191
निम्नप्रान्तानविरलजलान् पाणिभिस्ताडयित्वा शूर्पच्छत्रस्थगितशिरसो योषितः संचरन्ति ॥

उत्पातजो यथा—

पौलस्त्यपीनभुजसंपदुदस्यमान- कैलाससंभ्रमविलोलदृशः प्रियायाः ।
श्रेयांसि वो दिशतु निह्नुतकोपचिह्न- मालिङ्गनोत्पुलकमासितमिन्दुमौलेः ॥

अहितकृतस्त्वनिष्टदर्शनश्रवणाभ्याम् । तद्यथोदात्तराघवे—

चित्रमायः
ससंभ्रमम्

भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् ।

इत्याकुलतां नाटयति
इत्यादि । पुनः
चित्रमायः
मृगरूपं परित्यज्य विधाय विकटं वपुः ।
नीयते रक्षसानेन लक्ष्मणो युधि संशयम् ॥
रामः
वत्सस्याभयवारिधेः प्रतिभयं 879शङ्के कथं राक्षसात् त्रस्तश्चैष मुनिर्विरौति मनसश्चास्त्येव मे संभ्रमः ।
मा हासीर्जनकात्मजामिति मुहुः स्नेहाद् गुरुर्याचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥
इत्यन्तेनानिष्टप्राप्तिकृतसंभ्रमः ।

इष्टप्राप्तिकृतो यथात्रैव—

प्रविश्य पटाक्षेपेण संभ्रान्तो वानरः
वानरः

880महाराअ, एदं खु पवणणंदणागमणेण पहरिस

इत्यादि 881देवस्स हिअआणंदजणणं विअलिदं महुवणं । इत्यन्तम् ।

  1. N.S.P. manye for śaṅke.

  2. ‘महाराज, एतत् खलु पवननन्दनागमनेन प्रहर्ष’—इति च्छाया.

  3. ‘देवस्य हृदयानन्दजननं विदलितं मधुवनम्’—इति च्छाया.