तत्रालम्बनविभावो यथा—

अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रभः शृङ्गारैकनिधिः स्वयं नु मदनो मासो नु पुष्पाकारः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥812

अस्याः सर्गविधाविति । अस्या इत्यनेन813 लावण्यशृङ्गारसौन्दर्यातिशयः प्रतिपाद्यते । तथाहि अस्याः स्रष्टा प्रायेण चन्द्र एव । स हि कान्तप्रभः । विशेषेण स्रष्टापि मदन एव । स हि शृङ्गारैकरसः । उत मधुमास एव । स हि पुष्पाकरः । मुनेरेव सृष्टिकौशलमाशङ्क्य तस्य सांक्रामिकं स्वाभाविकं च कौशलं निषेधति वेदाभ्यासजड इत्यादिना । विषयव्यावृत्तकौतूहलत्वे हेतुः पुराण इति । वेदाभ्यासजडत्वे हेतुः मुनिरिति ।

  1. विक्रमो॰ १।१०
  2. Except in T.MS. in all others ity anena is not found.