202 953>करुणसंग्रामतूर्ययोरुपादानम् । अमुं चार्थं भटशब्दो व्यञ्जयतीति । अपि चैकस्मिन् वाक्ये द्वयोस्तात्पर्यार्थयोरुपादानं954 न युज्यते । न खलु समप्रधानयोः संबन्धः संभवति । अतः 955तयोरेकीकरणं नावकल्पते । 956तेनाप्येकत्रैव तात्पर्यमिति । किं च समरोपक्रमे तं विहाय शृङ्गारपरत्वमिति सुभटत्वव्याघातकरम् । अतः प्रियतमाकरुणोऽपि वीरस्याङ्गमित्याह किं च 957संग्रामोपक्रम इति । 958रौद्रव्याभिचारिभावेति । रौद्ररसस्योत्पद्यमानस्य यो व्यभिचारिभावो वितर्कः तद्धेतुतया रतिक्रोधयोरुपादानं रौद्रपरमेवेति । शमस्थस्यापीति । यद्यपि शमस्थ एव शंभुः । तथापि शमस्थयोग्यन्तरव्यावृत्तावुपयुज्यते ध्यानमिति तत्रापि शमैकपरतैव ।

ननु श्लिष्टवाक्येष्वनेकत्रापि तात्पर्यं दृश्यते959 । तत्राह यत्र त्विति । स्वतन्त्रतयेति । एकोच्चारणपठितयोर्वाक्ययोस्तात्पर्यार्थगतगुणप्राधान्याभावेऽपि न दोषः । तत्र वाक्ययोरेव भिन्नत्वादिति । ननु युक्तं श्रूयमाणेषु रत्यादिपदेषु तत्प्रतिपादकस्य वाक्यस्य तत्र तात्पर्यमिति । अश्रूयमाणे तु तस्मिन् कथं तत्र तात्पर्यम् । तेनाश्रूयमाणरत्यादिपदानां ‘विवृण्वती शैलसुतापि भावम्’ इत्यादीनां रसपरत्वं न युज्यते । तत्राह यथेति960 ।

ते च—

रत्युत्साहजुगुप्साः क्रोधो हासः स्मयो भयं शोकः ।
शममपि केचित् प्राहुः पुष्टिर्नाट्येषु नैतस्य ॥ ३५ ॥

इह शान्तरसं प्रति वादिनामनेकविधा विप्रतिपत्तयः । तत्र केचिदाहुः—नास्त्येव शान्तो रसः । तस्याचार्येण विभावाद्यप्रतिपादनाल्लक्षणाकरणाच्च । अन्ये तु वस्तुतस्तस्याभावं वर्णयन्ति । अनादिकालप्रवाहायातरागद्वेषयोरुच्छेत्तुमशक्यत्वात् । अन्ये तु वीरबीभत्सादावन्तर्भावं वर्णयन्ति । एवं वदन्तः शममपि नेच्छन्ति । यथा तथास्तु । सर्वथा नाटकादावभिनयात्मनि स्थायित्वमस्माभिः शमस्य 961नेष्यते । तस्य समस्तव्यापारप्रविलयरूपस्याभिनयायोगात् ।

  1. A.T.A. (of Avaloka) reads here as rodanasaṃgrāmatūryayoḥ, But all the MSS. of Bh.Nṛ.’s commentary give it as karuṇasaṃgrāmatūryayoḥ.

  2. T.MS. reads simply dvayor upādānaṃ na yujyate.

  3. N.S.P. gives the reading of the Avaloka here as ekavākyabhāvo yujyate. A.T.A. (of Avaloka) reads ekatrabhāvo yujyate which seems to be nearer to Bh.Nṛ.’s comment here as ekīkaraṇaṃ nāvakalpate.

  4. M.G.T. and Tri.MS. read nāpy ekatraiva tātparyam iti.

  5. N.S.P. gives the Avaloka here as kiṃ copakrānte saṃgrāme, whereas Bh.Nṛ.’s pratīka and A.T.A. read what is now given in the text.

  6. See Note 270 to Daśarūpāvaloka. On the basis of the pratīkadhāraṇa and explanation by Bh.Nṛ. the different reading in the text is given.

  7. See Note 172a before. The portion of the commentary under IV.4 from sattvād eveti up to tathaivopanibandho ’pīty āha yathaiveti, which was missing in its proper place in Tri.MS., is found later on before dṛśyate tarāha here.

  8. N.S.P. reads the Avaloka here yathā vā śrūyamāṇa, etc. A.T.A. (of Avaloka) reads tathā ca aśrūyamāṇaratyādipadeṣv api vākyeṣu yathaiva tattātparyaṃ tathāgre darśayiṣyāmaḥ.

  9. N.S.P. niṣidhyate.