इदं प्रकरणं दशरूपज्ञानफलम् । 49दशरूपज्ञानं किंफलमित्याह—

आनन्दनिष्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धिः ।
योऽपीतिहासादिवदाह साधुस्तस्मै नमः 50स्वादपराङ्मुखाय ॥

अत्र51 केचित्

धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥52
इत्यादिना त्रिवर्गादिव्युत्पत्तिं काव्यफलत्वेनेच्छन्ति । तन्निरासेन स्वसंवेद्यपरमानन्दरूपो53 रसास्वादो दशरूपाणां फलम्, न पुनरितिहासादिवत् त्रिवर्गादिव्युत्पत्तिमात्रमिति दर्शितम् । नम इति सोल्लुण्ठनम्54 ।

उत्तरस्य श्लोकस्य नमस्कारपर्यवसायित्वमसंगतमनुपयुक्तं च मन्वानः संगतेन सोपयोगेन च 55प्रयोजनाप्रयोजनकथनपरत्वेन तं व्याख्यास्यन् तदनुकूलां शङ्कामवतारयति इदमिति । अस्य 56हि प्रकरणस्य दशरूपक6 ज्ञानं फलमुक्तं व्रजति जनो येन वैदग्धीम्57 इति । न च दशरूपज्ञानं स्वतः फलम् । किंतु फलान्तरहेतुतया, पश्वादिवत् । 58तत् फलान्तरं कीदृशमित्यर्थः । तत्प्रदर्शनपरस्य श्लोकस्यायमर्थः । आनन्दनिष्यन्दीनि ह 59त्रिवर्गव्युत्पत्तिकराणि रूपकाणि । तत् तेषां यः साधुरल्पबुद्धिः सन्नितिहासादीनामिव 60त्रिवर्गव्युत्पत्त्यादिमात्रफलतामाह स्वादपराङ्मुखाय तस्मै नम इति । तमिमं तथा व्याख्यास्यन् यैस्त्रिवर्गव्युत्पत्तिमात्रफलत्वमुक्तं तेषां 61मूलं दर्शयति धर्मार्थकामेति । अत्र चतुर्वर्गप्रसङ्गात् पठितस्यापि मोक्षस्याभिनयशून्यतया तमनादृत्य त्रिवर्गपरतामेवास्य ग्रन्थस्य स्वरीत्या दर्शयन् तथैव पठति त्रिवर्गादिव्युत्पत्तिमिति । स्वसंवेद्येति । स्वसंवेद्यो निरतिशयसुखसंविद्रूपः परमानन्दः । स एव रसः । तस्य स्वतः प्रकाशमानस्य आस्वादो नाम अन्तःकरणे प्रतिबिम्बितस्य काव्यार्थेन तत्र संक्रान्तेन संबन्धः । तस्माद् रूपकाणां तथाविधो रसास्वाद एव फलमिति । न केवलं त्रिवर्गादिव्युत्पत्तिरेव किंतु सापीति दर्शितं मात्रशब्देन । ऋजुबुद्धीनुपच्छन्दयति नम इति सोल्लुण्ठनमिति ।

  1. N.S.P. daśarūpaṃ kiṃphalam ?

    ↩
  2. N.S.P. svādu-.

    ↩
  3. N.S.P. tatra.

    ↩
  4. भामहः १।२↩
  5. A.T.A. paramānandasvarūpo.

    ↩
  6. N.S.P. solluṇṭham.

    ↩
  7. Except T.MS. all MSS. read prayojana–kathanaparatvena.

    ↩
  8. T.MS. omits hi.

    ↩
  9. १।३↩
  10. In T.MS. tat is missing.

    ↩
  11. Tri. MS. reads ānandaniṣyandiṣv iti, and M.G.T. ānandaniṣyandīti. Both read trivargavyutpattikarāṇi ca rūpakāṇi. The particle ha is a prasiddhyarthakāvyaya, and the significance intended here seems to be this: yāni trivargavyutpattikarāṇi rūpakāṇi tāni ānandaniṣyandīni ha, ānandaniṣyandīni iti prasiddhāni (rasikasamāje). evaṃ sati tatrānandāṃśaṃ parityajya yaḥ sādhuḥ vyutpattyādimātraphalatām āha tasmai namaḥ, etc. See Vaijayantī for the meaning of ha.

    ↩
  12. Tri.MS. reads vyutpattimātraphalatām āha.

    ↩
  13. Only in T.MS. mūlam seems to be missing.

    ↩