187-a
करवीरनिशादन्तीलाङ्गलीलवणाग्निभिः ।
मातुलुङ्गार्कवत्साह्वैः पचेत्तैलं भगन्दरे ॥ २५ ॥
निशार्कक्षीरसिन्ध्वग्निपुराश्वहनवत्सकः ।
सिद्धमभ्यञ्जने तैलं भगन्दरविनाशनम् ॥ २६ ॥
व्यामामं मैथुनं युद्धं पृष्ठयानं गुरूणि च ।
संवत्सरं परिहरेदुपरूढव्रणो नरः ॥ २७ ॥

Adhikāra 46

स्निग्धस्विन्नशरीरस्य ध्वजमध्ये शिराव्यधः ।
जलौकःपातनं वा स्यादूर्ध्वाधः शोधनं तथा ।
पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः ॥ १ ॥
पटोलनिम्बत्रिफलाडुगूची-
क्वाथं पिबेद्वा खदिराशनाभ्याम् ।
सगुग्गुलुं वा त्रिफलायुतं वा
सर्वोपदंशापहरः प्रयोगः ॥ २ ॥