Adhikāra 41

174-a
लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः ।
प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ॥ १ ॥
धूस्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः ।
प्रलेपः श्लीपदं हन्ति चिरोत्थमतिदारुणम् ॥ २ ॥
निष्पिष्टमारनालेन रूपिकामूलवल्कलम् ।
प्रलेपाच्छ्लीपदं हन्ति बद्धमूलमथो द्वढम् ॥ ३ ॥
पिण्डारकतरुसम्भब-
बन्दाकशिफा जयति सर्पिषा पीता ।
श्लीपदमुग्रं नियतं
बद्ध्वा सूत्रेण जङ्घायाम् ॥ ४ ॥
174-b
हितश्चालेपने नित्यं चित्रको देवदारु वा ।
सिद्धार्थशिग्रुकल्को वा सुखोष्णो मूत्रपेषितः ॥ ५ ॥
स्नेहस्वेदोपनाहांश्च श्लीपदेऽनिलजे भिषक् ।
कृत्वा गुल्फोपरि शिरां विध्येत्तु चतुरङ्गुले ॥ ६ ॥
गुल्फस्याधः शिरां विध्येच्छ्लीपदे पित्तसम्भवे ।
पित्तघ्नीं च क्रियां कुर्यात्पित्तार्बुदविसर्पवत् ॥ ७ ॥
मञ्जिष्ठां मधुकं रास्नां सहिंस्रां सपुनर्नवाम् ।
पिष्ट्वारणालैर्लेपोऽयं पित्तश्लीपदशान्तये ॥ ८ ॥
शिरां सुविदितां विध्येदङ्गुष्ठे श्लेष्मश्लीपदे ।
मधुयुक्तानि चाभीक्ष्णं कषायाणि पिबेन्नरः ॥ ९ ॥
पिबेत्सर्षपतैलेन श्लीपदानां निवृत्तये ।
पूतीकरञ्जच्छदजं रसं वापि यथाबलम् ॥ १० ॥
अनेनैव विधानेन पुत्रजीवकजं रसम् ।
काञ्जिकेन पिबेच्चूर्णं मूत्रैर्वा वृद्धदारजम् ॥ ११ ॥
रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः ।
वर्षोत्थं श्लीपदं हन्ति दद्रुकुष्ठं विशेषतः ॥ १२ ॥
175-a
गन्धर्वतैलभृष्टां हरीतकीं गोजलेन यः पिबति ।
श्लीपदबन्धनमुक्तो भवत्यसौ सप्तरात्रेण ॥ १३ ॥
धान्याम्लं तैलसंयुक्तं कफवातविनाशनम् ।
दीपनं चामदोषघ्नमेतच्छ्लीपदनाशनम् ॥ १४ ॥
गोधावतीमूलयुक्तां खादेन्माषेण्डरीं नरः ।
जयेच्छ्लीपदकोपोत्थं ज्वरं सद्यो न संशयः ॥ १५ ॥
श्लीपदघ्नो रसोऽभ्यासाद्गुडूच्यास्तैलसंयुतः ।
त्रिकटु त्रिफला चव्यं दार्वीवरुणगोक्षुरम् ॥ १६ ॥
अलम्बुषां गुडूचीं च समभागानि चूर्णयेत् ।
सर्वेषां चूर्णमाहृत्य वृद्धदारस्य तत्समम् ॥ १७ ॥
काञ्जिकेन च तत्पेयमक्षमात्रं प्रमाणतः ।
जीर्णे चापरिहारं स्याद्भोजनं सर्वकामिकम् ॥ १८ ॥
नाशयेच्छ्लीपदं स्थौल्यमामवातं सुदारुणम् ।
गुल्मकुष्ठानिलहरं वातश्लेष्मज्वरापहम् ॥ १९ ॥
पिप्पलीत्रिफलादारुनागरं सपुनर्नवम् ।
भागैर्द्विपलिकैरेषां तत्समं वृद्धदारकम् ॥ २० ॥
काञ्जिकेन पिबेच्चूर्णं कर्षमात्रं प्रमाणतः ।
जीर्णे चापरिहारं स्याद्भोजनं सर्वकामिकम् ॥ २१ ॥
175-b
श्लीपदं वातरोगांश्च हन्यात्प्लीहानमेव च ।
अग्निं च कुरुते घोरं भस्मकं च नियच्छति ॥ २२ ॥
कृष्णाचित्रकदन्तीनां कर्षमर्धपलं परम् ।
विंशतिश्च हरीतक्यो गुडस्य तु पलं द्वयम् ।
मधुना मोदकं खादेच्छ्लीपदं हन्ति दुस्तरम् ॥ २३ ॥
सुरसां देवकाष्ठं च त्रिकटु त्रिफले तथा ।
लवणान्यथ सर्वाणि विडङ्गान्यथ चित्रकम् ॥ २४ ॥
चविका पिप्पलीमूलं गुग्गुलुर्हपुषा वचा ।
यवाग्रजं च पाठा च शट्येला वृद्धदारुकम् ॥ २५ ॥
कल्कैश्च कार्षिकैरेभिर्घृतप्रस्थं विपाचयेत् ।
दशमूलीकषायेण धान्ययूषद्रवेण च ॥ २६ ॥
दधिमण्डसमायुक्तं प्रस्थं प्रस्थं पृथक् पृथक् ।
पक्वं स्वादुघृतं कल्कात्पिबेत्कर्षत्रयं हविः ॥ २७ ॥
श्लीपदं कफवातोक्तं मांसरक्ताश्रितं च यत् ।
मेदश्रितं च पित्तोत्थं हन्यादेव न संशयः ॥ २८ ॥
अपचीं गण्डमालां च अन्त्रवृद्धिं तथार्बुदम् ।
नाशयेद्ग्रहणीदोषं श्वयथुं गुदजानि च ॥ २९ ॥
परमग्निकरं हृद्यं कोष्ठक्रिमिविनाशनम् ।
घृतं सौरेश्वरं नाम श्लीपदं हन्ति सेवितम् ।
जीवकेन कृतं ह्येतद्रोगानीकविनाशनम् ॥ ३० ॥
176-a
विडङ्गमरिचार्केषु नागरे चित्रके तथा ।
भद्रदार्व्येलकाख्येषु सर्वेषु लवणेषु च ।
तैलं पक्वं पिबेद्वापि श्लीपदानां निवृत्तये ॥ ३१ ॥