकुलत्थयोः ।
पुनर्नवायाः कल्केन घृतं शोथविनाशनम् ॥ ३१ ॥
१०क्षीरं घटे चित्रककल्कलिप्ते
दध्यागतं साधु विमथ्य तेन ।
तज्जं घृतं चित्रकमूलकल्कं
तक्रेण सिद्धं श्वयथुघ्नमग्र्यम् ॥ ३२ ॥
अर्शोऽतिसारानिलगुल्ममेहां-
स्तद्धन्ति संवर्धयते बलं च ॥ ३३ ॥
166-b
११माणकक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत् ।
एकजं द्वन्द्वजं शोथं त्रिदोषं च व्यपोहति ॥ ३४ ॥
१२स्थलपद्मपलान्यष्टौ त्र्यूषणस्य चतुःपलम् ।
घृतप्रस्थं पचेदेभिः क्षीरं दत्वा चतुर्गुणम् ।
पञ्च कासान्हरेच्छीघ्रं शोथं चैव सुदुस्तरम् ॥ ३५ ॥
१३शैलेयकुष्टागुरुदारुकौन्ती-
त्वक्पद्मकैलाबुपलाशमुस्तैः ।
प्रियङ्गुस्थौणेयकहेममांसी-
तालीसपत्रप्लवपत्रधान्यैः ॥ ३६ ॥
श्रीवेष्टकध्यामकपिप्पलीभिः
पृक्कानखैर्वापि यथोपलाभम् ।
वातान्वितेऽध्यङ्गमुशन्ति तैलं
सिद्धं सुपिष्टैरपि च प्रदेहम् ॥ ३७ ॥
१४शुष्कमूलकवर्षाभूदारुरास्नामहौषधैः ।
पक्वमभ्यञ्जनात्तैलं सशूलं श्वयथुं जयेत् ॥ ३८ ॥
167-a
१५पुनर्नवामृतादरुदशमूलरसाढके ।
आर्द्रकस्वरसे प्रस्थे गुडस्य तु तुलां पचेत् ॥ ३९ ॥
तत्सिद्धं व्योषचव्यैलात्वक्पलैः कार्षिकैः पृथक् ।
चूर्णीकृतैः क्षिपेच्छीते मधुनः कुडवं लिहेत् ॥ ४० ॥
लेहः पौनर्नवो नाम शोथशूलनिषूदनः ।
श्वासकासाऽरुचिहरो बलवर्णाग्निवर्धनः ॥ ४१ ॥
१६दशमूलकषायस्य कंसे पथ्याशतं पचेत् ।
तुलां गुडाद्धने दद्याद्व्योषक्षारं चतुःपलम् ॥ ४२ ॥
त्रिसुगन्धं सुवर्णांशं प्रस्थार्धं मधुनो हिमे ।
दशमूलीहरीतक्यः शोथान्हन्युः सुदारुणान् ॥ ४३ ॥
ज्वरारोचकगुल्मार्शोमेहपाण्डूदरामयान् ।
प्रत्येकमेककर्षांशं त्रिसुगन्धमितो भवेत् ॥ ४४ ॥
कंसहरीतकी चैषा चरके पठ्यतेऽन्यथा ।
एतन्मानेन तुल्यत्वं तेन तत्रापि वर्ण्यते ॥ ४५ ॥
167-b
१७द्विपञ्चमूलस्य पचेत्कषाये
कंसेऽभयानां च शतं गुडाच्च ।
लेहे सुसिद्धे च विनीय चूर्णं
व्योषत्रिसौगन्ध्यमुषास्थिते च ॥ ४६ ॥
प्रस्थार्धमात्रं मधुनः सुशीते
किंचिच्च चूर्णादपि यावशूकात् ।
एकाभयां प्राश्य ततश्च लेहा-
च्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम् ॥ ४७ ॥
कासज्वरारोचकमेहगुल्मा-
न्प्लीहत्रिदोषोद्भवपाण्डुरोगान् ।
कार्श्यामवातावसृगम्लपित्तं
वैवर्ण्यमूत्रानिलशुक्रदोषान् ॥ ४८ ॥
अत्र व्याख्यान्तरं नोक्तं
व्याख्या पूर्वैव यच्छुभा ॥ ४९ ॥
१८लेपोऽरुष्करशोथं
निहन्ति तिलदुग्धमधुनवनीतैः ।
तत्तरुतलमृद्भिर्वा
शालदलैर्वा तु न चिरेण ॥ ५० ॥
शोथे विषनिमित्ते तु विषोक्ता सम्मता क्रिया ॥ ५१ ॥
ग्राम्यजानूपं पिशितलवणं शुष्कशाकं नवान्नं
गौडं पिष्टान्नं दधि सकृशरं विज्जलं मद्यमम्लम् ।
धानावल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नं चारात्रौ श्वयथुगदवान्वर्जयेन्मैथुनं च ॥ ५२ ॥