Adhikāra 40

170-a
यवमुद्गपटोलानि कटु रुक्षं च भोजनम् ।
छर्दिं सरक्तमुक्तिं च गलगण्डे प्रयोजयेत् ॥ १ ॥
तण्डुलोदकपिष्टेन मूलेन परिलेपितः ।
हस्तिकर्णपलाशस्य गलगण्डः प्रशाम्यति ॥ २ ॥
सर्षपाञ्शग्रुबीजानि शणबीजातसीयवान् ।
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् ॥ ३ ॥
गण्डानि ग्रन्थयश्चैव गलगण्डाः सुदारुणाः ।
प्रलेपात्तेन शाम्यन्ति विलयं यान्ति चाचिरात् ॥ ४ ॥
जीर्णकर्कारुकरसो बिडसैन्धवसंयुतः ।
नस्येन हन्ति तरुणं गलगण्डं न संशयः ॥ ५ ॥
जलकुम्भीकजं भस्म पक्वं गोमूत्रगालितम् ।
पिबेत्कोद्रवभक्ताशी गलगण्डप्रशान्तये ॥ ६ ॥
सूर्यावर्तरसोनाभ्यां गलगण्डोपनाहने ।
स्फोटास्रावैः शमं याति गलगण्डो न संशयः ॥ ७ ॥
170-b
तिक्तालाबुफले पक्वे सप्ताहमुषितं जलम् ।
नद्यं वा गलगण्डघ्नं पानात्पथ्यानुसेविनः ॥ ८ ॥
कट्फलचूर्णान्तर्गल-
वर्षो गलगण्डमपहरति ।
घृतमिश्रं पीतमिव
श्वेतगिरिकर्णिकामूलम् ॥ ९ ॥
महिषीमूत्रविमिश्रं
लोहमलसंस्थितं घटे मासम् ।
अन्तर्धूमविदग्धं
लिह्यान्मधुनाथ गलगण्डे ॥ १० ॥
जिह्वायाः पार्श्वतोऽधस्ताच्छिरा द्वादश कीर्तिताः ।
तासां स्थूलशिरे द्वेऽधश्छिन्द्यात्ते च शनैः शनैः ॥ ११ ॥
बडिशेनैव संगृह्य कुशपत्रेण बुद्धिमान् ।
स्रुते रक्ते व्रणे तस्मिन्दद्यात्सगुडमार्द्रकम् ॥ १२ ॥
भोजनं चानभिष्यन्दि यूषः कौलत्थ इष्यते ।
कर्णयुग्मबहिःसन्धिमध्याभ्यासे स्थितं च यत् ॥ १३ ॥
उपर्युपरि तच्छिन्द्याद्गलगण्डे शिरात्रयम् ।
विडङ्गक्षारसिन्धूग्ररास्नाग्निव्योषदारुभिः ॥ १४ ॥
कटुतुम्बीफलरसैः कटुतैलं विपाचयेत् ।
चिरोत्थमपि नस्येन गलगण्डं निवारयेत् ॥ १५ ॥
171-a
तैलं पिबेच्चामृतवल्लिनिम्ब-
हिंस्राह्वयावृक्षकपिप्पलीभिः ।
सिद्धं बलाभ्यां च सदेवदारु
हिताय नित्यं गलगण्डरोगी ॥ १६ ॥
माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलजः ।
गण्डमालां निहन्त्याशु चिरकालानुबन्धिनीम् ॥ १७ ॥
पिष्टा ज्येष्ठाम्बुना पेयाः काञ्चनारत्वचः शुभाः ।
विश्वभेषजसंयुक्ता गण्डमालापहाः पराः ॥ १८ ॥
आरग्वधशिफाक्षिप्रं पिष्ट्वा तण्डुलवारिणा ।
सम्यङ्नस्यप्रलेपाभ्यां गण्डमालां समुद्धरेत् ॥ १९ ॥
गण्डमालामयार्तानां नस्यकर्मणि योजयेत् ।
निर्गुण्ड्याश्च शिफां सम्यग्वारिणा परिपेषिताम् ॥ २० ॥
कोषातकीनां स्वरसेन नस्यं
तुम्ब्यास्तु वा पिप्पलिसंयुतेन ।
तैलेन वारिष्टभवेन कुर्या-
द्वचोपकुल्ये सह माक्षिकेण ॥ २१ ॥
ऐन्द्र्या वा गिरिकर्ण्या वा मूलं गोमूत्रयोगतः ।
