206

भम धम्मिअ वीसद्धं सो सुणओ अज्ज मारिओ तेण ।
गोलाणइकच्छकुडुंगवासिणा दरिअसीहेण ॥980
इत्यादौ निषेधप्रतिपत्तिरशब्दापि व्यञ्जकशक्तिमूलैव । तथालंकारेष्वपि—
लावण्यकान्तिपरिपूरितदिङ्‏मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥
इत्यादिषु चन्द्रतुल्यं तन्वीवदनारविन्दमित्युपमाद्यलंकारप्रतिपत्तिर्व्यञ्जकत्वनिबन्धनीति981 । न चासावर्थापत्तिजन्या, 982अनुपपद्यमानार्थाभावात् । नापि वाक्यार्थत्वम्, व्यङ्ग्यस्य तृतीयकक्ष्याविषयत्वात् । तथा हि—भ्रम धार्मिक इत्यादौ 983 पदार्थविषयाभिधालक्षणप्रथमकक्ष्यातिक्रान्तः क्रियाकारकसंसर्गात्मकविधिविषयवाक्यार्थद्वितीयकक्ष्यातिक्रान्तस्तृतीयकक्ष्याविपरिवर्ती निषेधात्मा व्यङ्ग्यलक्षणोऽर्थो व्यञ्जकशक्त्यधीनः स्फुटमेवावभासते । अतो नासौ वाक्यार्थः । ननु च तृतीयकक्ष्याविषयत्वमश्रूयमाणपदार्थतात्पर्येषु विषं भुङ्‏क्ष्व इत्यादिवाक्येषु निषेधार्थविषयेषु प्रतीयत एव वाक्यार्थस्य । न चात्र व्यञ्जकत्ववादिनापि वाक्यार्थत्वं नेष्यते, तात्पर्यादन्यत्वाद् ध्वनेः । 984न—तत्र स्वार्थस्य द्वितीयकक्ष्यायामविश्रान्तस्य तृतीयकक्ष्याऽभावात् । सैव निषेधकक्ष्या । तत्र द्वितीयकक्ष्याविधौ क्रियाकारकसंसर्गानुपपत्तेः । प्रकरणात् पितरि वक्तरि पुत्रस्य विषभक्षणनियोगाभावात् । रसवद्वाक्येषु च विभावप्रतिपत्तिलक्षणद्वितीयकक्ष्यायां रसानवगमात्985 । तदुक्तम्—
अप्रतिष्ठमविश्रान्तं स्वार्थे यत्परतामिदम् ।
वाक्यं विगाहते तत्र न्याय्या तत्परतास्य सा ॥
यत्र तु स्वार्थविश्रान्तं प्रतिष्ठां 986तावता गतम् ।
तत् प्रसर्पति तत्र स्यात् सर्वत्र ध्वनिना स्थितिः ॥

  1. गाथा० २ । ७५
  2. A.T.A. vyañjananighnaiva in place of vyañjakatvanibandhanī.

  3. N.S.P. -arthāpekṣābhāvāt.

  4. N.S.P. reads here a very long compound beginning with padārthaviṣaya- and ending tṛtīyakakṣākrānto.

  5. Before tatra A.T.A. gives separately na and a dash.

  6. A.T.A. reads rasānāṃ vyaṅgyatvam eva after rasānavagamāt.

  7. N.S.P. tāvadāgatam.