196
अहमहमिकया पतन्तु कोपात् सममधुनैव किमत्र मन्मुखानि ॥

अथवा प्रस्तुतमेव तावत् सुविहितं करिष्ये ।

इति ।

अन्ये च चित्तवृत्तिविशेषा एतेषामेव विभावानुभावस्वरूपानुप्रवेशान्न पृथग्वाच्याः ।

नन्वन्येऽपि सन्ति चित्तवृत्तिविशेषा इति तेऽपि वाच्याः । तत्राह अन्ये चेति ।

अथ स्थायी—

विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः ।
आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥ ३४ ॥

सजातीयविजातीयभावान्तरैरतिरस्कृतत्वेनोपनिबध्यमानो रत्यादिः स्थायी । यथा बृहत्कथायां 898नरवाहनदत्तस्य 899मदनमञ्जर्यामनुरागः तत्तदवान्तरनायिकानुरागैरतिरस्कृतः स्थायी । यथा च मालतीमाधवे श्मशानाङ्के बीभत्सेन मालत्यनुरागस्यातिरस्कारो मम हि प्राक्तनोपलम्भसंभावितात्मजन्मनः संस्कारस्यानवरतप्रबोधात् प्रतायमानस्तद्विसदृशौः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रियतमाप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति 900वृत्तिसारूप्यतश्चैतन्यम् इत्यादिनोपनिबद्धः । तदनेन प्रकारेण विरोधिनामविरोधिनां च समावेशो न विरोधी ।

तथा हि—कथं विरोधः ? सहानवस्थानं बाध्यबाधकभावो वा ? उभयरूपो901 न तावत् । स्वादात्मनि902तस्यैकरूपत्वेनाविर्भावात् । स्थायिनां विभावादीनां903च यदि विरोधः, तत्रापि न तावत् सहानवस्थानम् । रत्याद्युपरक्ते चेतसि स्रक्सूत्रन्यायेनाविरोधिनां व्यभिचारिणां विरोधिनां चोपनिबन्धः समस्तभावकस्वसंवेदनसिद्धः । यथैव च स्वसंवेदनसिद्धस्तथैव काव्यव्यापार

  1. A.T.A. reads prākṛtasya naravāhanadattasya.

  2. N.S.P. madanamañjūṣāyām. A.T.A. gives madanamañjaryām. The name is found as Madanamañcukā in Somadeva’s Kathāsaritsāgara, VI. 8–95. Budhasvāmin’s Bṛhatkathāślokasaṃgraha has it as madanamañjukā, VII. 17.

  3. N.S.P., antarvṛtti-.

  4. N.S.P. ubhayarūpeṇāpi.

  5. This is a better reading than tādātmyasya eka-, etc. given in N.S.P.

  6. It is not clear why it is vibhāvādīnām. As he is discussing the virodha between sthāyibhāva and vyabhicāribhāva, bhāvādīnāmperhaps would be suitable. I do not know whether vyabhicārin-sare also referred to as vibhāva-s in any text.