221 स्वसामग्रीलब्धपरिपोषान्तराणां1053 त एव चत्वारो विकासाद्याश्चेतसः संभेदाः । अत एव च—
ननु च युक्तं शृङ्गारवीरहास्यादिषु प्रमोदात्मकेषु काव्यार्थसंभेदादानन्दोद्भव इति । करुणादौ तु दुःखात्मकत्वे कथमिवासौ प्रादुःष्यात् । तथा हि—तत्र करुणात्मककाव्यश्रवणाद् दुःखाविर्भावोऽश्रुपातादयश्च रसिकानामपि प्रादुर्भवन्ति । न चैतदानन्दात्मकत्वे सति युज्यते । सत्यमेतत् । किंतु तादृश एवासावानन्दः सुखदुःखात्मको यथा प्रहरणताडनादिषु संभोगावस्थायां कुट्टमिते स्त्रीणाम् । अन्यश्च लौकिकात् करुणात् काव्यकरुणः । तथा हि—अत्रोत्तरोत्तरं रसिकानां प्रवृत्तयः । यदि च लौकिककरुणवद् दुःखात्मकत्वमेवेह स्यात् तदा न कश्चित् तत्र प्रवर्तेत । ततः करुणैकरसानां रामायणादिमाहाप्रबन्धानामुच्छेद एव भवेत् । अश्रुपातादयश्चेतिवृत्तवर्णनाकर्णनेन विनिपतितेष्टलौकिकवैक्लव्यादिबत्1057 प्रेक्षकेषु प्रादुर्भवन्तो न विरुध्यन्ते । तस्माद् रसान्तरवत् करुणस्याप्यानन्दात्मकत्वमेव ।
काव्याद् रसोत्पत्तिप्रकारः कीदृशः । किमात्मको वा रस इत्यपेक्षायां प्रतिपाद्यत इत्याह कथं चेति । स्वाद इति । काव्यार्थस्य विभावादे
-
N.S.P. paripoṣāṇām in place of paripoṣāntarāṇām (of A.T.A.).
↩ - ना॰ शा॰ [GOS] ६।३९↩
- ना॰ शा॰ [GOS] ६।४०↩
-
N.S.P. bhāvāt instead of tāvattvāt. After tāvattvāt some lines up to kiṃtu tādṛśa evāsāv ānandaḥ are missing in A.T.A. N.S.P. has here a number of wrong punctuation marks and expressions, which are cited by many scholars. See Bhoja’s Śṛṅgāra Prakāśa (1963), p. 436.
↩ -
N.S.P. vaiklavyadarśanādivat.
↩