ननु यत्रैकतात्पर्येणेतरेषां विरुद्धानामविरुद्धानां च न्यग्भूतत्वेनोपादानं तत्र भवत्वङ्गत्वेनाविरोधः । यत्र तु समप्रधानत्वेनानेकस्य भावस्योपनिबन्धनं तत्र कथम् । यथा—936

एक्कतो937 रुअइ पिआ अण्णत्तो समरतूरणिग्घोसो ।
पेम्मेण रणरसेण अ भडस्स डोलाइअं हिअअं ॥
इत्यादौ रत्युत्सादयोः,
मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ।
सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥938
इत्यादौ रतिशमयोः,
इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दृष्टात्मा स्वसुरपकृतं येन मम तत् ।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः ॥
200 इत्यादौ रतिक्रोधयोः,
अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः 939पिनह्य सहसा द्राक् पुण्डरीकस्रजः ।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब- न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥940
इत्यादावेकाश्रयत्वेन रतिजुगुप्सयोः
एक ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् ।
अन्यद् दूरनिकृष्टचापमदनक्रोधानलोद्दीपितं शंभोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥
इत्यादौ शमरतिक्रोधानाम्,
एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थं भानोर्बिम्बं 941सलिललुलितेनापरेणात्मकान्तम् ।
अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥
इत्यादौ 942शोकक्रोधयोः समप्राधान्येनोपनिबन्धः 943तत्र कथं न विरोधः ? अत्रोच्यते—तत्राप्येक एव स्थायी । तथा हि—एक्कत्तो रुअइ पिआ इत्यादौ 944थायिभूतोत्साहस्य व्यभिचारिवितर्कलक्षणहेतुसंदेहकारणतया 945करुणसंग्रामतूर्ययोरुपादानं वीरमेव पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादितम् । न च द्वयोः समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेकत्रभावो946 युज्यते । किं च संग्रामोपक्रमे947सुभटानां कार्यान्तरकरणे प्रस्तुतसंग्रामौदासीन्येन महदनौचित्यम् । अतो भर्तुः संग्रामैकरसिकतया शौर्यमेव प्रकाशयन् प्रियतमाकरुणो201 वीरमेव पुष्णाति । एवम् मात्सर्यम् इत्यादावपि चिरप्रवृत्तरतिवासनाया हेयतयोपादानाच्छमैकपरत्वम् आर्याः समर्यादम् इत्यादिना प्रकाशितमेव । एवम् इयं सा लोलाक्षी इत्यादावपि रावणस्य प्रतिनायकतया निशाचरत्वेन मायाप्रधानतया च 948रौद्रव्यभिचारिभाववितर्कहेतुतया च रतिक्रोधयोरुपादानं रौद्रपरमेव । अन्त्रैः कल्पितमङ्गलप्रतिसराः इत्यादौ 949बीभत्सैक- परत्वमेव । एकं ध्याननिमीलनात् इत्यादौ शंभोर्भावान्तरैरनाक्षिप्ततया शमस्थस्यापि 950योग्यन्तरसमाधिवैलक्षण्यप्रतिपादनेन शमैकपरतैव समाधिसमये इत्यनेन स्फुटीकृता । एकेनाक्ष्णा इत्यादौ तु समस्तमपि वाक्यं भविष्यद्विप्रलम्भविषयमिति न क्वचिदनेकतात्पर्यम् ।

यत्र तु श्लेषादिवाक्येष्वनेकतात्पर्यमपि तत्र वाक्यार्थभेदेन स्वतन्त्रतया चार्थद्वयपरतेत्यदोषः । यथा— 951

श्लाध्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित- त्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः ।
बिभ्राणां मुखमिन्दुसुन्दररुचं चन्द्रात्मचक्षुर्दधत् स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ॥
इत्यादौ । तदेवमुक्तप्रकारेण रत्याद्युपनिबन्धे सर्वत्राविरोधः । यथा वा श्रूयमाणरत्यादिपदेष्वपि वाक्येषु तत्रैव तात्पर्यं तथाग्रे दर्शयिष्यामः ।

ननु अङ्गतया 952खलु विरोधः परिहृतः । अङ्गत्वरहितानामप्यनेकेषामेकाश्रयत्वेनान्यतात्पर्यविधुराणामपि दर्शनात् स कथं परिह्रियत इति चोदयति नन्वित्यादिना । एतेष्वप्येकत्रैव तात्पर्यं कथयन् परिहरति अत्रोच्यत इति । एक्कतो रुअइ पिआ इत्यादाविति । अत्र खलु वीरो रसः । तदारम्भकस्थायी उत्साहः । स तु विभावानुभावव्यभिचारिसंयोगेन हि रसीभवति । तस्योत्साहस्य व्यभिचारिभावो यो वितर्कः सः अनवधारणात्मकत्वात् कोटिद्वयावलम्बिना संदेहेनैव समुत्पद्यते । तस्य संदेहस्योत्पादकतया202 953>करुणसंग्रामतूर्ययोरुपादानम् । अमुं चार्थं भटशब्दो व्यञ्जयतीति । अपि चैकस्मिन् वाक्ये द्वयोस्तात्पर्यार्थयोरुपादानं954 न युज्यते । न खलु समप्रधानयोः संबन्धः संभवति । अतः 955तयोरेकीकरणं नावकल्पते । 956तेनाप्येकत्रैव तात्पर्यमिति । किं च समरोपक्रमे तं विहाय शृङ्गारपरत्वमिति सुभटत्वव्याघातकरम् । अतः प्रियतमाकरुणोऽपि वीरस्याङ्गमित्याह किं च 957संग्रामोपक्रम इति । 958रौद्रव्याभिचारिभावेति । रौद्ररसस्योत्पद्यमानस्य यो व्यभिचारिभावो वितर्कः तद्धेतुतया रतिक्रोधयोरुपादानं रौद्रपरमेवेति । शमस्थस्यापीति । यद्यपि शमस्थ एव शंभुः । तथापि शमस्थयोग्यन्तरव्यावृत्तावुपयुज्यते ध्यानमिति तत्रापि शमैकपरतैव ।

