169-b
मूलं बिल्वकपित्थयोररलुकस्याग्नेर्बृहत्योर्द्वयोः ।
श्यामापूतिकरञ्जशिग्रुकतरोर्विश्वौषधारुष्करम् ।
कृष्णाग्रन्थिकचव्यपञ्चलवणक्षाराजमोदान्वितं
पीतं काञ्जिककोष्णतोयमथितं चूर्णीकृतं ब्रध्ननुत् ॥ २२ ॥
अविक्षीरेण गोधूमकल्कं कुन्दुरुकस्य वा ।
प्रलेपनं सुखोष्णं स्याद्ब्रध्नशूलहरः परः ॥ २३ ॥
मृतमात्रे तु वै काके विशस्ते संप्रवेशयेत् ।
ब्रध्नं मुहूर्तं मेधावी तत्क्षणादरुजं भवेत् ॥ २४ ॥
अजाजी हपुषा कुष्टं गोधूमं बदराणि च ।
काञ्जिकेन समं पिष्ट्वा कुर्याद्ब्रध्नप्रलेपनम् ॥ २५ ॥
सैन्धवं मदनं कुष्टं शताह्वां निचुलं वचाम् ।
ह्रीवेरं मधुकं भार्गी देवदारु सनागरम् ॥ २६ ॥
कट्फलं पौष्करं मेदां चविकं चित्रकं शठीम् ।
विडङ्गातिविषे श्यामां रेणुकां नलिनीं स्थिराम् ॥ २७ ॥
बिल्वाजमोदे कृष्णां च दन्तीरास्ने प्रपिष्य च ।
साध्यमेरण्डजं तैलं तैलं वातविकारनुत् ॥ २८ ॥
ब्रध्नोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान् ।
आनाहमश्मरीं चैव हन्यात्तदनुवासनात् ।
घृतं सौरेश्वरं योज्यं ब्रध्नवृद्धिनिवृत्तये ॥ २९ ॥

Adhikāra 40