170-b
तिक्तालाबुफले पक्वे सप्ताहमुषितं जलम् ।
नद्यं वा गलगण्डघ्नं पानात्पथ्यानुसेविनः ॥ ८ ॥
कट्फलचूर्णान्तर्गल-
वर्षो गलगण्डमपहरति ।
घृतमिश्रं पीतमिव
श्वेतगिरिकर्णिकामूलम् ॥ ९ ॥
महिषीमूत्रविमिश्रं
लोहमलसंस्थितं घटे मासम् ।
अन्तर्धूमविदग्धं
लिह्यान्मधुनाथ गलगण्डे ॥ १० ॥
जिह्वायाः पार्श्वतोऽधस्ताच्छिरा द्वादश कीर्तिताः ।
तासां स्थूलशिरे द्वेऽधश्छिन्द्यात्ते च शनैः शनैः ॥ ११ ॥
बडिशेनैव संगृह्य कुशपत्रेण बुद्धिमान् ।
स्रुते रक्ते व्रणे तस्मिन्दद्यात्सगुडमार्द्रकम् ॥ १२ ॥
भोजनं चानभिष्यन्दि यूषः कौलत्थ इष्यते ।
कर्णयुग्मबहिःसन्धिमध्याभ्यासे स्थितं च यत् ॥ १३ ॥
उपर्युपरि तच्छिन्द्याद्गलगण्डे शिरात्रयम् ।
विडङ्गक्षारसिन्धूग्ररास्नाग्निव्योषदारुभिः ॥ १४ ॥
कटुतुम्बीफलरसैः कटुतैलं विपाचयेत् ।
चिरोत्थमपि नस्येन गलगण्डं निवारयेत् ॥ १५ ॥