ननु श्लिष्टवाक्येष्वनेकत्रापि तात्पर्यं दृश्यते959 । तत्राह यत्र त्विति । स्वतन्त्रतयेति । एकोच्चारणपठितयोर्वाक्ययोस्तात्पर्यार्थगतगुणप्राधान्याभावेऽपि न दोषः । तत्र वाक्ययोरेव भिन्नत्वादिति । ननु युक्तं श्रूयमाणेषु रत्यादिपदेषु तत्प्रतिपादकस्य वाक्यस्य तत्र तात्पर्यमिति । अश्रूयमाणे तु तस्मिन् कथं तत्र तात्पर्यम् । तेनाश्रूयमाणरत्यादिपदानां ‘विवृण्वती शैलसुतापि भावम्’ इत्यादीनां रसपरत्वं न युज्यते । तत्राह यथेति960 ।

  1. एकतो रोदिति प्रियान्यतः समरतूर्यनिर्घोषः ।
    प्रेम्णा रणरसेन च भटस्य दोलायितं हृदयम् ॥
    इति च्छाया.
  2. This verse as quoted in Dhvanyāloka and H.K.A. has a slightly different reading.

  3. शृङ्गार॰ ३६
  4. N.S.P. pinaddhaśirasā.

  5. मालती॰ ५ । १८
  6. N.S.P. sajalalulitena. This verse is attributed to Candraka in Subhāṣitāvalī. This is also found in Hanumannāṭaka (XII. 17) with the reading as raudrakāruṇyasaṃjñau instead of nartakīva pragalbhā.

  7. N.S.P. and H.K.A. read ratiśokakrodhānām. But dvau racayati rasau in the verse is clear in all the texts.

  8. N.S.P. tat kathaṃ na virodhaḥ?

  9. N.S.P. -sthāyibhūtotsāhavyabhicārilakṣaṇavitarkabhāvahetusaṃdehakāraṇatayā.

  10. A.T.A. rodanasaṃgrāma-, etc. in place of karuṇasaṃgrāma-.

  11. N.S.P. ekavākyābhāvo.

  12. N.S.P. upakrānte saṃgrāme instead of saṃgrāmopakrame, and kāryāntarakaraṇena instead of -karaṇe.

  13. N.S.P. and H.K.A. read raudravyabhicāriviṣādavibhāvavitarkahetutayā.

  14. N.S.P. and H.K.A. read hāsyarasaikaparatvam eva. But Dhanika himself posing the question with reference to this verse mentions ratijugupsayoḥ (where there is no reference to hāsa) which is also reproduced by Hemacandra. Pūrṇasarasvatī commeeting on this verse has a different view (and he also does not mention hāsa or hāsya). His remarks are:

    svayaṃ śṛṅgāritvāt teṣāṃ bībhatsarasam api śṛṅgāratvenābhimanyamānaś camatkaroti, etc. and again at the end atrāntrādipadānāṃ jugupsādyotakānām api maṅgalapratisarādipadair antarānītair aślīlatvaṃ parihṛtam. śṛṅgāriṇo hi jagad api śṛṅgāramayaṃ paśyantīti guṇatvena, viśrānter iti bhojaḥ. atra śṛṅgāraḥ pratīyate. (Though he is thus laying stress on rati instead of jugupsā like Dhanika, he too does not mention hāsyarasaikaparatvam.)

  15. N.S.P. and Hemacandra yogyantaraśamād vailakṣaṇya-, etc.

  16. In A.T.A. ślāghyāśeṣatanum, etc. is missing, and instead subhru tvaṃ kupitetyādau is found.

  17. khalu is missing in T.MS.

  18. A.T.A. (of Avaloka) reads here as rodanasaṃgrāmatūryayoḥ, But all the MSS. of Bh.Nṛ.’s commentary give it as karuṇasaṃgrāmatūryayoḥ.

  19. T.MS. reads simply dvayor upādānaṃ na yujyate.

  20. N.S.P. gives the reading of the Avaloka here as ekavākyabhāvo yujyate. A.T.A. (of Avaloka) reads ekatrabhāvo yujyate which seems to be nearer to Bh.Nṛ.’s comment here as ekīkaraṇaṃ nāvakalpate.

  21. M.G.T. and Tri.MS. read nāpy ekatraiva tātparyam iti.

  22. N.S.P. gives the Avaloka here as kiṃ copakrānte saṃgrāme, whereas Bh.Nṛ.’s pratīka and A.T.A. read what is now given in the text.

  23. See Note 270 to Daśarūpāvaloka. On the basis of the pratīkadhāraṇa and explanation by Bh.Nṛ. the different reading in the text is given.

  24. See Note 172a before. The portion of the commentary under IV.4 from sattvād eveti up to tathaivopanibandho ’pīty āha yathaiveti, which was missing in its proper place in Tri.MS., is found later on before dṛśyate tarāha here.

  25. N.S.P. reads the Avaloka here yathā vā śrūyamāṇa, etc. A.T.A. (of Avaloka) reads tathā ca aśrūyamāṇaratyādipadeṣv api vākyeṣu yathaiva tattātparyaṃ tathāgre darśayiṣyāmaḥ.