208 इह तु तथाविधा लक्षितलक्षणा न 991संभवतीति । स्वार्थे स्खलद्गतिरिति । स्वार्थतामापन्ने स्रोतसि घोषप्रतिवासासंभवेन तमुल्लङ्घ्य गच्छन्नित्यर्थः । स्वार्थाविनाभूतेति ।992 स्वार्थेन स्रोतसा यस्य न विनाभावस्तादृशं तटम् । न हि गङ्गा तटविधुरा संभवतीत्यर्थः । इह तु993 नायकादिशब्दानां लक्षणामूलभूतं स्वार्थे स्खलनं न संभवति । स्वार्थस्यैवार्थक्रियाक्षमत्वेन तदुल्लङ्घनाभावादिति । किं च सर्वत्र लक्षणायां मुख्यार्थबाधस्तद्योगश्च निमित्तम् । निरूढलक्षणायां994 तु न प्रयोजनेन भवितव्यम् । अन्यत्र तु तदवश्यंभावः । इह तु न तन्निमित्तमस्ति । न च प्रयोजनम् । तेन कथं मुख्ये विद्यमानेऽप्युपचरितमर्थमुपाददीरन्नित्याह को वेति । सिंहो माणवक इत्यादिवदिति । ‘सिंहो माणवकः’ इति हि समभिव्याहारे माणवकादावसंभवात् स्वार्थस्य, सिंहशब्दः स्वार्थाविनाभूतं तद्गतं शौर्यं लक्षयित्वापि तत्राप्यनुपपन्नस्तथाविधगुणयुक्तं देवदत्तं प्रत्याययति । तत्र देवदत्तादिपदैः समभिव्याहारानुपपत्तिः शौर्यादिगुणसंबन्धश्च निमित्तम् । विशिष्टशौर्यप्रतिपत्तिः प्रयोजनम् । न हि ‘सिंहवद् देवदत्तः शूरः’ इत्युक्ते शूरतमेन सिंहेन तादात्म्यप्रतिपत्ताविव देवदत्तस्य शौर्यं प्रतीयते । ततः सर्वत्रोपचारवृत्तौ शब्दस्य निमित्तेन प्रयोजनेन च भवितव्यमित्यर्थः । यत एव निमित्तप्रयोजनादिर्नास्ति, अत एव नायकादिशब्दानां गौणी वृत्तिरपि न संभवतीत्याह अत एवेति । यद्यप्येतत् पदगामि वृत्तित्रयमपि995 न संभवति, तथापि वाक्यमेव वाक्यार्थीभूतं रसं प्रत्याययिष्यति । तत्राह यदि चेति । वाक्याद् वाक्यार्थप्रतिपत्तौ न वृत्त्यन्तरमस्ति । किं तु वाक्यगतेषु पदेषु पदार्थप्रतिपादनेन पर्यवसितेषु प्रतिपन्नाः पदार्थाः 996परस्परमाकाङ्क्षादित्रयमूलमन्वयमवाप्य वाक्यार्थत्वेन प्रतिपद्यन्ते । पदार्थप्रतिपादनस्य शब्दमूलकत्वाच्च वाक्यार्थः शाब्दो भवति । तेन रसस्य वाक्यार्थत्वे पदपदार्थव्युत्पत्तिमात्रयुक्तचेतसां पुंसां वाक्याद् रसप्रतीतिर्भवेत् । न चैवमित्यर्थः । यद्यपि रसस्य वाक्यार्थत्वं स्थापयिष्यते, तथापि वाक्यस्योद्देश्यतया रसो वाक्यार्थः । वस्तुतस्तु विभाववाक्यानां त एव वाक्यार्थाः तत्प्रतिपत्त्यवान्तरव्यापारतया रसप्रतिपत्तेः तं प्रति पदार्थस्थानीया997 उच्यन्त इति । तर्हि रसप्रतिपत्तिः सर्वथैवा

  1. After explaining the view that lakṣaṇā could not serve the purpose here, Dhanika introduces the discussion about the next part of the argument (of others) as nāpi lakṣitalakṣaṇayā tatpratipattiḥ. Bh.Nṛ. also uses the expression iha tu tathāvidhā lakṣitalakṣaṇā na saṃbhavatīti. This expression lakṣitalakṣaṇā is used in the sense of what also seems to be known as lakṣaṇalakṣaṇā mentioned by Mammaṭa (i.e. jahallakṣaṇā) connected with the example gaṅgāyāṃ ghoṣaḥ. This has nothing to do with the paraṃparā lakṣaṇā which is also termed as lakṣitalakṣaṇā by later Naiyāyika-s, which is connected with the example dvirepha. Abhinavagupta’s remarks in the Locana: tenāyaṃ lakṣaṇalakṣaṇāyā na viṣayaḥ (on I.20, N.S.P. 1891, page 54), and again tena yat kenacit lakṣitalakṣaṇeti nāma kṛtam tad vyasanamātram (ibid. on I.4, page 18), using both the expressions lakṣitalakṣaṇā and lakṣaṇalakṣaṇā seem to take them as synonymous, being connected (in both the places) with the examples like gaṅgāyāṃ ghoṣaḥ. The kārikā running as kriyāsamanvayāyogāt, etc. which is cited by Dhanika and commented on by Bh.Nṛ. is in connection with the discussion about this lakṣitalakṣaṇā.

  2. From the pratīka and comments by Bh.Nṛ. it would appear that the reading in the Avaloka here should be svārthāvinābhūtaṃ taṭaṃ (lakṣayati or upalakṣayati). A.T.A. (of Avaloka) reads svārthā- vinābhūtalakṣaṇaṃ taṭam upalakṣayati.

  3. T.MS. reads iha tu aśrutānāṃ nāyakādiśabdānām, whereas M.G.T. and Tri.MS. read iha tu śrutānām. Gr.MS. reads simply iha tu nāyakādiśabdānām.

  4. Tri.MS. reads nirūḍhalakṣaṇāyāṃ tu. T.MS. and Gr.MS. read as tadyogaś ca nimittam iti rūḍhalakṣaṇāyāṃ tu, etc. M.G.T. gives it as rūḍhilakṣaṇāyāṃ tu.

  5. About the vṛttitraya, Bh.Nṛ. explains abhidhā, lakṣaṇā, and gauṇī as the three vṛttis, as is also noted by Dhanika himself ataḥ kecid abhidhālakṣaṇāgauṇībhyaḥ, etc.

  6. For information on the abhihitānvayavāda of the Bhāṭṭa-s, see K. K. Raja’s Indian Theories of Meaning (Adyar Library Series 91, 1963).

  7. See the Avaloka on I.9 and Bh.Nṛ.’s comments thereon.