185-b
हंसपादारिष्टपत्रं जातीपत्रं ततो रसैः ।
तत्कल्कैर्विपचेत्तैलं नाडीव्रणविरोहणम् ॥ २१ ॥

Adhikāra 45

गुदस्य श्वयथुं ज्ञात्वा विशोष्य शोधयेत्ततः ।
रक्तावसेचनं कार्यं यथा पाकं न गच्छति ॥ १ ॥
वटपत्रेष्टकाशुण्ठीगुडूच्यः सपुनर्नवाः ।
सुपिष्टाः पीडकारम्भे लेपः शस्तो भगन्दरे ॥ २ ॥
पीडकानामपक्वानामपतर्पणपूर्वकम् ।
कर्म कुर्याद्विरेकान्तं भिन्नानां वक्ष्यते क्रियाम् ॥ ३ ॥
एषणीपाटनं क्षारवह्निदाहादिकं क्रमम् ।
विधाय व्रणवत्कार्यं यथादोषं यथाक्रमम् ॥ ४ ॥
त्रिवृत्तिलानागदन्तीमञ्जिष्ठा सह सर्पिषा ।
उत्सादनं भवेदेतत्सैन्धवक्षौद्रसंयुतम् ॥ ५ ॥
रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः ।
त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः ॥ ६ ॥
कुष्ठं त्रिवृत्तिलादन्तीमागध्यः सैन्धवं मधु ।
रजनीत्रिफलातुत्थं हितं व्रणविशोधनम् ॥ ७ ॥
स्नुह्यर्कदुग्धदार्वीभिर्वर्तिं कृत्वा विचक्षणः ।
भगन्दरगतिं ज्ञात्वा पूरयेत्तां प्रयत्नतः ॥ ८ ॥
एषा सर्वशरीरस्थां नाडीं हन्यान्न संशयः ॥ ९ ॥
तिलाभयालोध्रमरिष्टपत्रं
निशावचालोध्रमगारधूमः ।
भगन्दरे नाड्युपदंशयोश्च
दुष्टव्रणे शोधनरोपणोऽयम् ॥ १० ॥