205 रत्यादिशब्दा वा श्रूयन्ते । येन तेषां तत्परिपोषस्य वाभिधेयत्वं स्यात् । यत्रापि च श्रूयन्ते तत्रापि विभावादिद्वारकमेव रसत्वमेतेषां न स्वशब्दाभिधेयत्वमात्रेण । नापि लक्ष्यलक्षकभावः, तत्सामान्याभिधायिनस्तल्लक्षकस्य973 पदस्याप्रयोगात् । नापि 974लक्षितलक्षणया तत्प्रतिपत्तिः । 975 उक्तं च—

क्रियासमन्वयायोगाच्छब्दः स्वार्थे स्खलद्गतिः ।
अर्थान्तरं क्रियायोग्यं लक्षयेदिति लक्षणा ॥
इति । यथा गङ्गायां घोषः इत्यादौ । तत्र हि स्वार्थे स्रोतोलक्षणे घोषस्यावस्थानासंभवात् स्वार्थे स्खलद्गतिर्गङ्गाशब्दः 976स्वार्थाविनाभूतार्थलक्षणं तटमुपलक्षयति । अत्र तु नायकादिशब्दाः स्वार्थेऽस्खलद्गतयः कथमिवार्थान्तरमुपलक्षयेतुः ? को वा निमित्तप्रयोजनाभ्यां विना मुख्ये सत्युपचरितं प्रयुञ्चीत ? सिंहो माणवकः इत्यादिवत् । अत एव गुणवृत्त्यापि नेयं प्रतीतिः । यदि च वाच्यत्वं रसप्रतिपत्तेः स्यात् तदा केवलवाच्यवाचकभावमात्रव्युत्पन्नचेतसामप्यरसिकानां रसास्वादो भवेत् ! न च काल्पनिकत्वम्, अविगानेन सर्वसहृदयानां रसास्वादोद्भूतेः । अतः केचिदभिधालक्षणागौणीभ्यो 977वाद्यन्तरपरिकल्पितशक्तिभ्यो व्यतिरिक्तं व्यञ्जकत्वलक्षणं शब्दव्यापारं रसालंकारवस्तुविषयमिच्छन्ति । तथा हि—विभावानुभावव्यभिचारिमुखेन रसादिप्रतिपत्तिरुपजायमाना कथमिव वाच्या स्यात् ? तथा हि—
विवृण्वती शैलसुतापि भावमङ्गैः स्फुटद्बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥978
इत्यादावनुरागजन्यावस्थाविशेषानुभाववद्गिरिजालक्षणविभावोपवर्णनादेवाशब्दापि979 शृङ्गारप्रतीतिरुदेति । रसान्तरेष्वप्ययमेव न्यायः । न केवलं रसेष्वेव यावद्वस्तुमात्रेऽपि । यथा—

  1. N.S.P. sāmānyābhidhāyinas tu lakṣakasya.

  2. A.T.A. nāpi lakṣyalakṣaṇayā.

  3. The expression uktaṃ ca, and the kārikā kriyāsamanvayāyogāt, etc. the existence of which is confirmed by Bh. Nṛ.’s interpretation are missing in the N.S.P., and perhaps in other editions too. See the Laghuṭīkā and Note 210 thereon.

  4. N.S.P. reads svārthaṃ vinā bhūtārthopalakṣitam, etc.

  5. N.S.P. vācyāntaraparikalpita-, etc.

  6. कुमार० ३ । ६८
  7. A.T.A. aśābdy api instead of aśabdāpi.