204
निर्वेदादिष्वपि तत् प्रकाममस्तीति तेऽपि रसाः ॥970
इत्यादिना रसान्तराणामप्यन्यैरभ्युपगतत्वात् स्थायिनोऽप्यन्ये कल्पिता इत्यवधारणानुपपत्तिः । अत्रोच्यते—

निर्वेदादिरताद्रूप्यादस्थायी स्वदते कथम् ।
वैरस्यायैव तत्पोषस्तेनाष्टौ स्थायिनो मताः ॥ ३६ ॥

विरुद्धाविरुद्धाविच्छेदित्वस्य निर्वेदादीनामभावादस्थायित्वम् । अत एव ते चिन्तादिव्यभिचार्यन्तरिता अपि परिपोषं नीयमाना वैरस्यमावहन्ति । न च निष्फलावसानत्वमेतेषामस्थायित्वनिबन्धनं हास्यादीनामप्यस्थायित्वप्रसङ्गात् । पारंपर्येण तु निर्वेदादीनामपि फलवत्त्वात्971 । अतोऽस्थायित्वादेवैतेषामरसता ।

ननु स्वादात्मकत्वेन हि रसत्वम् । निर्वेदादिष्वपि किं न तत् स्वीक्रियते । रसत्वं च स्थाय्यविनाभूतम् । तेन निर्वेदादीनामपि रसीभावतां स्थाय्यन्तराणि केचिद् वर्णयन्तीति 972स्थायिनोऽष्टावेवेत्यवधारणं न युज्यत इति चोदयति ननु चेति । अताद्रूप्यादित्यत्र किं तत् ताद्रूप्यं नाम यद्विरहात् निर्वेदादीनामस्थायित्वमिति व्यञ्जयति विरुद्धाविरुद्धाविच्छेदित्वस्येति । विरुद्धाविरुद्धाविच्छेदित्वं हि स्थायित्वे तन्त्रम् । तदभावादस्थायित्वमित्यर्थः । नन्वेतेषां रसत्वाभावः सामग्र्यभावेनाप्युपपद्यत इति शङ्कां शमयति चिन्तादीति । ननु फलपर्यवसायित्वाभावेनैव निर्वेदादीनामस्थायित्वम् । न तु विरुद्धाविरुद्धाविच्छेदित्वाभावेन । तत्राह न चेति । फलपर्यवसायित्वविरह एवास्थायित्वे निबन्धनं चेत् त्रिवर्गपर्यवसायित्वविरहिणां हास्यादीनामप्यस्थायित्वं प्रसज्येतेत्यर्थः । पारंपर्येण तु हास्यादीनां फलवत्त्वं विद्यत इति चेत् तन्निर्वेदादिष्वपि समानमित्याह पारंपर्येण त्विति ।

कः पुनरेतेषां काव्येनापि संबन्धः ? न तावद् वाच्यवाचकभावः, स्वशब्दैरनावेदित्वात् । न हि शृङ्गारादिरसेषु काव्येषु शृङ्गारादिशब्दा

  1. रुद्रटस्य काव्यालंकारे १२ । ४
  2. N.S.P. reads after phalavattvāt the following: ato niṣphalatvam asthāyitve prayojakaṃ na bhavati. kiṃtu viruddhair aviruddhair bhāvair atiraskṛtatvam. na ca nirvedādīnām iti na te sthāyinaḥ. tato rasatvam api na teṣām ucyate.

  3. sthāyinām aṣṭāv eveti seems to be the reading in some MSS. sthāyino ’ṣṭāv eva is perhaps better, and was intended. varṇayanti is the reading in T.MS., but in others sthāyyantarāṇi santīti is the reading.