गण्डमालां हरेत्पीतं चिरकालोत्थितामपि ॥ २२ ॥
अलम्बुषादलोद्भूतात्स्वरसाद्द्वे पले पिबेत् ।
अपच्या गण्डमालायाः कामलायाश्च नाशनः ॥ २३ ॥
गलगण्डगण्डमालाकूरण्डांश्च विनाशयेत् ।
पिष्टं ज्येष्ठाम्बुना मूलं लेपाद्ब्राह्मणयष्टिकम् ॥ २४ ॥
171-b
अभ्यङ्गान्नाशयेनॄणां गण्डमालां सुदारुणाम् ।
छुच्छुन्दर्या विपक्वं तु क्षणात्तैलवरं ध्रुवम् ॥ २५ ॥
गलगण्डापहं तैलं सिद्धं शाखोटकत्वचा ।
बिम्बाश्वमारनिर्गुण्डीसाधितं चापि नावनम् ॥ २६ ॥
निर्गुण्डीस्वरसे चाथ लाङ्गलीमूलकल्कितम् ।
तैलं नस्यान्निहन्त्याशु गण्डमालां सुदारुणम् ॥ २७ ॥
वनकार्पासिकामूलं तण्डुलैः सह योजितम् ।
पक्त्वा तु पूपिकां खादेदपचीनाशनाय तु ॥ २८ ॥
शोभाञ्जनं देवदारु काञ्जिकेन तु पेषितम् ।
कोष्णं प्रलेपतो हन्यादपचीमतिदुस्तराम् ॥ २९ ॥
सर्षपारिष्टपत्राणि दग्ध्वा भल्लातकैः सह ।
छागमूत्रेण संपिष्टमपचीघ्नं प्रलेपनम् ॥ ३० ॥
अश्वत्थकाष्ठं निचुलं गवां दन्तं च दाहयेत् ।
वराहमज्जसंयुक्तं भस्म हन्त्यपचीव्रणान् ॥ ३१ ॥
पार्ष्णिं प्रति द्वादश चाङ्गुलानि
मित्वेन्द्रबस्तिं परिवर्ज्य सम्यक् ।
विदार्य मत्स्याण्डनिभानि वैद्यो
निकृष्य जालान्यनलं विदध्यात् ॥ ३२ ॥
मणिबन्धोपरिष्टाद्वा कुर्याद्रेखात्रयं भिषक् ।
अङ्गुल्यान्तरितं सम्यगपचीनां प्रशान्तये ॥ ३३ ॥
172-a
दण्डोत्पलाभवं मूलं बद्धं पुष्येऽपचीं जयेत् ।
अपामार्गस्य वा छिन्द्याज्जिह्वातलगते शिरे ॥ ३४ ॥
व्योषं विडङ्गं मधुकं सैन्धवं देवदारु च ।
तैलमेतैः शृतं नस्यात्कृच्छ्रामप्यपचीं जयेत् ॥ ३५ ॥
१०चन्दनं साभया लाक्षा वचा कटुकरोहिणी ।
एतैस्तैलं शृतं पीतं समूलामपचीं जयेत् ॥ ३६ ॥
११गुञ्जाहयारिश्यामाकसर्षपैर्मूत्रसाधितम् ।
तैलं तु दशधा पश्चात्कणालवणपञ्चकम् ॥ ३७ ॥
मरिचैश्चूर्णितैर्युक्तं सर्वावस्थागतां जयेत् ।
अभ्यङ्गादपचीमुग्रां वल्मीकार्शोऽर्बुदव्रणान् ॥ ३८ ॥
172-b
१२ग्रन्थिष्वामेषु कुर्वीत भिषक् शोथप्रतिक्रियां ।
पक्वानापाट्य संशोध्य रोपयेद्व्रणभेषजैः ॥ ३९ ॥
हिंस्रा सरोहिण्यमृता च भार्गी
श्यामाकबिल्व्यगुरुकृष्णगन्धाः ।
गोपित्तपिष्टाः सह तालपर्ण्या
ग्रन्थौ विधेयोऽनिलजे प्रलेपः ॥ ४० ॥
जलात्मकाः पित्तकृते हितास्तु
क्षीरोदकाभ्यां परिसेचनं च ।
काकोलिबर्गस्य तु शीतलानि
पिबेत्कषायाणि सशर्कराणि ॥ ४१ ॥
द्राक्षारसेनेक्षुरसेन वापि
चूर्णं पिबेद्वापि हरीतकीनाम् ।
मधूकजम्ब्वर्जुनवेतसानां
त्वग्भिः प्रदेहानवतारयेच्च ॥ ४२ ॥
