210 कक्ष्यान्तरविषयत्वादित्यर्थः । तस्य तृतीयकक्ष्याविषयत्वमेवोपपादयति तथा हीत्यादिना ।

ननु तृतीयकक्ष्याविषयो ध्वन्योऽर्थो न संभवति । कुतः । अश्रूयमाणे ‘मास्य गृहे भुक्थाः’ इत्यर्थे तात्पर्यं येषां तेषां ‘विषं भुङ्क्ष्व’ इत्यादिवाक्यानां या तव तृतीयकक्ष्यात्वेनाभिमता सैव तात्पर्यार्थः प्रतीयते । न चात्र विषभोजनादिवाक्ये निषेधार्थस्य तात्पर्यविषयत्वं व्यञ्जकत्ववादिनापि नेष्यते । अत उभयवादिसिद्धत्वाद् विषभोजनादिवाक्ये तावन्निषेधस्यैव वाक्यार्थत्वं, न विधेः । तद्वद् वाक्यान्तरेष्वपि व्यङ्गयत्वेनाभिमतस्यैवार्थस्य वाक्यार्थत्वमित्यभिप्रायेणाह ननु चेति ।1005 सिद्धायां हि द्वितीयकक्ष्यायां तत्र वाक्यस्य विश्रान्तौ पर्यवसिता द्वितीयकक्ष्येति व्यङ्ग्यार्थस्य तृतीयकक्ष्याविषयत्वं भवति । अविश्रान्तौ तु वाक्यस्य सैव निषेधकक्ष्येत्याह स्वार्थेति ।1006 द्वितीयकक्ष्यायां विश्रान्तौ सत्यां हि तीयकक्ष्या भवति । अविश्रान्तौ तु सा द्वितीयकक्ष्यैव या तृतीयकक्ष्या तवाभिमता भवतीत्यर्थः । द्वितीयकक्ष्यायां विधौ कथं क्रियाकारकसंसर्गानुपपत्तिः । तत्राह प्रकरणादिति । तर्हि रसवद्वाक्येष्वपि द्वितीयकक्ष्यायामेव रसावगमोऽस्तु । तत्राह रसवद्वाक्येष्विति । अप्रतिष्ठमिति । दं वाक्यं स्वार्थे संसर्गकक्ष्यायामविश्रान्तम्, अत एवाप्रतिष्ठं यत्परतां विगाहते तत्रैव तत्परता न्याय्येति । यत्र त्विति । यत्र तु स्वार्थे क्रियाकारकसंसर्गकक्ष्यायां विश्रान्तं तावता1007 प्रतिष्ठां गतं तद् वाक्यमुपर्यपि प्रसर्पति तत्र सर्वत्र ध्वनिरेवेति स्थितिरिति । तत्र च व्यङ्ग्ये रसानां सर्वदा व्यङ्ग्यत्वम् । वस्त्वलंकारयोस्तु तत् क्वाचित्कमित्याह तत्र चेति1008 । तयोः क्व ध्वनित्वं1009 भवति । क्व वा न भवति । तत्राह तत्रापीति । व्यङ्ग्यत्वस्य क्वाचित्कत्वेऽपीत्यर्थः । यत्रार्थ इति । यत्रार्थः शब्दो वा तादृशमर्थं स्वं चार्थं चोपसर्जनीकृत्य व्यङ्क्तः तत् काव्यं ध्वनिरिति सूरिभिः कथितमिति । यत्र तु अन्यवाक्यार्थे प्रधाने गुणीभवन्ति रसादयः तत्र ते रसादयोऽलंकारा एव भवन्ति । न तु व्यङ्ग्या इति । एवंविधस्य ध्वनेः वाच्यार्थस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यं भवति । तयोरविवक्षितवाच्योऽपि ध्वनिः अत्यन्ततिरस्कृतवाच्यार्थत्वेन,

  1. All MSS. seem to read na ceti. But A.T.A. and the printed editions give nanu ca. So I preferred nanu ceti.

  2. All MSS. are corrupt here. Some read mere svārthe. And Bh.Nṛ.’s interpretation shows that the reading tāvad āgatam given in the previous editions is not correct. tāvatā gatam is the correct reading.

  3. All MSS. are corrupt here. Some read mere svārthe. And Bh.Nṛ.’s interpretation shows that the reading tāvad āgatam given in the previous editions is not correct. tāvatā gatam is the correct reading.

  4. Thus according to Bh.Nṛ. tara ca should be the reading in place of evaṃ sarvatra found in print as well as in MSS.

  5. One MS. gives as kva vyaṅgyatvaṃ bhavati, another as kvāpy aṅgatvam, and the third is corrupt.