207 इति । एवं सर्वत्र रसानां व्यङ्ग्यत्वमेव । वस्त्वलंकारयोस्तु क्वचिद् वाच्यत्वं क्वचिद् व्यङ्ग्यत्वम् । तत्रापि यत्र व्यङ्ग्यस्य प्राधान्येन प्रतिपत्तिस्तत्रैव ध्वनिः, अन्यत्र गुणीभूतव्यङ्ग्यत्वम् । तदुक्तम्—

यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥987
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥988

यथा—उपोढरागेण इत्यादि । तस्य च ध्वनेर्विवक्षितवाच्याविवक्षितवाच्यत्वेन द्वैविध्यम् । अविवक्षितवाच्योऽप्यत्यन्ततिरस्कृतस्वार्थोऽर्थान्तरसंक्रमितवाच्यश्चेति द्विधा । विवक्षितवाच्यश्चासंलक्षितक्रमः 989क्रमद्योत्यश्चेति द्विविधः । तत्र रसादीनामसंलक्ष्यक्रमध्वनित्वं प्राधान्यप्रतीतौ सत्याम् । अङ्गत्वेन प्रतीतौ रसवदलंकार इति ।

स्वशब्दैरिति । रत्यादिशब्दैरित्यर्थः । तेषां तत्परिपोषस्य वेति । रत्यादिस्थायिभावानां तत्परिपोषस्य शृङ्गारादेर्वेत्यर्थः । नन्वश्रवणमनियतम् । तत्राह यत्रापि चेति । ननु विभावादिप्रतिपादकशब्दाः श्रुता रत्यादीन् तत्परिपोषं वा लक्षयिष्यन्ति । तत्राह नापीति । हेतुमाह तत्सामान्याभिधायिन इति । गोत्ववत् सामान्याभिधायी शब्दः तस्य सामान्यस्य अर्थक्रियाऽयोगादर्थक्रियाक्षमां व्यक्तिं लक्षयतीति युक्तम् । इह तु स्थायिनां रसानां वा 990लक्षणामूलस्य सामान्यस्याभिधायको न कश्चिच्छब्दोऽस्ति यतो लक्षणा स्यादिति । तत्र हीति । सामान्याभिधायिनोऽपि शब्दस्यार्थक्रियार्थिभिः प्रयुक्तस्य तस्मिन् सामान्ये अर्थक्रियाऽयोगात् सर्वत्र तत्क्षमा व्यक्तिरेव स्वार्थो भवति । तेन ‘गङ्गायां घोषः’ इत्यत्र गङ्गाशब्दार्थे स्रोतसि घोषप्रतिवासासंभवेन गङ्गाशब्दः तत्प्रतिवासयोग्यं तटं लक्षयति ।

  1. ध्वन्या० १ । १३
  2. ध्वन्या० २ । ५
  3. A.T.A. saṃlakṣitakramaś ceti instead of kramadyotyaś ca.

  4. See Note 282 to Daśarūpāvaloka. I have note been able to find out the source of kārikā-kriyāsamanvayāyogāt, etc. quoted by Dhanika in this context. This kārikā is not found in N.S.P. and other editions too (?), but it is clearly given in A.T.A. and its existence is confirmed by Bh.Nṛ.’s interpretation.