225 दीनां स्वस्ववाक्यापेक्षया वाक्यार्थत्वमेव तथापि रसं प्रत्यवान्तरव्यापारत्वात् पदार्थीभाव एवेति । अतो वाक्यार्थस्थानीयो रसः पदार्थस्थानीया विभावादय इति । भावित इति भावरूपतामानीत इत्यर्थ इत्याह भावित इति ।

विशेषलक्षणान्युच्यन्ते—तत्राचार्येण स्थायिनां रत्यादीनां शृङ्गारादीनां च पृथग् लक्षणानि विभावादिप्रतिपादनेनोदितानि । अत्र तु—

लक्षणैक्यं विभावैक्यादभेदाद् रसभावयोः ॥ ४७ ॥

क्रियत इति शेषः ।1075

तत्र तावच्छृङ्गारः—

रम्यदेशकलाकालवेषभोगादिसेवनैः ।
प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ।
प्रहृष्यमाणा शृङ्गारो मधुराङ्गविचेष्टितैः ॥ ४८ ॥

इत्थमुपनिबध्यमानं काव्यं शृङ्गारास्वादाय भवतीति । 1076रत्युपदेशपरमेतत् ।

नन्वाचार्येण रसभावयोः पृथग् लक्षणमुक्तं चेत् त्वयापि तद्वत् पृथगेव तयोर्लक्षणमुच्यताम् । तत्राह अत्रेति । स्थायिनः परिणतिविशेष एव हि रसः । अतस्तयोर्भेदाभावात् । अभिन्ना एव वस्तुतो विभावादयः । तेन तेषां लक्षणमपि तन्त्रेणोच्यत् इत्यर्थः । लक्षणैक्यमित्येतावति पर्यवस्यति सूत्रम् इति भाति । तेनाह क्रियत इति शेष इति । अत्र लक्षणैक्यं क्रियत इत्यर्थः 1077रत्युपदेशपरमेतदिति । एवमुपनिबध्यमाना रतिः शृङ्गारो भवतीत्युक्तम् । एतद् रत्युपदेशपरमेव । अपरि शृङ्गारप्रपञ्चस्य प्रतिपादयिष्यमाणत्वात् ।

तत्र देशविभावो यथोत्तररामचरिते1078

स्मरसि सुतनु तस्मिन् पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि ।

  1. N.S.P. and A.T.A. vākyaśeṣaḥ. But Bh. Nṛ’s pratīka shows the reading given here.

  2. N.S.P. kavyupadeśaparam etat.

  3. Previous editions read kavyupadeśaparam etat. ratyupadeśaparam etat is found in all the MSS. and also in A.T.A.

  4. In A.T.A. the order of illustrations is slightly different.