उद्दीपनविभावो यथा—

अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः परिणतविमलिम्नि व्योम्नि कर्पूरगौरः ।
ऋजुरजतशलाकास्पर्धिभिर्यस्य पादै- र्जगदमलमृणालीपञ्जरस्थं विभाति ॥