कृतेषु दोषेषु यथानुपूर्वा
ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु ।
स्विन्ने च विम्लापनमेव कुर्या-
दङ्गुष्ठरेणुदृषदीसुतैश्च ॥ ४३ ॥
१३विकङ्कतारग्वधकाकणन्ती-
काकादनीतापसवृक्षमूलैः ।
आलेपयेदेनमलाबुभार्गी-
करञ्जकालामदनैश्च विद्वान् ॥ ४४ ॥
दन्ती चित्रकमूलत्वक् सुधार्कपयसी गुडः ।
भल्लातकास्थिकासीसं लेपो भिन्द्याच्छिलामपि ॥ ४५ ॥
173-a
ग्रन्थ्यर्बुदादिजिल्लेपो मातृवाहककीटजः ।
सर्जिकामूलकक्षारः शङ्खचूर्णसमन्वितः ।
प्रलेपो विहितस्तीक्ष्णो हन्ति ग्रन्थ्यर्बुदादिकान् ॥ ४६ ॥
१४ग्रन्थीनमर्मप्रभवानपक्वा-
नुद्धृत्य वाग्निं विदधीत वैद्यः ।
क्षारेण वै तान्प्रतिसारयेत्तु
संलिख्य संलिख्य यथोपदेशम् ॥ ४७ ॥
ग्रन्थ्यर्बुदानां न यतो विशेषः
प्रदेशहेत्वाकृतिदोषदूष्यैः ।
ततश्चिकित्सेद्भिषगर्बुदानि
विधानविद्ग्रन्थिचिकित्सितेन ॥ ४८ ॥
वातार्बुदे चाप्युपनाहनानि
स्निग्धैश्च मांसैरथ वेसवारैः ।
स्वेदं विदध्यात्कुशलस्तु नाड्या
शृङ्गेण रक्तं वहुशो हरेच्च ॥ ४९ ॥
स्वेदोपनाहा मृदवस्तु पथ्याः
पित्तार्बुदे कायविरेचनानि ।
विघृष्य चोदुम्बरशाकगोजी-
पत्रैर्भृशं क्षौद्रयुतैः प्रलिम्पेत् ॥ ५० ॥
श्लक्ष्णीकृतैः सर्जरसप्रियङ्गु-
पतङ्गलोध्रार्जुनयष्टिकाह्वैः ॥ ५१ ॥
लेपनं शङ्खचूर्णेन सह मूलकभस्मना ।
कफार्बुदापहं कुर्याद्ग्रन्थ्यादिषु विशेषतः ॥ ५२ ॥
173-b
१५निष्पावपिण्याककुलत्थकल्कै-
र्मांसप्रगाढैर्दधिमर्दितैश्च ।
लेपं विदध्यात्क्रिमयो यथात्र
मुञ्चन्त्यपत्यान्यथ मक्षिका वा ॥ ५३ ॥
अल्पावशिष्टं क्रिमिभिः प्रजग्धं
लिखेत्ततोऽग्निं विदधीत पश्चात् ।
यदल्पमूलं त्रपुताम्रसीसैः
संवेष्ट्य पत्रैरथ वायसैर्वा ॥ ५४ ॥
क्षाराग्निशस्त्राण्यवतारयेच्च
मुहुर्मुहुः प्राणमवेक्ष्यमाणः ।
यदृच्छया चोपगतानि पाकं
पाकक्रमेणोपचरेद्यथोक्तम् ॥ ५५ ॥
उपोदिका रसाभ्यक्तास्तत्पत्रपरिवेष्टिताः ।
प्रणश्यन्त्यचिरान्नृणां पीडकार्बुदजातयः ॥ ५६ ॥
उपोदिका काञ्जिकतक्रपिष्टा
तयोपनाहो लवणेन मिश्रः ।
दृष्टोऽर्बुदानां प्रशमाय कैश्चि-
द्दिने दिने वा त्रिषु मर्मजानाम् ॥ ५७ ॥
लेपोऽर्बुदजिद्रम्भामोचकभस्मतुषशङ्खचूर्णकृतः ।
सरटरुधिरार्द्रकगन्धकयवविडङ्गनागरैर्वाथ ॥ ५८ ॥
स्नुहीगण्डीरिकास्वेदो नाशयेदर्बुदानि च ।
सीसकेनाथ लवणैः पिण्डारकफलेन वा ॥ ५९ ॥
हरिद्रालोध्रपत्तुङ्गगृहधूममनःशिलाः ।
मधुप्रगाढो लेपोऽयं मेदोऽर्बुदहरः परः ॥ ६० ॥
एतामेव क्रियां कुर्यादशेषां शर्करार्बुदे ॥ ६१ ॥