218 तस्मादपि नानुकार्ये स वर्तत इत्यर्थः । तथा व्याचष्टे काव्यार्थेति । 1043तद्वृत्तनिर्देशयोग्यं प्रकृतं किंचिदपश्यन्तं प्रत्याह काव्यार्थोपप्लाविति इति । काव्यशब्दानां साक्षात्तत्संबद्धमर्थमपश्यन्तं प्रत्युक्तम् उपप्लावित इति । प्रकृतत्वप्रकारकथनं रसिकवर्तीति । ननु शब्दोपहितानामेवालम्बनादिभाव इत्युक्तम् । तच्च रूपं वर्तमानमेवेति चोदयति अथेति । परिहरति तथापीति । यद्यपि नायकादीनां शब्दोपहितरूपाणामेवालम्बनादिभाव इत्युक्तम् । तच्च रूपं वर्तमानमेव । तथापि तस्य रूपस्य रसानुभवं प्रत्यसत्समतैव । रसानुभवितृत्वमेव 1044ह्यनुकार्यस्य निषिध्यते । सामाजिकानां च विधीयते । तदनुभवितरि शाब्दे रूपे विद्यमानेऽपि तस्य रसास्वादं प्रति नोपयोगः । नायकादिभावं प्रत्युपयोगोऽस्त्येव । न हि तत्र =नायकादिभावे चेतनत्वेन भवितव्यमिति । तदिदमुक्तं स्वादं प्रत्यसत्समतैवेति । लौकिकस्य तात्पर्यस्यैव काव्येषु भाव्यभावकलक्षणसंबन्धद्वारेण निर्वाहे व्यञ्जकत्वं नाम शक्त्यन्तरं काव्यशब्दानां नाङ्गीकर्तव्यमित्याह एवं चेति । किं च यद् व्यज्यते लोके तदन्यतो लब्धसत्ताकं भवति । मृदादिभिरिव घटादि । इह तु शब्द एव रसमुत्पादयति व्यञ्जयति चेति 1045दुर्वहमित्याह अन्यत इति । इयमनुपपत्तिर्भाव्यभावकलक्षणसंबन्धे 1046नास्तीत्याह भाव्यन्ते चेति ।

ननु च सामाजिकाश्रयेषु रसेषु को विभावः ? कथं सीतादीनां देवीनां विभावत्वे न विरोधः ? उच्यते—

धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः ।
विभावयति रत्यादीन् स्वदन्ते रसिकस्य ते ॥ ४० ॥
ता एव च परित्यक्तविशेषा रसहेतवः ।

न हि कवयो योगिन इव ध्यानचक्षुषा ज्ञात्वा प्रातिस्विकीं रामादीनामवस्थां इतिहासवदुपनिबध्नन्ति । किं तर्हि ? सर्वलोकसाधारण्यात् स्वोत्प्रेक्षाकृतसंनिधयो धीरोदात्ताद्यवस्थाः तन्निबद्धाः क्वचिदाश्रयमात्रदायिन्यो(?)

  1. tadvṛttaṃ means tacchabdaḥ, the demonstrative pronoun. See Note 27a to L.Ṭ..

  2. Before anukāryasya, rūpaṃ is found in M.G.T. and Tri.MS. In Gr. MS. many lines are missing here.

  3. Tri.MS. reads durbhaṇam ity āha.

  4. MSS. are corrupt here. M.G.T. reads: bhāvyabhāvakalakṣaṇasaṃbandho ’stīty āha. Tri.MS. reads bhāvyabhāvakalalakṣasaṃbandhadvāreṇa nāstīty āha.